Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

raṅganāthastotram

रङ्गनाथस्तोत्रम्

Verse

सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे फणिपतिशयने शेषपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिरः पार्श्वविन्यस्तहस्तं पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥

Verse

आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे । शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥१॥

Verse

कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुचेले । दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले रमतां मनो मे ॥२॥

Verse

लक्ष्मीनिवासे जगतां निवासे हृत्पद्मवासे रविबिम्बवासे । कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥३॥

Verse

ब्रह्मादिवन्द्ये जगदेकवन्द्ये मुकुन्दवन्द्ये सुरनाथवन्द्ये । व्यासादिवन्द्ये सनकादिवन्द्ये श्रीरङ्गवन्द्ये रमतां मनो मे ॥४॥

Verse

ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजे सुरराजराजे । त्रैलोक्यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे ॥५॥

Verse

अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे । श्रितैकभद्रे जगदेकनिद्रे श्रीरङ्गभद्रे रमतां मनो मे ॥६॥

Verse

स चित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी । क्षीराब्धिशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥७॥

Verse

इदं हि रङ्गं त्यजतामिहाङ्गं पुनर्नचाङ्कं यदि चाङ्गमेति । पाणौ रथाङ्गं चरणेम्बु गाङ्गं याने विहङ्गं शयने भुजङ्गम् ॥८॥

Verse

रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय यः पठेत् । सर्वान् कामानवाप्नोति रङ्गिसायुज्यमाप्नुयात् ॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-रङ्गनाथाष्टकं सम्पूर्णम्॥

raṅganātha gadyam
dāmodarāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms