Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vāṇīstavanam

वाणीस्तवनम्

Verse

वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥१॥

Verse

गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुःखार्तो रविस्थानं च पुण्यदम् ॥२॥

Verse

सम्प्राप्य तपसा सूर्यं कोणार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥३॥

Verse

सूर्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः । उवाच स्तुहि वाग्देवीं भक्त्या च स्मृतिहेतवे ॥४॥

Verse

तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः । मुनिः स्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥५॥

Verse

कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥६॥

Verse

ज्ञानं देहि स्मृतिं देहि विद्यां विद्याधिदेवते । प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥७॥

Verse

ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् । प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥८॥

Verse

लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः । यथाऽङ्कुरं जनयति भगवान् योगमायया ॥९॥

Verse

ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी । सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥१०॥

Verse

यया विना जगत् सर्वं शश्वज्जीवन्मृतं सदा । ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥११॥

Verse

यया विना जगत् सर्वं मूकमुन्मत्तवत् सदा । वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥१२॥

Verse

हिमचन्दनकुन्देन्दुकुमुदाम्भोजसन्निभा । वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥१३॥

Verse

विसर्गबिन्दुमात्राणां यदधिष्ठानमेव च । इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥१४॥

Verse

यया विनाऽत्र सङ्ख्याकृत्सङ्ख्यां कर्तुं न शक्नुते । कालसङ्ख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥१५॥

Verse

व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता । भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥१६॥

Verse

स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी । प्रतिभा कल्पनाशक्तिर्या च तस्यै नमो नमः ॥१७॥

Verse

सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै । बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥१८॥

Verse

तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः । उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥१९॥

Verse

स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः । चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥२०॥

Verse

यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा । बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥२१॥

Verse

तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया । ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥२२॥

Verse

व्यासः पुराणसूत्रं समपृच्छद्वाल्मिकिं यदा । मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥२३॥

Verse

तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः । स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥२४॥

Verse

पुराणसूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः । त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्करे ॥२५॥

Verse

तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह । तदा वेदविभागं च पुराणानि चकार ह ॥२६॥

Verse

यदा महेन्द्रे पप्रच्छ तत्त्वज्ञानं शिवा शिवम् । क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं ददौ विभुः ॥२७॥

Verse

पप्रच्छ शब्दशास्त्रं च महेन्द्रश्च बृहस्पतिम् । दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥२८॥

Verse

तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् । उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥२९॥

Verse

अध्यापिताश्च यैः शिष्या यैरधीतं मुनीश्वरैः । ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥३०॥

Verse

त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः । दैत्येन्द्रैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥३१॥

Verse

जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः । यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥३२॥

Verse

इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः । प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥३३॥

Verse

तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् । सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥३४॥

Verse

महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् । स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥३५॥

Verse

॥इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री-नारद-नारायण-संवादे श्री-याज्ञवल्क्योक्तं श्री-वाणीस्तवनं सम्पूर्णम्॥

śāradā prārthanā
sarasvatīstotraṃ bṛhaspativiracitam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms