Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sarasvatīstotraṃ bṛhaspativiracitam

सरस्वतीस्तोत्रं बृहस्पतिविरचितम्

Verse

सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् । कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥१॥

Verse

मतिदां वरदां चैव सर्वकामफलप्रदाम् । केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥२॥

Verse

मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् । स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥३॥

Verse

मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् । पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥४॥

Verse

आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् । ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥५॥

Verse

इति सत्यं स्तुता देवी वागीशेन महात्मना । आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥६॥

Verse

वरं वृणीष्व भद्रं त्वं यत् ते मनसि वर्तते ।

Verse

प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥७॥

Verse

दत्तं ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥८॥

Verse

लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः । कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥९॥

Verse

त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥१०॥

Verse

॥इति श्री-रुद्रयामले श्री-बृहस्पतिविरचितं श्री-सरस्वतीस्तोत्रं सम्पूर्णम्॥

vāṇīstavanam
subrahmaṇyabhujaṅgam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms