Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

subrahmaṇyabhujaṅgam

सुब्रह्मण्यभुजङ्गम्

Verse

सदा बालरूपाऽपि विघ्नाद्रिहन्त्री महादन्तिवक्त्राऽपि पञ्चास्यमान्या । विधीन्द्रादिमृग्या गणेशाभिधा मे विधत्तां श्रियं काऽपि कल्याणमूर्तिः ॥१॥

Verse

न जानामि शब्दं न जानामि चार्थं न जानामि पद्यं न जानामि गद्यम् । चिदेका षडास्या हृदि द्योतते मे मुखान्निस्सरन्ते गिरश्चापि चित्रम् ॥२॥

Verse

मयूराधिरूढं महावाक्यगूढं मनोहारिदेहं महच्चित्तगेहम् । महीदेवदेवं महावेदभावं महादेवबालं भजे लोकपालम् ॥३॥

Verse

यदा सन्निधानं गता मानवा मे भवाम्भोधिपारं गतास्ते तदैव । इति व्यञ्जयन् सिन्धुतीरे य आस्ते तमीडे पवित्रं पराशक्तिपुत्रम् ॥४॥

Verse

यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गास्- तथैवापदः सन्निधौ सेवतां मे । इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तं सदा भावये हृत्सरोजे गुहं तम् ॥५॥

Verse

गिरौ मन्निवासे नरा येऽधिरूढास्- तदा पर्वते राजते तेऽधिरूढाः । इतीव ब्रुवन् गन्धशैलाधिरूढः स देवो मुदे मे सदा षण्मुखोऽस्तु ॥६॥

Verse

महाम्भोधितीरे महापापचोरे मुनीन्द्रानुकूले सुगन्धाख्यशैले । गुहायां वसन्तं स्वभासा लसन्तं जनार्तिं हरन्तं श्रयामो गुहं तम् ॥७॥

Verse

लसत्स्वर्णगेहे नृणां कामदोहे सुमस्तोमसञ्छन्नमाणिक्यमञ्चे । समुद्यत्सहस्रार्कतुल्यप्रकाशं सदा भावये कार्त्तिकेयं सुरेशम् ॥८॥

Verse

रणद्धंसके मञ्जुलेऽत्यन्तशोणे मनोहारिलावण्यपीयूषपूर्णे । मनःषट्पदो मे भवक्लेशतप्तः सदा मोदतां स्कन्द ते पादपद्मे ॥९॥

Verse

सुवर्णाभदिव्याम्बरैर्भासमानां क्वणत्किङ्किणीमेखलाशोभमानाम् । लसद्धेमपट्टेन विद्योतमानां कटिं भावये स्कन्द ते दीप्यमानाम् ॥१०॥

Verse

पुलिन्देशकन्याघनाभोगतुङ्ग- स्तनालिङ्गनासक्तकाश्मीररागम् । नमस्याम्यहं तारकारे तवोरः स्वभक्तावने सर्वदा सानुरागम् ॥११॥

Verse

विधौ कॢप्तदण्डान् स्वलीलाधृताण्डान् निरस्तेभशुण्डान् द्विषत्कालदण्डान् । हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान् सदा ते प्रचण्डान् श्रये बाहुदण्डान् ॥१२॥

Verse

सदा शारदाः षण्मृगाङ्का यदि स्युः समुद्यन्त एव स्थिताश्चेत् समन्तात् । सदा पूर्णबिम्बाः कलङ्कैश्च हीनास्- तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥१३॥

Verse

स्फुरन्मन्दहासैः सहंसानि चञ्चत् कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि । सुधास्यन्दिबिम्बाधराणीशसूनो तवाऽऽलोकये षण्मुखाम्भोरुहाणि ॥१४॥

Verse

विशालेषु कर्णान्तदीर्घेष्वजस्रं दयास्यन्दिषु द्वादशस्वीक्षणेषु । मयीषत् कटाक्षः सकृत् पातितश्चेद् भवेत् ते दयाशील का नाम हानिः ॥१५॥

Verse

सुताङ्गोद्भवो मेऽसि जीवेति षड्धा जपन् मन्त्रमीशो मुदा जिघ्रते यान् । जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥१६॥

Verse

स्फुरद्रत्नकेयूरहाराभिरामश्- चलत्कुण्डलश्रीलसद्गण्डभागः । कटौ पीतवासाः करे चारुशक्तिः पुरस्तान्ममास्तां पुरारेस्तनूजः ॥१७॥

Verse

इहाऽऽयाहि वत्सेति हस्तान् प्रसार्या- ऽऽह्वयत्यादराच्छङ्करे मातुरङ्कात् । समुत्पत्य तातं श्रयन्तं कुमारं हराश्लिष्टगात्रं भजे बालमूर्तिम् ॥१८॥

Verse

कुमारेशसूनो गुह स्कन्द सेना- पते शक्तिपाणे मयूराधिरूढ । पुलिन्दात्मजाकान्त भक्तार्तिहारिन् प्रभो तारकारे सदा रक्ष मां त्वम् ॥१९॥

Verse

प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे कफोद्गारिवक्त्रे भयोत्कम्पिगात्रे । प्रयाणोन्मुखे मय्यनाथे तदानीं द्रुतं मे दयालो भवाग्रे गुह त्वम् ॥२०॥

Verse

कृतान्तस्य दूतेषु चण्डेषु कोपाद् दहच्छिन्धि भिन्धीति मां तर्जयत्सु । मयूरं समारुह्य मा भीरिति त्वं पुरः शक्तिपाणिर्ममाऽऽयाहि शीघ्रम् ॥२१॥

Verse

प्रणम्यासकृत् पादयोस्ते पतित्वा प्रसाद्य प्रभो प्रार्थयेऽनेकवारम् । न वक्तुं क्षमोऽहं तदानीं कृपाब्धे न कार्याऽन्तकाले मनागप्युपेक्षा ॥२२॥

Verse

सहस्राण्डभोक्ता त्वया शूरनामा हतस्तारकः सिंहवक्त्रश्च दैत्यः । ममान्तर्हृदिस्थं मनःक्लेशमेकं न हंसि प्रभो किं करोमि क्व यामि ॥२३॥

Verse

अहं सर्वदा दुःखभारावसन्नो भवान् दीनबन्धुस्त्वदन्यं न याचे । भवद्भक्तिरोधं सदा कॢप्तबाधं ममाधिं द्रुतं नाशयोमासुत त्वम् ॥२४॥

Verse

अपस्मारकुष्ठक्षयार्शःप्रमेह- ज्वरोन्मादगुल्मादिरोगा महान्तः । पिशाचाश्च सर्वे भवत्पत्रभूतिं विलोक्य क्षणात् तारकारे द्रवन्ते ॥२५॥

Verse

दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्तिर्- मुखे मे पवित्रं सदा तच्चरित्रम् । करे तस्य कृत्यं वपुस्तस्य भृत्यं गुहे सन्तु लीना ममाशेषभावाः ॥२६॥

Verse

मुनीनामुताहो नृणां भक्तिभाजाम् अभीष्टप्रदाः सन्ति सर्वत्र देवाः । नृणामन्त्यजानामपि स्वार्थदाने गुहाद् देवमन्यं न जाने न जाने ॥२७॥

Verse

कलत्रं सुता बन्धुवर्गः पशुर्वा नरो वाऽथ नारी गृहे ये मदीयाः । यजन्तो नमन्तः स्तुवन्तो भवन्तं स्मरन्तश्च ते सन्तु सर्वे कुमार ॥२८॥

Verse

मृगाः पक्षिणो दंशका ये च दुष्टास्- तथा व्याधयो बाधका ये मदङ्गे । भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे विनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥२९॥

Verse

जनित्री पिता च स्वपुत्रापराधं सहेते न किं देवसेनाधिनाथ । अहं चातिबालो भवाँल्लोकतातः क्षमस्वापराधं समस्तं महेश ॥३०॥

Verse

नमः केकिने शक्तये चापि तुभ्यं नमश्छाग तुभ्यं नमः कुक्कुटाय । नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥३१॥

Verse

जयाऽऽनन्दभूमन् जयापारधामन् जयामोघकीर्ते जयाऽऽनन्दमूर्ते । जयाऽऽनन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो ॥३२॥

Verse

भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यः पठेद् भक्तियुक्तो गुहं सम्प्रणम्य । स पुत्रान् कलत्रं धनं दीर्घमायुर्- लभेत् स्कन्दसायुज्यमन्ते नरः सः ॥३३॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-सुब्रह्मण्यभुजङ्गं सम्पूर्णम्॥

sarasvatīstotraṃ bṛhaspativiracitam
śrī-paramaśivendra-kṛtaṃ subrahmaṇya-bhujaṅgam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms