stotrasangraha
śāradā prārthanā
शारदा प्रार्थना
Verse
नमस्ते शारदे देवि काश्मीरपुरवासिनि । त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥१॥
Verse
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा । भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥२॥
Verse
नमामि यामिनीं नाथलेखालङ्कृतकुन्तलाम् । भवानीं भवसन्तापनिर्वापणसुधानदीम् ॥३॥
Verse
भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदाङ्गवेदान्तविद्यास्थानेभ्य एव च ॥४॥
Verse
ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी । सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥५॥
Verse
यया विना जगत् सर्वं शश्वज्जीवन्मृतं भवेत् । ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥६॥
Verse
यया विना जगत् सर्वं मूकमुन्मत्तवत् सदा । या देवी वागधिष्ठात्री तस्यै वाण्यै नमो नमः ॥७॥
Verse
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-शारदा-प्रार्थना सम्पूर्णा॥
