Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

vālī-sugrīva-kathā

वाली-सुग्रीव-कथा

Verse

वालिसुग्रीवयोर्जन्म श्रोतुमिच्छामि तत्त्वतः । रवीन्द्रौ वानराकारौ जज्ञाताविति नः श्रुतम् ॥१॥

Verse

मेरोः स्वर्णमयस्याद्रेर्मध्यशृङ्गे मणिप्रभे । तस्मिन् सभाऽऽस्ते विस्तीर्णा ब्रह्मणः शतयोजना ॥२॥

Verse

तस्यां चतुर्मुखः साक्षात्कदाचिद्योगमास्थितः । नेत्राभ्यां पतितं दिव्यमानन्दसलिलं बहु ॥३॥

Verse

तद्गृहीत्वा करे ब्रह्मा ध्यात्वा किञ्चित्तदत्यजत् । भूमौ पतितमात्रेण तस्माज्जातो महाकपिः ॥४॥

Verse

तमाह द्रुहिणो वत्स किञ्चित्कालं वसात्र मे । समीपे सर्वशोभाढ्ये ततः श्रेयो भविष्यति ॥५॥

Verse

इत्युक्तो न्यवसत् तत्र ब्रह्मणा वानरोत्तमः । एवं बहुतिथे काले गते ऋक्षाधिपः सुधीः ॥६॥

Verse

कदाचित्पर्यटन्नद्रौ फलमूलार्थमुद्यतः । अपश्यद्दिव्यसलिलां वापीं मणिशिलान्विताम् ॥७॥

Verse

पानीयं पातुमागच्छत् तत्र छायामयं कपिम् । दृष्ट्वा प्रतिकपिं मत्वा निपपात जलान्तरे ॥८॥

Verse

तत्रादृष्ट्वा हरिं शीघ्रं पुनरुत्प्लुत्य वानरः । अपश्यत् सुन्दरीं रामामात्मानं विस्मयं गतः ॥९॥

Verse

ततः सुरेशो देवेशं पूजयित्वा चतुर्मुखम् । गच्छन् मध्याह्नसमये दृष्ट्वा नारीं मनोरमाम् ॥१०॥

Verse

कन्दर्पशरविद्धाङ्गस्त्यक्तवान् वीर्यमुत्तमम् । तामप्राप्यैव तद् बीजं वालदेशेऽपतद् भुवि ॥११॥

Verse

वाली समभवत् तत्र शक्रतुल्यपराक्रमः । तस्य दत्त्वा सुरेशानः स्वर्णमालां दिवं गतः ॥१२॥

Verse

भानुरप्यागतस्तत्र तदानीमेव भामिनीम् । दृष्ट्वा कामवशो भूत्वा ग्रीवादेशेऽसृजन्महत् ॥१३॥

Verse

बीजं तस्यास्ततः सद्यो महाकायोऽभवद्धरिः । तस्य दत्त्वा हनूमन्तं सहायार्थं गतो रविः ॥१४॥

Verse

पुत्रद्वयं समादाय गत्वा सा निद्रिता क्वचित् । प्रभातेऽपश्यदात्मानं पूर्ववद् वानराकृतिम् ॥१५॥

Verse

फलमूलादिभिः सार्धं पुत्राभ्यां सहितः कपिः । नत्वा चतुर्मुखस्याग्रे ऋक्षराजः स्थितः सुधीः ॥१६॥

Verse

ततोऽब्रवीत् समाश्वास्य बहुशः कपिकुञ्जरम् । तत्रैकं देवतादूतमाहूयामरसन्निभम् ॥१७॥

Verse

गच्छ दूत मयाऽऽदिष्टो गृहीत्वा वानरोत्तमम् । किष्किन्धां दिव्यनगरीं निर्मितां विश्वकर्मणा ॥१८॥

Verse

सर्वसौभाग्यवलितां देवैरपि दुरासदाम् । तस्यां सिंहासने वीरं राजानमभिषेचय ॥१९॥

Verse

सप्तद्वीपगता ये ये वानराः सन्ति दुर्जयाः । सर्वे ते ऋक्षराजस्य भविष्यन्ति वशेऽनुगाः ॥२०॥

Verse

यदा नारायणः साक्षाद्रामो भूत्वा सनातनः । भूभारासुरनाशाय सम्भविष्यति भूतले ॥२१॥

Verse

तदा सर्वे सहायार्थे तस्य गच्छन्तु वानराः । इत्युक्तो ब्रह्मणा दूतो देवानां स महामतिः ॥२२॥

Verse

यथाऽऽज्ञप्तस्तथा चक्रे ब्रह्मणा तं हरीश्वरम् । देवदूतस्ततो गत्वा ब्रह्मणे तन्न्यवेदयत् ॥२३॥

Verse

तदादि वानराणां सा किष्किन्धाऽभून्नृपाश्रयः ॥२४॥

Verse

सर्वेश्वरस्त्वमेवासीरिदानीं ब्रह्मणार्थितः । भूमेर्भारो हृतः कृत्स्नस्त्वया लीलानृदेहिना । सर्वभूतान्तरस्थस्य नित्यमुक्तचिदात्मनः ॥२५॥

Verse

अखण्डानन्तरूपस्य कियानेष पराक्रमः । तथाऽपि वर्ण्यते सद्भिर्लीलामानुषरूपिणः ॥२६॥

Verse

यशस्ते सर्वलोकानां पापहत्यै सुखाय च । य इदं कीर्तयेन् मर्त्यो वालिसुग्रीवयोर्महत् ॥२७॥

Verse

जन्म त्वदाश्रयत्वात् स मुच्यते सर्वपातकैः ॥२८॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे तृतीये सर्गे वाली-सुग्रीव-कथा सम्पूर्णा॥

vālmīkyopadeśaḥ
rāmopadeśaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms