stotrasangraha
vālmīkyopadeśaḥ
वाल्मीक्योपदेशः
Verse
शृणु वक्ष्यामि ते सर्वं सङ्क्षेपाद् बन्धमोक्षयोः । स्वरूपं साधनं चापि मत्तः श्रुत्वा यथोदितम् ॥४०॥
Verse
तथैवाऽऽचर भद्रं ते जीवन्मुक्तो भविष्यसि । देह एव महागेहमदेहस्य चिदात्मनः ॥४१॥
Verse
तस्याहङ्कार एवास्मिन्मन्त्री तेनैव कल्पितः । देहगेहाभिमानं स्वं समारोप्य चिदात्मनि ॥४२॥
Verse
तेन तादात्म्यमापन्नः स्वचेष्टितमशेषतः । विदधाति चिदानन्दे तद्वासितवपुः स्वयम् ॥४३॥
Verse
तेन सङ्कल्पितो देही सङ्कल्पनिगडावृतः । पुत्रदारगृहादीनि सङ्कल्पयति चानिशम् ॥४४॥
Verse
सङ्कल्पयन् स्वयं देही परिशोचति सर्वदा । त्रयस्तस्याहमो देहा अधमोत्तममध्यमाः ॥४५॥
Verse
तमः सत्त्वरजः संज्ञा जगतः कारणं स्थितेः । तमोरूपाद्धि सङ्कल्पान्नित्यं तामसचेष्टया ॥४६॥
Verse
अत्यन्तं तामसो भूत्वा कृमिकीटत्वमाप्नुयात् । सत्त्वरूपो हि सङ्कल्पो धर्मज्ञानपरायणः ॥४७॥
Verse
अदूरमोक्षसाम्राज्यः सुखरूपो हि तिष्ठति । रजोरूपो हि सङ्कल्पो लोके स व्यवहारवान् ॥४८॥
Verse
परितिष्ठति संसारे पुत्रदारानुरञ्जितः । त्रिविधं तु परित्यज्य रूपमेतन्महामते ॥४९॥
Verse
सङ्कल्पं परमाप्नोति पदमात्मपरिक्षये । दृष्टीः सर्वाः परित्यज्य नियम्य मनसा मनः ॥५०॥
Verse
सबाह्याभ्यन्तरार्थस्य सङ्कल्पस्य क्षयं कुरु । यदि वर्षसहस्राणि तपश्चरसि दारुणम् ॥५१॥
Verse
पातालस्थस्य भूस्थस्य स्वर्गस्थस्यापि तेऽनघ । नान्यः कश्चिदुपायोऽस्ति सङ्कल्पोपशमादृते ॥५२॥
Verse
अनाबाधेऽविकारे स्वे सुखे परमपावने । सङ्कल्पोपशमे यत्नं पौरुषेण परं कुरु ॥५३॥
Verse
सङ्कल्पतन्तौ निखिला भावाः प्रोताः किलानघ । छिन्ने तन्तौ न जानीमः क्व यान्ति विभवाः पराः ॥५४॥
Verse
निःसङ्कल्पो यथाप्राप्तव्यवहारपरो भव । क्षये सङ्कल्पजालस्य जीवो ब्रह्मत्वमाप्नुयात् ॥५५॥
Verse
अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः । अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः ॥५६॥
Verse
॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे षष्ठे सर्गे वाल्मीक्योपदेशः सम्पूर्णः॥
