Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

rāmopadeśaḥ

रामोपदेशः

Verse

एकान्ते ध्याननिरते एकदा राघवे सति । ज्ञात्वा नारायणं साक्षात्कौसल्या प्रियवादिनी ॥५३॥

Verse

भक्त्याऽऽगत्य प्रसन्नं तं प्रणता प्राह हृष्टधीः । राम त्वं जगतामादिरादिमध्यान्तवर्जितः ॥५४॥

Verse

परमात्मा परानन्दः पूर्णः पुरुष ईश्वरः । जातोऽसि मे गर्भगृहे मम पुण्यातिरेकतः ॥५५॥

Verse

अवसाने ममाप्यद्य समयोऽभूद् रघूत्तम । नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते ॥५६॥

Verse

इदानीमपि मे ज्ञानं भवबन्धनिवर्तकम् । यथा सङ्क्षेपतो भूयात्तथा बोधय मां विभो ॥५७॥

Verse

निर्वेदवादिनीमेवं मातरं मातृवत्सलः । दयालुः प्राह धर्मात्मा जराजर्जरितां शुभाम् ॥५८॥

Verse

मार्गास्त्रयो मया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः । कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः ॥५९॥

Verse

भक्तिर्विभिद्यते मातस्त्रिविधा गुणभेदतः । स्वभावो यस्य यस्तेन तस्य भक्तिर्विभिद्यते ॥६०॥

Verse

यस्तु हिंसां समुद्दिश्य दम्भं मात्सर्यमेव वा । भेददृष्टिश्च संरम्भी भक्तो मे तामसः स्मृतः ॥६१॥

Verse

फलाभिसन्धिर्भोगार्थी धनकामो यशस्तथा । अर्चादौ भेदबुद्ध्या मां पूजयेत् स तु राजसः ॥६२॥

Verse

परस्मिन्नर्पितं यस्तु कर्मनिर्हरणाय वा । कर्तव्यमिति वा कुर्याद्भेदबुद्ध्या स सात्त्विकः ॥६३॥

Verse

मद्गुणाश्रयणादेव मय्यनन्तगुणालये । अविच्छिन्ना मनोवृत्तिर्यथा गङ्गाम्बुनोऽम्बुधौ ॥६४॥

Verse

तदेव भक्तियोगस्य लक्षणं निर्गुणस्य हि । अहैतुक्यव्यवहिता या भक्तिर्मयि जायते ॥६५॥

Verse

सा मे सालोक्यसामीप्यसार्ष्टिसायुज्यमेव वा । ददात्यपि न गृह्णन्ति भक्ता मत्सेवनं विना ॥६६॥

Verse

स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि । मद्भावं प्राप्नुयात्तेन अतिक्रम्य गुणत्रयम् ॥६७॥

Verse

महता कामहीनेन स्वधर्माचरणेन च । कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् ॥६८॥

Verse

मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः । भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः ॥६९॥

Verse

बहुमानेन महतां दुःखिनामनुकम्पया । स्वसमानेषु मैत्र्या च यमादीनां निषेवया ॥७०॥

Verse

वेदान्तवाक्यश्रवणान्मम नामानुकीर्तनात् । सत्सङ्गेनार्जवेनैव ह्यहमः परिवर्जनात् ॥७१॥

Verse

काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः । मद्गुणश्रवणादेव याति मामञ्जसा जनः ॥७२॥

Verse

यथा वायुवशाद्गन्धः स्वाश्रयाद्घ्राणमाविशेत् । योगाभ्यासरतं चित्तमेवमात्मानमाविशेत् ॥७३॥

Verse

सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः । तमज्ञात्वा विमूढात्मा कुरुते केवलं बहिः ॥७४॥

Verse

क्रियोत्पन्नैर्नैकभेदैर्द्रव्यैर्मे नाम्ब तोषणम् । भूतावमानिनार्चायामर्चितोऽहं न पूजितः ॥७५॥

Verse

तावन्मामर्चयेद् देवं प्रतिमादौ स्वकर्मभिः । यावत् सर्वेषु भूतेषु स्थितं चात्मनि न स्मरेत् ॥७६॥

Verse

यस्तु भेदं प्रकुरुते स्वात्मनश्च परस्य च । भिन्नदृष्टेर्भयं मृत्युस्तस्य कुर्यान्न संशयः ॥७७॥

Verse

मामतः सर्वभूतेषु परिच्छिन्नेषु संस्थितम् । एकं ज्ञानेन मानेन मैत्र्या चार्चेदभिन्नधीः ॥७८॥

Verse

चेतसैवानिशं सर्वभूतानि प्रणमेत् सुधीः । ज्ञात्वा मां चेतनं शुद्धं जीवरूपेण संस्थितम् ॥७९॥

Verse

तस्मात्कदाचिन्नेक्षेत भेदमीश्वरजीवयोः । भक्तियोगो ज्ञानयोगो मया मातरुदीरितः ॥८०॥

Verse

आलम्ब्यैकतरं वाऽपि पुरुषः शुभमृच्छति । ततो मां भक्तियोगेन मातः सर्वहृदि स्थितम् ॥८१॥

Verse

पुत्ररूपेण वा नित्यं स्मृत्वा शान्तिमवाप्स्यसि । श्रुत्वा रामस्य वचनं कौसल्याऽऽनन्दसंयुता ॥८२॥

Verse

रामं सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् । अतिक्रम्य गतीस्तिस्रोऽप्यवाप परमां गतिम् ॥८३॥

Verse

कैकेयी चापि योगं रघुपतिगदितं पूर्वमेवाधिगम्य श्रद्धाभक्तिप्रशान्ता हृदि रघुतिलकं भावयन्ती गतासुः । गत्वा स्वर्गं स्फुरन्ती दशरथसहिता मोदमानावतस्थे माता श्रीलक्ष्मणस्याप्यतिविमलमतिः प्राप भर्तुः समीपम् ॥८४॥

Verse

॥इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः सम्पूरणः॥

vālī-sugrīva-kathā

Read next

More on रामोपदेशः

  • चन्द्रमोपदेशःStotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms