stotrasangraha
umāmaheśvarastotram
उमामहेश्वरस्तोत्रम्
Verse
नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्याम् । नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥१॥
Verse
नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥२॥
Verse
नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥३॥
Verse
नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥४॥
Verse
नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरी-पञ्जररञ्जिताभ्याम् । प्रपञ्च-सृष्टि-स्थिति-संहृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥५॥
Verse
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥६॥
Verse
नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥७॥
Verse
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् । अकुण्ठिताभ्यां स्मृतिसम्भृताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥८॥
Verse
नमः शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् । राका-शशाङ्काभ-मुखाम्बुजाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥९॥
Verse
नमः शिवाभ्यां जटिलन्धराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥१०॥
Verse
नमः शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावती-शान्तवतीश्वराभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥११॥
Verse
नमः शिवाभ्यां पशुपालकाभ्यां जगत्त्रयीरक्षण-बद्धहृद्भ्याम् । समस्तदेवासुरपूजिताभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥१२॥
Verse
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्यां भक्त्या पठेद् द्वादशकं नरो यः । स सर्वसौभाग्य-फलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति ॥१३॥
Verse
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-उमामहेश्वरस्तोत्रं सम्पूर्णम्॥
