stotrasangraha
śambhustutiḥ
शम्भुस्तुतिः
Verse
नमामि शम्भुं पुरुषं पुराणं नमामि सर्वज्ञमपारभावम् । नमामि रुद्रं प्रभुमक्षयं तं नमामि शर्वं शिरसा नमामि ॥१॥
Verse
नमामि देवं परमव्ययं तम् उमापतिं लोकगुरुं नमामि । नमामि दारिद्र्यविदारणं तं नमामि रोगापहरं नमामि ॥२॥
Verse
नमामि कल्याणमचिन्त्यरूपं नमामि विश्वोद्भवबीजरूपम् । नमामि विश्वस्थितिकारणं तं नमामि संहारकरं नमामि ॥३॥
Verse
नमामि गौरीप्रियमव्ययं तं नमामि नित्यं क्षरमक्षरं तम् । नमामि चिद्रूपममेयभावं त्रिलोचनं तं शिरसा नमामि ॥४॥
Verse
नमामि कारुण्यकरं भवस्य भयङ्करं वाऽपि सदा नमामि । नमामि दातारमभीप्सितानां नमामि सोमेशमुमेशमादौ ॥५॥
Verse
नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तम् । नमामि पुण्यं सदसद्व्यतीतं नमामि तं पापहरं नमामि ॥६॥
Verse
नमामि विश्वस्य हिते रतं तं नमामि रूपाणि बहूनि धत्ते । यो विश्वगोप्ता सदसत्प्रणेता नमामि तं विश्वपतिं नमामि ॥७॥
Verse
यज्ञेश्वरं सम्प्रति हव्यकव्यं तथागतिं लोकसदाशिवो यः । आराधितो यश्च ददाति सर्वं नमामि दानप्रियमिष्टदेवम् ॥८॥
Verse
नमामि सोमेश्वरमस्वतन्त्रम् उमापतिं तं विजयं नमामि । नमामि विघ्नेश्वरनन्दिनाथं पुत्रप्रियं तं शिरसा नमामि ॥९॥
Verse
नमामि देवं भवदुःखशोक- विनाशनं चन्द्रधरं नमामि । नमामि गङ्गाधरमीशमीड्यम् उमाधवं देववरं नमामि ॥१०॥
Verse
नमाम्यजादीशपुरन्दरादि- सुरासुरैरर्चितपादपद्मम् । नमामि देवीमुखवादनानाम् ईक्षार्थमक्षित्रितयं य ऐच्छत् ॥११॥
Verse
पञ्चामृतैर्गन्धसुधूपदीपैर्- विचित्रपुष्पैर्विविधैश्च मन्त्रैः । अन्नप्रकारैः सकलोपचारैः सम्पूजितं सोममहं नमामि ॥१२॥
Verse
॥इति श्रीब्रह्ममहापुराणे त्रयोविंशाधिकशततमाध्यायान्तर्गता श्रीरामकृता शम्भुस्तुतिः सम्पूर्णा॥
