stotrasangraha
śivasahasranāmastotram (viṣṇukṛtam)
शिवसहस्रनामस्तोत्रम् (विष्णुकृतम्)
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
Verse
नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥
Verse
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
Verse
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥
Verse
कथं देवेन वै सूत देवदेवान्महेश्वरात् । सुदर्शनाख्यं वै लब्धं वक्तुमर्हसि विष्णुना ॥१॥
Verse
देवानामसुरेन्द्राणामभवच्च सुदारुणः । सर्वेषामेव भूतानां विनाशकरणो महान् ॥२॥
Verse
ते देवाः शक्तिमुसलैः सायकैर्नतपर्वभिः । प्रभिद्यमानाः कुन्तैश्च दुद्रुवुर्भयविह्वलाः ॥३॥
Verse
पराजितास्तदा देवा देवदेवेश्वरं हरिम् । प्रणेमुस्तं सुरेशानं शोकसंविग्नमानसाः ॥४॥
Verse
तान् समीक्ष्याथ भगवान् देवदेवेश्वरो हरिः । प्रणिपत्य स्थितान् देवानिदं वचनमब्रवीत् ॥५॥
Verse
वत्साः किमिति वै देवाश्च्युतालङ्कारविक्रमाः । समागताः ससन्तापा वक्तुमर्हथ सुव्रताः ॥६॥
Verse
तस्य तद् वचनं श्रुत्वा तथाभूताः सुरोत्तमाः । प्रणम्याहुर्यथावृत्तं देवदेवाय विष्णवे ॥७॥
Verse
भगवन् देवदेवेश विष्णो जिष्णो जनार्दन । दानवैः पीडिताः सर्वे वयं शरणमागताः ॥८॥
Verse
त्वमेव देवदेवेश गतिर्नः पुरुषोत्तम । त्वमेव परमात्मा हि त्वं पिता जगतामपि ॥९॥
Verse
त्वमेव भर्ता हर्ता च भोक्ता दाता जनार्दन । हन्तुमर्हसि तस्मात् त्वं दानवान् दानवार्दन ॥१०॥
Verse
दैत्याश्च वैष्णवैर्ब्राह्मै रौद्रैर्याम्यैः सुदारुणैः । कौबेरैश्चैव सौम्यैश्च नैर्ऋत्यैर्वारुणैर्दृढैः ॥११॥
Verse
वायव्यैश्च तथाऽऽग्नेयैरेशानैर्वार्षिकैः शुभैः । सौरै रौद्रैस्तथा भीमैः कम्पनैर्जृम्भणैर्दृढैः ॥१२॥
Verse
अवध्या वरलाभात् ते सर्वे वारिजलोचन । सूर्यमण्डलसम्भूतं त्वदीयं चक्रमुद्यतम् ॥१३॥
Verse
कुण्ठितं हि दधीचेन च्यावनेन जगद्गुरो । दण्डं शार्ङ्गं तवास्त्रं च लब्धं दैत्यैः प्रसादतः ॥१४॥
Verse
पुरा जलन्धरं हेतुं निर्मितं त्रिपुरारिणा । रथाङ्गं सुशितं घोरं तेन तान् हन्तुमर्हसि ॥१५॥
Verse
तस्मात् तेन निहन्तव्या नान्यैः शस्त्रशतैरपि । ततो निशम्य तेषां वै वचनं वारिजेक्षणः ॥१६॥
Verse
वाचस्पतिमुखानाह स हरिश्चक्रभृत् स्वयम्।
Verse
भो भो देवा महादेवं सर्वैर्देवैः सनातनैः॥१७॥
Verse
सम्प्राप्य साम्प्रतं सर्वं करिष्यामि दिवौकसाम् । देवा जलन्धरं हन्तुं निर्मितं हि पुरारिणा ॥१८॥
Verse
लब्ध्वा रथाङ्गं तेनैव निहत्य च महासुरान् । सर्वान् धुन्धुमुखान् दैत्यान् अष्टषष्टिशतान् सुरान् ॥१९॥
Verse
सबान्धवान् क्षणादेव युष्मान् सन्तारयाम्यहम्।
Verse
एवमुक्त्वा सुरश्रेष्ठान् सुरश्रेष्ठमनुस्मरन्॥२०॥
Verse
सुरश्रेष्ठस्तदा श्रेष्ठं पूजयामास शङ्करम् । लिङ्गं स्थाप्य यथान्यायं हिमवच्छिखरे शुभे ॥२१॥
Verse
मेरुपर्वतसङ्काशं निर्मितं विश्वकर्मणा । त्वरिताख्येन रुद्रेण रौद्रेण च जनार्दनः ॥२२॥
Verse
स्नाप्य सम्पूज्य गन्धाद्यैर्ज्वालाकारं मनोरमम् । तुष्टाव च तदा रुद्रं सम्पूज्याग्नौ प्रणम्य च ॥२३॥
Verse
देवं नाम्नां सहस्रेण भवाद्येन यथाक्रमम् । पूजयामास च शिवं प्रणवाद्यं नमोन्तकम् ॥२४॥
Verse
देवं नाम्नां सहस्रेण भवाद्येन महेश्वरम् । प्रतिनाम स पद्मेन पूजयामास शङ्करम् ॥२५॥
Verse
अग्नौ च नामभिर्देवं भवाद्यैः समिदादिभिः । स्वाहान्तैर्विधिवद्धुत्वा प्रत्येकमयुतं प्रभुम् ॥२६॥
Verse
तुष्टाव च पुनः शम्भुं भवाद्यैर्भवमीश्वरम्।
Verse
अस्य श्रीशिवसहस्रनामस्तोत्रमहामन्त्रस्य श्रीविष्णुः ऋषिः, अनुष्टुप् छन्दः, परमात्मा श्रीशङ्करो देवता।
Verse
मूले कल्पद्रुमस्य द्रुतकनकनिभं चारुपद्मासनस्थं वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् । नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिनेत्रं वन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम् ॥
Verse
भवः शिवो हरो रुद्रः पुरुषः पद्मलोचनः । अर्थितव्यः सदाचारः सर्वशम्भुमहेश्वरः ॥१॥
Verse
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् । वरीयान् वरदो वन्द्यः शङ्करः परमेश्वरः ॥२॥
Verse
गङ्गाधरः शूलधरः परार्थैकप्रयोजनः । सर्वज्ञः सर्वदेवादिगिरिधन्वा जटाधरः ॥३॥
Verse
चन्द्रापीडश्चन्द्रमौलिर्विद्वान् विश्वामरेश्वरः । वेदान्तसारसन्दोहः कपाली नीललोहितः ॥४॥
Verse
ध्यानाधारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः । अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥५॥
Verse
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः । वामदेवो महादेवः पाण्डुः परिदृढोऽदृढः ॥६॥
Verse
विश्वरूपो विरूपाक्षो वागीशः शुचिरन्तरः । सर्वप्रणयसंवादी वृषाङ्को वृषवाहनः ॥७॥
Verse
ईशः पिनाकी खट्वाङ्गी चित्रवेषश्चिरन्तनः । तमोहरो महायोगी गोप्ता ब्रह्माङ्गहृज्जटी ॥८॥
Verse
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः । उन्मत्तवेषश्चक्षुष्यो दुर्वासाः स्मरशासनः ॥९॥
Verse
दृढायुधः स्कन्दगुरुः परमेष्ठी परायणः । अनादिमध्यनिधनो गिरिशो गिरिबान्धवः ॥१०॥
Verse
कुबेरबन्धुः श्रीकण्ठो लोकवर्णोत्तमोत्तमः । सामान्यदेवः कोदण्डी नीलकण्ठः परश्वधी ॥११॥
Verse
विशालाक्षो मृगव्याधः सुरेशः सूर्यतापनः । धर्मकर्माक्षमः क्षेत्रं भगवान् भगनेत्रभित् ॥१२॥
Verse
उग्रः पशुपतिस्तार्क्ष्यप्रियभक्तः प्रियंवदः । दान्तोदयाकरो दक्षः कपर्दी कामशासनः ॥१३॥
Verse
श्मशाननिलयः सूक्ष्मः श्मशानस्थो महेश्वरः । लोककर्ता भूतपतिर्महाकर्ता महौषधी ॥१४॥
Verse
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । नीतिः सुनीतिः शुद्धात्मा सोमसोमरतः सुखी ॥१५॥
Verse
सोमपोऽमृतपः सोमो महानीतिर्महामतिः । अजातशत्रुरालोकः सम्भाव्यो हव्यवाहनः ॥१६॥
Verse
लोककारो वेदकारः सूत्रकारः सनातनः । महर्षिः कपिलाचार्यो विश्वदीप्तिस्त्रिलोचनः ॥१७॥
Verse
पिनाकपाणिर्भूर्देवः स्वस्तिदः स्वस्तिकृत् सदा । त्रिधामा सौभगः शर्वसर्वज्ञः सर्वगोचरः ॥१८॥
Verse
ब्रह्मधृग्विश्वसृक्स्वर्गः कर्णिकारः प्रियः कविः । शाखो विशाखो गोशाखः शिवो नैकः क्रतुः समः ॥१९॥
Verse
गङ्गाप्लवोदको भावः सकलः स्थपतिस्थिरः । विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥२०॥
Verse
सगणो गणकार्यश्च सुकीर्तिश्छिन्नसंशयः । कामदेवः कामपालो भस्मोद्धूलितविग्रहः ॥२१॥
Verse
भस्मप्रियो भस्मशायी कामी कान्तः कृतागमः । समायुक्तो निवृत्तात्मा धर्मयुक्तः सदाशिवः ॥२२॥
Verse
चतुर्मुखश्चतुर्बाहुर्दुरावासो दुरासदः । दुर्गमो दुर्लभो दुर्गः सर्वायुधविशारदः ॥२३॥
Verse
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः । शुभाङ्गो लोकसारङ्गो जगदीशोऽमृताशनः ॥२४॥
Verse
भस्मशुद्धिकरो मेरुरोजस्वी शुद्धविग्रहः । हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥२५॥
Verse
महाह्रदो महागर्भः सिद्धवृन्दारवन्दितः । व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥२६॥
Verse
अमृताङ्गोऽमृतवपुः पञ्चयज्ञः प्रभञ्जनः । पञ्चविंशतितत्त्वज्ञः पारिजातः परावरः ॥२७॥
Verse
सुलभः सुव्रतः शूरो वाङ्मयैकनिधिर्निधिः । वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥२८॥
Verse
आश्रमः क्षपणः क्षामो ज्ञानवानचलाचलः । प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥२९॥
Verse
धनुर्धरो धनुर्वेदो गुणराशिर्गुणाकरः । अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥३०॥
Verse
अभिवाद्यो महाचार्यो विश्वकर्मा विशारदः । वीतरागो विनीतात्मा तपस्वी भूतभावनः ॥३१॥
Verse
उन्मत्तवेषः प्रच्छन्नो जितकामोऽजितप्रियः । कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥३२॥
Verse
तपःस्वी तारको धीमान् प्रधानप्रभुरव्ययः । लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥३३॥
Verse
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः । चन्द्रः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥३४॥
Verse
भक्तिगम्यः परब्रह्ममृगबाणार्पणोऽनघः । अद्रिराजालयः कान्तः परमात्मा जगद्गुरुः ॥३५॥
Verse
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलावृतः । महातपा दीर्घतपाः स्थविष्ठः स्थविरो ध्रुवः ॥३६॥
Verse
अहः संवत्सरो व्याप्तिः प्रमाणं परमं तपः । संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥३७॥
Verse
अजः सर्वेश्वरः स्निग्धो महारेता महाबलः । योगी योग्यो महारेताः सिद्धः सर्वादिरग्निदः ॥३८॥
Verse
वसुर्वसुमनाः सत्यसर्वपापहरो हरः । अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥३९॥
Verse
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः । भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥४०॥
Verse
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः । कालयोगी महानादो महोत्साहो महाबलः ॥४१॥
Verse
महाबुद्धिर्महावीर्यो भूतचारी पुरन्दरः । निशाचरः प्रेतचारिमहाशक्तिर्महाद्युतिः ॥४२॥
Verse
अनिर्देश्यवपुः श्रीमान् सर्वहार्यमितो गतिः । बहुश्रुतो बहुमयो नियतात्मा भवोद्भवः ॥४३॥
Verse
ओजस्तेजोद्युतिकरो नर्तकः सर्वकामकः । नृत्यप्रियो नृत्यनृत्यः प्रकाशात्मा प्रतापनः ॥४४॥
Verse
बुद्धस्पष्टाक्षरो मन्त्रः सन्मानः सारसम्प्लवः । युगादिकृद् युगावर्तो गम्भीरो वृषवाहनः ॥४५॥
Verse
इष्टो विशिष्टः शिष्टेष्टः शरभः शरभो धनुः । अपां निधिरधिष्ठानविजयो जयकालवित् ॥४६॥
Verse
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः । विरोचनः सुरगणो विद्येशो विबुधाश्रयः ॥४७॥
Verse
बालरूपो बलोन्माथी विवर्तो गहनो गुरुः । करणं कारणं कर्ता सर्वबन्धविमोचनः ॥४८॥
Verse
विद्वत्तमो वीतभयो विश्वभर्ता निशाकरः । व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ॥४९॥
Verse
दुन्दुभो ललितो विश्वो भवात्मात्मनि संस्थितः । वीरेश्वरो वीरभद्रो वीरहा वीरभृद्विराट् ॥५०॥
Verse
वीरचूडामणिर्वेत्ता तीव्रनादो नदीधरः । आज्ञाधारस्त्रिशूली च शिपिविष्टः शिवालयः ॥५१॥
Verse
वालखिल्यो महाचापस्तिग्मांशुर्निधिरव्ययः । अभिरामः सुशरणः सुब्रह्मण्यः सुधापतिः ॥५२॥
Verse
मघवान् कौशिको गोमान् विश्रामः सर्वशासनः । ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥५३॥
Verse
अमोघदण्डी मध्यस्थो हिरण्यो ब्रह्मवर्चसी । परमार्थः परमयः शम्बरो व्याघ्रकोऽनलः ॥५४॥
Verse
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः । रविर्विरोचनः स्कन्धः शास्ता वैवस्वतोऽजनः ॥५५॥
Verse
युक्तिरुन्नतकीर्तिश्च शान्तरागः पराजयः । कैलासपतिकामारिः सविता रविलोचनः ॥५६॥
Verse
विद्वत्तमो वीतभयो विश्वहर्ताऽनिवारितः । नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥५७॥
Verse
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः । उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहोऽभयः ॥५८॥
Verse
अनादिर्भूर्भुवो लक्ष्मीः किरीटित्रिदशाधिपः । विश्वगोप्ता विश्वभर्ता सुधीरो रुचिराङ्गदः ॥५९॥
Verse
जननो जनजन्मादिः प्रीतिमान् नीतिमान् नयः । विशिष्टः काश्यपो भानुर्भीमो भीमपराक्रमः ॥६०॥
Verse
प्रणवः सप्तधाचारो महाकायो महाधनुः । जन्माधिपो महादेवः सकलागमपारगः ॥६१॥
Verse
तत्त्वातत्त्वविवेकात्मा विभूष्णुर्भूतिभूषणः । ऋषिर्ब्राह्मणविज्जिष्णुर्जन्ममृत्युजरातिगः ॥६२॥
Verse
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽमोघविक्रमः । महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥६३॥
Verse
पञ्चब्रह्मसमुत्पत्तिर्विश्वेशो विमलोदयः । आत्मयोनिरनाद्यन्तः षड्विंशत्सप्तलोकधृक् ॥६४॥
Verse
गायत्रीवल्लभः प्रांशुर्विश्वावासः प्रभाकरः । शिशुर्गिरिरतः सम्राट्सुषेणः सुरशत्रुहा ॥६५॥
Verse
अमोघोऽरिष्टमथनो मुकुन्दो विगतज्वरः । स्वयञ्ज्योतिरनुज्योतिरात्मज्योतिरचञ्चलः ॥६६॥
Verse
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रत्रयीतनुः । ज्ञानस्कन्धो महाज्ञानी निरुत्पत्तिरुपप्लवः ॥६७॥
Verse
भगो विवस्वानादित्यो योगाचार्यो बृहस्पतिः । उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥६८॥
Verse
नक्षत्रमाली राकेशः साधिष्ठानः षडाश्रयः । पवित्रपाणिः पापारिर्मणिपूरो मनोगतिः ॥६९॥
Verse
हृत्पुण्डरीकमासीनः शुक्लः शान्तो वृषाकपिः । विष्णुर्ग्रहपतिः कृष्णः समर्थोऽर्थननाशनः ॥७०॥
Verse
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः । ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः ॥७१॥
Verse
जगद्धितैषिसुगतः कुमारः कुशलागमः । हिरण्यवर्णो ज्योतिष्मान् नानाभूतधरो ध्वनिः ॥७२॥
Verse
अरोगो नियमाध्यक्षो विश्वामित्रो द्विजोत्तमः । बृहज्ज्योतिः सुधामा च महाज्योतिरनुत्तमः ॥७३॥
Verse
मातामहो मातरिश्वा नभस्वान् नागहारधृक् । पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥७४॥
Verse
निरावरणधर्मज्ञो विरिञ्चो विष्टरश्रवाः । आत्मभूरनिरुद्धोऽत्रिज्ञानमूर्तिर्महायशाः ॥७५॥
Verse
लोकचूडामणिर्वीरश्चण्डसत्यपराक्रमः । व्यालकल्पो महाकल्पो महावृक्षः कलाधरः ॥७६॥
Verse
अलङ्करिष्णुस्त्वचलो रोचिष्णुर्विक्रमोत्तमः । आशुशब्दपतिर्वेगी प्लवनः शिखिसारथिः ॥७७॥
Verse
असंसृष्टोऽतिथिः शक्रः प्रमाथी पापनाशनः । वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥७८॥
Verse
जर्यो जराधिशमनो लोहितश्च तनूनपात् । पृषदश्वो नभो योनिः सुप्रतीकस्तमिस्रहा ॥७९॥
Verse
निदाघस्तपनो मेघः पक्षः परपुरञ्जयः । मुखानिलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥८०॥
Verse
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः । अङ्गिरा मुनिरात्रेयो विमलो विश्ववाहनः ॥८१॥
Verse
पावनः पुरुजिच्छक्रस्त्रिविद्यो नरवाहनः । मनोबुद्धिरहङ्कारः क्षेत्रज्ञः क्षेत्रपालकः ॥८२॥
Verse
तेजोनिधिर्ज्ञाननिधिर्विपाको विघ्नकारकः । अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥८३॥
Verse
शैलो नगस्तनुर्दोहो दानवारिररिन्दमः । चारुधीर्जनकश्चारुविशल्यो लोकशल्यकृत् ॥८४॥
Verse
चतुर्वेदश्चतुर्भावश्चतुरश्चतुरप्रियः । आम्नायोऽथ समाम्नायस्तीर्थदेवशिवालयः ॥८५॥
Verse
बहुरूपो महारूपः सर्वरूपश्चराचरः । न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥८६॥
Verse
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रप्रभञ्जनः । मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तमः ॥८७॥
Verse
पिङ्गलाक्षोऽथ हर्यक्षो नीलग्रीवो निरामयः । सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकभृत् ॥८८॥
Verse
पद्मासनः परञ्ज्योतिः परावरपरम्फलः । पद्मगर्भो महागर्भो विश्वगर्भो विचक्षणः ॥८९॥
Verse
परावरज्ञो बीजेशः सुमुखः सुमहास्वनः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥९०॥
Verse
देवासुरमहामात्रो देवासुरमहाश्रयः । देवादिदेवो देवर्षिदेवासुरवरप्रदः ॥९१॥
Verse
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥९२॥
Verse
ईड्योऽनीशः सुरव्याघ्रो देवसिंहो दिवाकरः । विबुधाग्रवरश्रेष्ठः सर्वदेवोत्तमोत्तमः ॥९३॥
Verse
शिवज्ञानरतः श्रीमान् शिखिश्रीपर्वतप्रियः । जयस्तम्भो विशिष्टम्भो नरसिंहनिपातनः ॥९४॥
Verse
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः । नन्दी नन्दीश्वरो नग्नो नग्नव्रतधरः शुचिः ॥९५॥
Verse
लिङ्गाध्यक्षः सुराध्यक्षो युगाध्यक्षो युगावहः । स्ववशः सवशः स्वर्गस्वरः स्वरमयस्वनः ॥९६॥
Verse
बीजाध्यक्षो बीजकर्ता धनकृद् धर्मवर्धनः । दम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ॥९७॥
Verse
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः । लोकोत्तरस्फुटालोकस्त्र्यम्बको नागभूषणः ॥९८॥
Verse
अन्धकारिर्मखद्वेषी विष्णुकन्धरपातनः । वीतदोषोऽक्षयगुणो दक्षारिः पूषदन्तहृत् ॥९९॥
Verse
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः । आधारः सकलाधारः पाण्डुराभो मृडो नटः ॥१००॥
Verse
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः । सामगेयः प्रियकरः पुण्यकीर्तिरनामयः ॥१०१॥
Verse
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः । जीवितान्तकरो नित्यो वसुरेता वसुप्रियः ॥१०२॥
Verse
सद्गतिः सत्कृतिः सक्तः कालकण्ठः कलाधरः । मानी मान्यो महाकालः सद्भूतिः सत्परायणः ॥१०३॥
Verse
चन्द्रसञ्जीवनः शास्ता लोकगूढोऽमराधिपः । लोकबन्धुर्लोकनाथः कृतज्ञः कृतिभूषणः ॥१०४॥
Verse
अनपाय्यक्षरः कान्तः सर्वशास्त्रभृतां वरः । तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥१०५॥
Verse
शुचिस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः । ज्योतिर्मयो निराकारो जगन्नाथो जलेश्वरः ॥१०६॥
Verse
तुम्बवीणी महाकायो विशोकः शोकनाशनः । त्रिलोकात्मा त्रिलोकेशः शुद्धः शुद्धी रथाक्षजः ॥१०७॥
Verse
अव्यक्तलक्षणोऽव्यक्तो व्यक्ताव्यक्तो विशाम्पतिः । वरशीलो वरतुलो मानो मानधनो मयः ॥१०८॥
Verse
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्यमः । वेधा धाता विधाता च अत्ता हर्ता चतुर्मुखः ॥१०९॥
Verse
कैलासशिखरावासी सर्वावासी सतां गतिः । हिरण्यगर्भो हरिणः पुरुषः पूर्वजः पिता ॥११०॥
Verse
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः । संयोगी योगविद् ब्रह्मा ब्रह्मण्यो ब्राह्मणप्रियः ॥१११॥
Verse
देवप्रियो देवनाथो देवज्ञो देवचिन्तकः । विषमाक्षः कलाध्यक्षो वृषाङ्को वृषवर्धनः ॥११२॥
Verse
निर्मदो निरहङ्कारो निर्मोहो निरुपद्रवः । दर्पहा दर्पितो दृप्तः सर्वर्तुपरिवर्तकः ॥११३॥
Verse
सप्तजिह्वः सहस्रार्चिः स्निग्धः प्रकृतिदक्षिणः । भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥११४॥
Verse
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः । निष्कण्टकः कृतानन्दो निर्व्याजो व्याजमर्दनः ॥११५॥
Verse
सत्त्ववान् सात्त्विकः सत्यकीर्तिस्तम्भकृतागमः । अकम्पितो गुणग्राही नैकात्मा नैककर्मकृत् ॥११६॥
Verse
सुप्रीतः सुमुखः सूक्ष्मः सुकरो दक्षिणोऽनलः । स्कन्धः स्कन्धधरो धुर्यः प्रकटः प्रीतिवर्धनः ॥११७॥
Verse
अपराजितः सर्वसहो विदग्धः सर्ववाहनः । अधृतः स्वधृतः साध्यः पूर्तमूर्तिर्यशोधरः ॥११८॥
Verse
वराहशृङ्गधृग् वायुर्बलवानेकनायकः । श्रुतिप्रकाशः श्रुतिमानेकबन्धुरनेकधृक् ॥११९॥
Verse
श्रीवल्लभशिवारम्भः शान्तभद्रः समञ्जसः । भूशयो भूतिकृद्भूतिर्भूषणो भूतवाहनः ॥१२०॥
Verse
अकायो भक्तकायस्थः कालज्ञानी कलावपुः । सत्यव्रतमहात्यागी निष्ठाशान्तिपरायणः ॥१२१॥
Verse
परार्थवृत्तिर्वरदो विविक्तः श्रुतिसागरः । अनिर्विण्णो गुणग्राही कलङ्काङ्कः कलङ्कहा ॥१२२॥
Verse
स्वभावरुद्द्रो मध्यस्थः शत्रुघ्नो मध्यनाशकः । शिखण्डी कवची शूली चण्डी मुण्डी च कुण्डली ॥१२३॥
Verse
मेखली कवची खड्गी मायी संसारसारथिः । अमृत्युः सर्वदृक् सिंहस्तेजोराशिर्महामणिः ॥१२४॥
Verse
असङ्ख्येयोऽप्रमेयात्मा वीर्यवान् कार्यकोविदः । वेद्यो वेदार्थविद्गोप्ता सर्वाचारो मुनीश्वरः ॥१२५॥
Verse
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः । सुरेशः शरणं सर्वः शब्दब्रह्मसतां गतिः ॥१२६॥
Verse
कालभक्षः कलङ्कारिः कङ्कणीकृतवासुकिः । महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥१२७॥
Verse
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः । निवृत्तः संवृतः शिल्पो व्यूढोरस्को महाभुजः ॥१२८॥
Verse
एकज्योतिर्निरातङ्को नरो नारायणप्रियः । निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥१२९॥
Verse
स्तव्यस्तवप्रियः स्तोता व्यासमूर्तिरनाकुलः । निरवद्यपदोपायो विद्याराशिरविक्रमः ॥१३०॥
Verse
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः । धैर्याग्र्यधुर्यो धात्रीशः शाकल्यः शर्वरीपतिः ॥१३१॥
Verse
परमार्थगुरुर्दृष्टिर्गुरुराश्रितवत्सलः । रसो रसज्ञः सर्वज्ञः सर्वसत्त्वावलम्बनः ॥१३२॥
Verse
॥इति श्रीलिङ्गमहापुराणे पूर्वभागे अष्टनवतितमे अध्याये भगवता विष्णुना प्रोक्तं श्रीशिवसहस्रनामस्तोत्रम्॥
Verse
एवं नाम्नां सहस्रेण तुष्टाव वृषभध्वजम्॥१५९॥
Verse
स्नापयामास च विभुः पूजयामास पङ्कजैः । परीक्षार्थं हरेः पूजाकमलेषु महेश्वरः ॥१६०॥
Verse
गोपयामास कमलं तदैकं भुवनेश्वरः । हृतपुष्पो हरिस्तत्र किमिदं त्वभ्यचिन्तयत् ॥१६१॥
Verse
ज्ञात्वा स्वनेत्रमुद्धृत्य सर्वसत्त्वावलम्बनम् । पूजयामास भावेन नाम्ना तेन जगद्गुरुम् ॥१६२॥
Verse
ततस्तत्र विभुर्दृष्ट्वा तथाभूतं हरो हरिम् । तस्मादवतताराशु मण्डलात् पावकस्य च ॥१६३॥
Verse
कोटिभास्करसङ्काशं जटामुकुटमण्डितम् । ज्वालामालावृतं दिव्यं तीक्ष्णदंष्ट्रं भयङ्करम् ॥१६४॥
Verse
शूलटङ्कगदाचक्रकुन्तपाशधरं हरम् । वरदाभयहस्तं च द्वीपिचर्मोत्तरीयकम् ॥१६५॥
Verse
इत्थम्भूतं तदा दृष्ट्वा भवं भस्मविभूषितम् । हृष्टो नमश्चकाराशु देवदेवं जनार्दनः ॥१६६॥
Verse
दुद्रुवुस्तं परिक्रम्य सेन्द्रा देवास्त्रिलोचनम् । चचाल ब्रह्मभुवनं चकम्पे च वसुन्धरा ॥१६७॥
Verse
ददाह तेजस्तच्छम्भोः प्रान्तं वै शतयोजनम् । अधस्ताच्चोर्ध्वतश्चैव हाहेत्यकृत भूतले ॥१६८॥
Verse
तदा प्राह महादेवः प्रहसन्निव शङ्करः । सम्प्रेक्ष्य प्रणयाद् विष्णुं कृताञ्जलिपुटं स्थितम् ॥१६९॥
Verse
ज्ञातं मयेदमधुना देवकार्यं जनार्दन । सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ॥१७०॥
Verse
यद् रूपं भवता दृष्टं सर्वलोकभयङ्करम् । हिताय तव यत्नेन तव भावाय सुव्रत ॥१७१॥
Verse
शान्तं रणाजिरे विष्णो देवानां दुःखसाधनम् । शान्तस्य चास्त्रं शान्तं स्याच्छान्तेनास्त्रेण किं फलम् ॥१७२॥
Verse
शान्तस्य समरे चास्त्रं शान्तिरेव तपस्विनम् । योद्धुः शान्त्या बलच्छेदः परस्य बलवृद्धिदः ॥१७३॥
Verse
देवैरशान्तैर्यद् रूपं मदीयं भावयाव्ययम् । किमायुधेन कार्यं वै योद्धुं देवारिसूदन ॥१७४॥
Verse
क्षमा युधि न कार्या वै योद्धुं देवारिसूदन । अनागते व्यतीते च दौर्बल्ये स्वजनोत्करे ॥१७५॥
Verse
अकालिके त्वधर्मे च अनर्थे वाऽरिसूदन । एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ॥१७६॥
Verse
नेत्रं च नेता जगतां प्रभुर्वै पद्मसन्निभम् । तदाप्रभृति तं प्राहुः पद्माक्षमिति सुव्रतम् ॥१७७॥
Verse
दत्त्वैनं नयनं चक्रं विष्णवे नीललोहितः । पस्पर्श च कराभ्यां वै सुशुभाभ्यामुवाच ह ॥१७८॥
Verse
वरदोऽहं वरश्रेष्ठ वरान् वरय चेप्सितान् । भक्त्या वशीकृतो नूनं त्वयाऽहं पुरुषोत्तम ॥१७९॥
Verse
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् । त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ॥१८०॥
Verse
नान्यमिच्छामि भक्तानामार्तयो नास्ति यत् प्रभो । तच्छ्रुत्वा वचनं तस्य दयावान् सुतरां भवः ॥१८१॥
Verse
पस्पर्श च ददौ तस्मै श्रद्धां शीतांशुभूषणः । प्राह चैवं महादेवः परमात्मानमच्युतम् ॥१८२॥
Verse
मयि भक्तश्च वन्द्यश्च पूज्यश्चैव सुरासुरैः । भविष्यसि न सन्देहो मत्प्रसादात् सुरोत्तम ॥१८३॥
Verse
यदा सती दक्षपुत्री विनिन्द्यैव सुलोचना । मातरं पितरं दक्षं भविष्यति सुरेश्वरी ॥१८४॥
Verse
दिव्या हैमवती विष्णो तदा त्वमपि सुव्रत । भगिनीं तव कल्याणीं देवीं हैमवतीमुमाम् ॥१८५॥
Verse
नियोगाद् ब्रह्मणः साध्वीं प्रदास्यसि ममैव ताम् । मत्सम्बन्धी च लोकानां मध्ये पूज्यो भविष्यसि ॥१८६॥
Verse
मां दिव्येन च भावेन तदा प्रभृति शङ्करम् । द्रक्ष्यसे च प्रसन्नेन मित्रभूतमिवात्मना ॥१८७॥
Verse
इत्युक्त्वाऽन्तर्दधे रुद्रो भगवान् नीललोहितः । जनार्दनोऽपि भगवान् देवानामपि सन्निधौ ॥१८८॥
Verse
अयाचत महादेवं ब्रह्माणं मुनिभिः समम् । मया प्रोक्तं स्तवं दिव्यं पद्मयोने सुशोभनम् ॥१८९॥
Verse
यः पठेच्छृणुयाद् वाऽपि श्रावयेद् वा द्विजोत्तमान् । प्रतिनाम्नि हिरण्यस्य दत्तस्य फलमाप्नुयात् ॥१९०॥
Verse
अश्वमेधसहस्रेण फलं भवति तस्य वै । घृताद्यैः स्नापयेद् रुद्रं स्थाल्या वै कलशैः शुभैः ॥१९१॥
Verse
नाम्नां सहस्रेणानेन श्रद्धया शिवमीश्वरम् । सोऽपि यज्ञसहस्रस्य फलं लब्ध्वा सुरेश्वरैः ॥१९२॥
Verse
पूज्यो भवति रुद्रस्य प्रीतिर्भवति तस्य वै । तथाऽस्त्विति तथा प्राह पद्मयोनिर्जनार्दनम् ॥१९३॥
Verse
जग्मतुः प्रणिपत्यैनं देवदेवं जगद्गुरुम् । तस्मान्नाम्नां सहस्रेण पूजयेदनघो द्विजाः । जपेन्नाम्नां सहस्रं च स याति परमां गतिम् ॥१९४॥
Verse
॥इति श्रीलिङ्गमहापुराणे पूर्वभागे सहस्रनामभिः पूजनाद् विष्णुचक्रलाभो नामाष्टनवतितमोऽध्यायः॥
Verse
दुःस्वप्नदुःशकुनदुर्गतिदौर्मनस्य दुर्भिक्षदुर्व्यसनदुःसहदुर्यशांसि । उत्पाततापविषभीतिम् असद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥
Verse
॥इति श्रीशिवसहस्रनामस्तोत्रं सम्पूर्णम्॥
