Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

śivasahasranāmastotram

शिवसहस्रनामस्तोत्रम्

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

Verse

नमोऽस्तु ते व्यास विशालबुद्धे फुल्लारविन्दायतपत्रनेत्र । येन त्वया भारततैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः ॥

Verse

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥

Verse

वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥

Verse

त्वयाऽऽपगेय नामानि श्रुतानीह जगत्पतेः । पितामहेशाय विभोर्नामान्याचक्ष्व शम्भवे ॥१॥

Verse

बभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः । सुरासुरगुरौ देवे शङ्करेऽव्यक्तयोनये ॥२॥

Verse

अशक्तोऽहं गुणान् वक्तुं महादेवस्य धीमतः । यो हि सर्वगतो देवो न च सर्वत्र दृश्यते ॥३॥

Verse

ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च । ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते ॥४॥

Verse

प्रकृतीनां परत्वेन पुरुषस्य च यः परः । चिन्त्यते यो योगविद्भिरृषिभिस्तत्त्वदर्शिभिः ॥५॥

Verse

प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा । ब्रह्माणमसृजत् तस्माद् देवदेवः प्रजापतिः ॥६॥

Verse

को हि शक्तो गुणान् वक्तुं देवदेवस्य धीमतः । गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः ॥७॥

Verse

को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम् । ऋते नारायणात् पुत्र शङ्खचक्रगदाधरात् ॥८॥

Verse

एष विद्वान् गुणश्रेष्ठो विष्णुः परमदुर्जयः । दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा ॥९॥

Verse

रुद्रभक्त्या तु कृष्णेन जगद्‌व्याप्तं महात्मना । तं प्रसाद्य तदा देवं बदर्यां किल भारत ॥१०॥

Verse

अर्थात् प्रियतरत्वं च सर्वलोकेषु वै तदा । प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात् ॥११॥

Verse

पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः । प्रसाद्य वरदं देवं चराचरगुरुं शिवम् ॥१२॥

Verse

युगे युगे तु कृष्णेन तोषितो वै महेश्वरः । भक्त्या परमया चैव प्रीतश्चैव महात्मनः ॥१३॥

Verse

ऐश्वर्यं यादृशं तस्य जगद्योनेर्महात्मनः । तदयं दृष्टवान् साक्षात् पुत्रार्थे हरिरच्युतः ॥१४॥

Verse

यस्मात् परतरं चैव नान्यं पश्यामि भारत । व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः ॥१५॥

Verse

एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान् । विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप ॥१६॥

Verse

सुरासुरगुरो देव विष्णो त्वं वक्तुम् अर्हसि । शिवाय शिवरूपाय यन्माऽपृच्छद्युधिष्ठिरः ॥१७॥

Verse

नाम्नां सहस्रं देवस्य तण्डिना ब्रह्मवादिना । निवेदितं ब्रह्मलोके ब्रह्मणो यत् पुराऽभवत् ॥१८॥

Verse

द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः । ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥१९॥

Verse

न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः । हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ॥२०॥

Verse

न विदुर्यस्य निधनम् आदिं वा सूक्ष्मदर्शिनः । स कथं नाममात्रेण शक्यो ज्ञातुं सतां गतिः ॥२१॥

Verse

तस्याहम् असुरघ्नस्य कांश्चिद्भगवतो गुणान् । भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥२२॥

Verse

एवमुक्त्वा तु भगवान् गुणांस्तस्य महात्मनः । उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥२३॥

Verse

ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिर्नामसङ्ग्रहामादितः ॥२४॥

Verse

ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः । सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥२५॥

Verse

महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥२६॥

Verse

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥२७॥

Verse

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः । सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् । वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ॥२८॥

Verse

वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् । तेन ते श्रावयिष्यामि यत् तद्‌ब्रह्म सनातनम् ॥२९॥

Verse

न शक्यं विस्तरात् कृत्स्नं वक्तुं शर्वस्य केनचित् । युक्तेनापि विभूतीनामपि वर्षशतैरपि ॥३०॥

Verse

यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते । कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव ॥३१॥

Verse

किं तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् । शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः ॥३२॥

Verse

अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः । यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया ॥३३॥

Verse

अनादिनिधनस्याहं जगद्योनेर्महात्मनः । नाम्नां कञ्चित् समुद्देश्यं वक्ष्याम्यव्यक्तयोनिनः ॥३४॥

Verse

वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः । शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ॥३५॥

Verse

दशनामसहस्राणि यान्याह प्रपितामहः । तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ॥३६॥

Verse

गिरेः सारं यथा हेम पुष्पसारं यथा मधु । घृतात् सारं यथा मण्डस्तथैतत् सारमुद्धृतम् ॥३७॥

Verse

सर्वपापापहमिदं चतुर्वेदसमन्वितम् । प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना ॥३८॥

Verse

सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु । यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ॥३९॥

Verse

शान्तं पद्मानस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तम् । नागं पाशं घण्टां प्रलयहुतवहं साङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

Verse

ॐ स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥१॥

Verse

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥२॥

Verse

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥३॥

Verse

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥४॥

Verse

महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥५॥

Verse

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥६॥

Verse

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः । सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥७॥

Verse

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥८॥

Verse

महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥९॥

Verse

योगी योज्यो महाबीजो महारेता महाबलः । सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥१०॥

Verse

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥११॥

Verse

गणकर्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥१२॥

Verse

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चाऽऽयुधी महान् ॥१३॥

Verse

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णिषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥१४॥

Verse

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥१५॥

Verse

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥१६॥

Verse

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥१७॥

Verse

गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥१८॥

Verse

कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥१९॥

Verse

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥२०॥

Verse

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥२१॥

Verse

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । दक्षयागापहारी च सुसहो मध्यमस्तथा ॥२२॥

Verse

तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः । गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥२३॥

Verse

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥२४॥

Verse

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥२५॥

Verse

विष्णुप्रसादितो यज्ञः समुद्रो बडवामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥२६॥

Verse

उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥२७॥

Verse

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धजो बली । वैणवी पणवी ताली खली कालकटङ्कटः ॥२८॥

Verse

नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः । प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥२९॥

Verse

विमोचनः सुसरणो हिरण्यकवचोद्भवः । मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥३०॥

Verse

सर्वतूर्यविनोदी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥३१॥

Verse

त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥३२॥

Verse

साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित् ॥३३॥

Verse

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥३४॥

Verse

लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥३५॥

Verse

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥३६॥

Verse

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥३७॥

Verse

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः ॥३८॥

Verse

सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥३९॥

Verse

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः । उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥४०॥

Verse

वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥४१॥

Verse

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्ठिभागो गवां पतिः ॥४२॥

Verse

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥४३॥

Verse

वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः । ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥४४॥

Verse

ईशान ईश्वरः कालो निशाचारी पिनाकवान् । निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥४५॥

Verse

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥४६॥

Verse

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥४७॥

Verse

बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥४८॥

Verse

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥४९॥

Verse

अक्षरं परमं ब्रह्म बलवच्चक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥५०॥

Verse

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥५१॥

Verse

महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥५२॥

Verse

वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः । नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥५३॥

Verse

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥५४॥

Verse

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥५५॥

Verse

महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥५६॥

Verse

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥५७॥

Verse

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥५८॥

Verse

महानखो महारोमो महाकोशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥५९॥

Verse

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥६०॥

Verse

गण्डली मेरुधामा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥६१॥

Verse

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥६२॥

Verse

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः । नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥६३॥

Verse

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥६४॥

Verse

सगणो गणकारश्च भूतवाहनसारथिः । भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥६५॥

Verse

लोकपालस्तथाऽलोको महात्मा सर्वपूजितः । शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥६६॥

Verse

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥६७॥

Verse

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः । गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥६८॥

Verse

परश्वधायुधो देव अनुकारी सुबान्धवः । तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥६९॥

Verse

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥७०॥

Verse

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥७१॥

Verse

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥७२॥

Verse

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥७३॥

Verse

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥७४॥

Verse

प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥७५॥

Verse

विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥७६॥

Verse

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥७७॥

Verse

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत् सर्वरत्नवित् ॥७८॥

Verse

कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥७९॥

Verse

वणिजो वर्धकी वृक्षो वकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥८०॥

Verse

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥८१॥

Verse

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥८२॥

Verse

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥८३॥

Verse

वाहिता सर्वभूतानां निलयश्च विभुर्भवः । अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥८४॥

Verse

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥८५॥

Verse

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥८६॥

Verse

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः । महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥८७॥

Verse

महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आदेशः सर्वगन्धसुखावहः ॥८८॥

Verse

तोरणस्तारणो वातः परिधीः पतिखेचरः । संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥८९॥

Verse

नित्यमात्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥९०॥

Verse

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥९१॥

Verse

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥९२॥

Verse

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥९३॥

Verse

रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥९४॥

Verse

आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥९५॥

Verse

युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥९६॥

Verse

बहुमालो महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥९७॥

Verse

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः । बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥९८॥

Verse

निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥९९॥

Verse

मन्थानो बहुलो वायुः सकलः सर्वलोचनः । तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥१००॥

Verse

छत्त्रं सुच्छत्त्रो विख्यातो लोकः सर्वाश्रयः क्रमः । मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१०१॥

Verse

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् । सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥१०२॥

Verse

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥१०३॥

Verse

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥१०४॥

Verse

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥१०५॥

Verse

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥१०६॥

Verse

कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृक् । उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः ॥१०७॥

Verse

वरो वराहो वरदो वरेण्यः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥१०८॥

Verse

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृक् । सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥१०९॥

Verse

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥११०॥

Verse

व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः । ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥१११॥

Verse

कलाः काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥११२॥

Verse

सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥११३॥

Verse

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥११४॥

Verse

देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥११५॥

Verse

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥११६॥

Verse

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥११७॥

Verse

उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः । ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥११८॥

Verse

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥११९॥

Verse

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः । शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥१२०॥

Verse

अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥१२१॥

Verse

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥१२२॥

Verse

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१२३॥

Verse

श्रीमान् श्रीवर्धनो जगत् ॐ नम इति।

Verse

यथा प्रधानं भगवान् इति भक्त्या स्तुतो मया । यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥१॥

Verse

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् । भक्तिं त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥२॥

Verse

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः । शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥३॥

Verse

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना । ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥४॥

Verse

स्तूयमानो महादेवस्तुष्यते नियमात्मभिः । भक्तानुकम्पी भगवान् आत्मसंस्थाकरो विभुः ॥५॥

Verse

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥६॥

Verse

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् । कर्मणा मनसा वाचा भावेनामिततेजसः ॥७॥

Verse

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा । उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥८॥

Verse

शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् । स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥९॥

Verse

जन्मकोटिसहस्रेषु नानासंसारयोनिषु । जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥१०॥

Verse

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः । भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥११॥

Verse

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते । निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥१२॥

Verse

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् । येन यान्ति परां सिद्धिं तद्भावगतचेतसः ॥१३॥

Verse

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् । प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥१४॥

Verse

एवम् अन्ये विकुर्वन्ति देवाः संसारमोचनम् । मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥१५॥

Verse

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः । कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुद्धबुद्धिना ॥१६॥

Verse

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । गीयते च स बुद्‌ध्येत ब्रह्मा शङ्करसन्निधौ ॥१७॥

Verse

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् । योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥१८॥

Verse

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम् । या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ॥१९॥

Verse

स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ । अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥२०॥

Verse

एतद् रहस्यं परमं ब्रह्मणो हृदि संस्थितम् । ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥२१॥

Verse

मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् । महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥२२॥

Verse

तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः । वैवस्वताय मनवे गौतमः प्राह माधव ॥२३॥

Verse

नारायणाय साध्याय समाधिष्ठाय धीमते । यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ॥२४॥

Verse

नाचिकेताय भगवान् आह वैवस्वतो यमः । मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥२५॥

Verse

मार्कण्डेयान्मया प्राप्तं नियमेन जनार्दन । तवाप्यहम् अमित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥२६॥

Verse

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् । नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधानाश्च गुह्यका भुजगा अपि ॥२७॥

Verse

यः पठेत शुचिर्भूत्वा ब्रह्मचारी जितेन्द्रियः । अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥२८॥

Verse

ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा । यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥२९॥

Verse

वाराणस्यां युधिष्ठिर ॐ नम इति ।

Verse

चतुःषष्ट्यङ्गमददत् कलाज्ञानं ममाद्भुतम् । सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥३०॥

Verse

मनोयज्ञेन पाण्डव ॐ नम इति।

Verse

ततः कृष्णोऽब्रवीद् वाक्यं पुनर्मतिमतां वरः । युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः । उपमन्युर्मयि प्राह तपन्निव दिवाकरः ॥३१॥

Verse

अशुभैः पापकर्माणो ये नराः कलुषीकृताः । ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः । ईश्वरं सम्प्रपद्यन्ते द्विजा भावितभावनाः ॥३२॥

Verse

एवमेव महादेव भक्ता ये मानवा भुवि । न ते संसारवशगा इति मे निश्चिता मतिः ॥३३॥

Verse

इति मे निश्चिता मतिः ॐ नम इति।

Verse

॥इति श्रीमन्महाभारते शतसाहस्र्यां संहितायां वैयासिक्याम् आनुशासनिकपर्वणि अष्टादशोऽध्यायः॥

Verse

दुःस्वप्न-दुःशकुन-दुर्गति-दौर्मनस्य दुर्भिक्ष-दुर्व्यसन-दुःसह-दुर्यशांसि । उत्पात-ताप-विषभीतिम् असद्‌-ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

Verse

॥इति श्री-शिवसहस्रनामस्तोत्रं सम्पूर्णम्॥

vakratuṇḍamahāgaṇapatisahasranāmastotram
śivasahasranāmastotram (viṣṇukṛtam)

Read next

More on शिवसहस्रनामस्तोत्रम्

  • श्री शिवसहस्रनामस्तोत्रम्Sahasranama
  • श्री शिवसहस्रनामस्तोत्रम्Sahasranama
  • श्री शिवसहस्रनामस्तोत्रम्Sahasranama
  • शिवसहस्रनामस्तोत्रम् (विष्णुकृतम्)Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms