sahasranAma
śrī śivasahasranāmastotram
श्री शिवसहस्रनामस्तोत्रम्
Verse
ध्यानम् वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनांपतिम् वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शंकरम् ॥१॥
Verse
ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥१॥
Verse
जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥२॥
Verse
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान्खचरो गोचरोऽर्दनः ॥३॥
Verse
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषः प्रच्छन्नः सर्वलोकप्रजापतिः ॥४॥
Verse
महारूपो महाकामी वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥५॥
Verse
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥६॥
Verse
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः । सहस्राक्षो विशालाक्षस्सोमो नक्षत्रसाधकः ॥७॥
Verse
चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥८॥
Verse
महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥९॥
Verse
योगो योज्यो महाभीमो महारेता महाबलः । सुवर्णरेतास्सर्वज्ञः सुबीजो बीजवाहनः ॥१०॥
Verse
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपस्स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥११॥
Verse
गणकर्ता गणपतिर्दिग्वासाः काम एव च । मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥१२॥
Verse
कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥१३॥
Verse
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥१४॥
Verse
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । शृगालरूपः सिद्धार्थो मुंडस्सर्वशुभंकरः ॥१५॥
Verse
अजश्च बहुरूपश्च गजधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिंग ऊर्ध्वशायी नभस्थलः ॥१६॥
Verse
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥१७॥
Verse
गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥१८॥
Verse
कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥१९॥
Verse
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकस्सर्वलालसः ॥२०॥
Verse
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्रहस्तो विनयो व्यवसायोह्यतन्द्रितः ॥२१॥
Verse
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । दक्षयागापहारी च सुसहो मध्यमस्तथा ॥२२॥
Verse
तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः । गंभीरघोषो गंभीरो गंभीरबलवाहनः ॥२३॥
Verse
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । सुतीक्ष्णदशनश्चैव महाकामो महाननः ॥२४॥
Verse
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥२५॥
Verse
विष्णुप्रसादिको यक्षः समुद्रो वडवामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥२६॥
Verse
उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिस्सर्वग्रह एव च ॥२७॥
Verse
शिखी मुंडी जटी ज्वाली मूर्तिजो मूर्धगो बली । वेणवी पणवी ताळी खली कालकटंकटः ॥२८॥
Verse
नक्षत्रविग्रहमतिः गुणबुद्धिर्लयोऽगमः । प्रजापतिर्विश्वबाहुर्विभागस्सर्वगोऽमुखः ॥२९॥
Verse
विमोचनस्सुसरणोहिरण्यकवचोद्भवः । मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥३०॥
Verse
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरंगवित् ॥३१॥
Verse
त्रिदशस्त्रिकालधृत् कर्म सर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥३२॥
Verse
सांख्यप्रसादः दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित् ॥३३॥
Verse
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥३४॥
Verse
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः । संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥३५॥
Verse
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृत् ॥३६॥
Verse
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपातीह्यवशः खगः ॥३७॥
Verse
रौद्ररूपोंशुरादित्यो बहुरश्मिः सुवर्चसी । वसुवेगो महावेगो मनोवेगो निशाचरः ॥३८॥
Verse
सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मनिरालोकः सभग्नश्च सहस्रदः ॥३९॥
Verse
पक्षी च पक्षरूपश्च अतिदीप्तो विशांपतिः । उन्मादो मदनः कामोह्यश्वत्थोऽर्धकरो यशः ॥४०॥
Verse
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥४१॥
Verse
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्टिभागो गवांपतिः ॥४२॥
Verse
वज्रहस्तश्च विष्कंभी चमूस्तम्भन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥४३॥
Verse
वाचस्पत्यो वाजसेनो नित्यमाश्रमपूजितः । ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥४४॥
Verse
ईशान ईश्वरः कालो निशाचारी पिनाकवान् । निमित्तस्थो निमित्तं च नन्दिर्नन्दकरो हरिः ॥४५॥
Verse
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः । भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥४६॥
Verse
चतुर्मुखो महालिंगश्चारुलिंगस्तथैव च । लिंगाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥४७॥
Verse
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥४८॥
Verse
दंभोऽह्यदम्भो व्यदम्भो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥४९॥
Verse
अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥५०॥
Verse
बहुप्रसादः सुस्वप्नो दर्पणोऽथत्वमित्रजित् । वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥५१॥
Verse
महामेघनिवासी च महाघोरो वशीकरः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥५२॥
Verse
वृषणः शंकरो नित्यं वर्चस्वी धूमकेतनः । नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥५३॥
Verse
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्संगश्च महांगश्च महागर्भपरायणः ॥५४॥
Verse
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनां । महापादो महाहस्तो महाकायो महायशाः ॥५५॥
Verse
महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥५६॥
Verse
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्कोह्यन्तरात्मा मृगालयः ॥५७॥
Verse
लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥५८॥
Verse
महानखो महारोमा महाकेशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥५९॥
Verse
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥६०॥
Verse
गण्डली मेरुधन्वा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥६१॥
Verse
यजुः पादभुजो गुह्यः प्रकाशो जंगमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥६२॥
Verse
उपकारः प्रियः सर्वः कनकः कांचनच्छविः । नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥६३॥
Verse
द्वादशास्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥६४॥
Verse
सगणो गणकारश्च भूतवाहनसारथिः । भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥६५॥
Verse
लोकपालस्तथाऽलोको मदात्मा सर्वपूजितः । शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥६६॥
Verse
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥६७॥
Verse
कपिलः कपिश शुक्ल आयुश्चैव परोऽपरः । गन्धर्वोह्यदितस्तार्क्ष्यः सुविश्रेय सुशारदः ॥६८॥
Verse
परश्वधायुधो देवो अनुकारी सुबान्धवः । तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥६९॥
Verse
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वांगरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥७०॥
Verse
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । सुयज्ञारिः सकामारिर्महादंष्ट्रो महाऽयुधः ॥७१॥
Verse
बहुधा निन्दितः शर्वः शंकरः शंकरोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥७२॥
Verse
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । अजैकपाच्च कापाली त्रिशंकुरजितः शिवः ॥७३॥
Verse
धन्वन्तरिर्धूमकेतुः स्कंदो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥७४॥
Verse
प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषंगुश्च विधाता च मान्धाता भूतभावनः ॥७५॥
Verse
विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥७६॥
Verse
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥७७॥
Verse
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥७८॥
Verse
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥७९॥
Verse
वणिजो वर्धको वृक्षो बकुलश्चन्दनच्छदः । सारग्रीवो महाजत्रुरल्लोलश्च महौषधः ॥८०॥
Verse
सिद्धार्थकारी सिद्धार्थः छन्दो व्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥८१॥
Verse
प्रभावात्मा जगत्कालस्थलो लोकहितस्तरुः । सारंगो नवचक्रांगः केतुमाली सभावनः ॥८२॥
Verse
भूतालयो भूतपतिरहोरात्रमनिन्दितः । वाहिता सर्वभूतानां निलयश्च विभुर्भवः ॥८३॥
Verse
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः । धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ॥८४॥
Verse
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः । हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनां ॥८५॥
Verse
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः । गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ॥८६॥
Verse
महागीतो महानृत्यो ह्यप्सरोगणसेवितः । महाकेतुर्महाधातुर्नैकसानुचरश्चलः ॥८७॥
Verse
आवेदनीय आदेशः सर्वगन्धसुखावहः । तोरणस्तारणो वातः परिधी पतिखेचरः ॥८८॥
Verse
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः । नित्यात्मा च सहायश्च देवासुरपतिः पतिः ॥८९॥
Verse
युक्तश्च युक्तबाहुश्च देवोदिविसुपर्वणः । आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ॥९०॥
Verse
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः । तिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ॥९१॥
Verse
अक्षश्च रथयोगी च सर्वयोगी महाबलः । समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ॥९२॥
Verse
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः । रत्नप्रभूतो रत्नांगो महार्णवनिपानवित् ॥९३॥
Verse
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः । आरोहणोऽधिरोहश्च शीलधारी महायशाः ॥९४॥
Verse
सेवाकल्पो महाकल्पो योगो युगकरो हरिः । युगरूपो महारूपो महानागहनो वधः ॥९५॥
Verse
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः । बहुमालो महामालः शशीहरसुलोचनः ॥९६॥
Verse
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः । त्रिलोचनो विषण्णांगो मणिविद्धो जटाधरः ॥९७॥
Verse
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः । निवेदनः सुखाजातः सुगन्धारो महाधनुः ॥९८॥
Verse
गन्धपाली च भगवानुत्थानः सर्वकर्मणां । मन्थानो बहुलो वायुः सकलः सर्वलोचनः ॥९९॥
Verse
तलस्तालः करस्थली ऊर्ध्वसंहननो महान् । छत्रं सुच्छत्रश्च विख्यातो लोकः सर्वाश्रयः क्रमः ॥१००॥
Verse
मुंडो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः । हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ॥१०१॥
Verse
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः । सहस्रबाहुः सर्वांगः शरण्यः सर्वलोककृत् ॥१०२॥
Verse
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिंगलः । ब्रह्मदण्डविनिर्माता शतघ्नी पाशशक्तिमान् ॥१०३॥
Verse
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः । गभस्तिर्ब्रह्मकृत्ब्रह्मी ब्रह्मविद् ब्रह्मणोगतिः ॥१०४॥
Verse
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः । ऊर्ध्वगात्मापशुपतिर्वातरंहा मनोजवः ॥१०५॥
Verse
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः । कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ॥१०६॥
Verse
उमापतिरुमाकान्तो जाह्नवीधृगुमाधवः । वरो व्राहो वरदो वरेण्यः सुमहास्वनः ॥१०७॥
Verse
महाप्रसादो दमनः शत्रुहा श्वेतपिंगलः । वीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ॥१०८॥
Verse
सर्वपार्श्वमुखस्त्र्यक्षो सर्वसाधारणो वरः । चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ॥१०९॥
Verse
साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः । व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः ॥११०॥
Verse
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः । कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ॥१११॥
Verse
विश्वक्षेत्रं प्रजाबीजं लिंगमाद्यस्तुनिर्गमः । सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ॥११२॥
Verse
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपं । निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः ॥११३॥
Verse
देवासुरविनिर्माता देवासुरपरायणः । देवासुरगुरुर्देवो देवासुरनमस्कृतः ॥११४॥
Verse
देवासुरमहामात्रो देवासुरगणाश्रयः । देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ॥११५॥
Verse
देवादिदेवो देवर्षिर्देवासुरवरप्रदः । देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ॥११६॥
Verse
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः । उद्भित् त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ॥११७॥
Verse
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः । विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ॥११८॥
Verse
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः । गुहः शान्तो निजः सर्गः पवित्रं सर्वपावनः ॥११९॥
Verse
शृंगी शृंगप्रियो बभ्रू राजराजो निरामयः । अभिराम सुरगणो विरामः सर्वसाधनः ॥१२०॥
Verse
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः । स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ॥१२१॥
Verse
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः । व्रताधिपः परंब्रह्म भक्तानां परमागतिः ॥१२२॥
Verse
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१२३॥
