stotrasangraha
mātṛbhūtaśatakam
मातृभूतशतकम्
Verse
श्रेयांसि यं सकृदनुस्मरतां जनाना- माविर्भवन्ति सुमहान्त्यनपायवन्ति । तं त्वामनन्यशरणश्शरणं भजामि श्रीमातृभूत शिव पालय मां नमस्ते ॥१॥
Verse
आनन्द सच्चिदमलात्मनि शङ्करे त्वय्- यन्तर्निषीदति भवन्तमहो विहाय । भ्राम्यामि मोहविवशो भवशोकखिन्नः श्रीमातृभूत शिव पालय मां नमस्ते ॥२॥
Verse
मद्दाससूनुरयमित्यनुकम्पनीये मय्यर्भके समधिरोप्य वृथाऽपराधान् । युक्तं किमेवमधिगन्तुमुदासिकां ते श्रीमातृभूत शिव पालय मां नमस्ते ॥३॥
Verse
सौशील्यघस्मरधनस्मयनष्टसंज्ञान् अज्ञो विषीदति यदेष वृथानुधावन् । तत्पश्यतस्तव दया न कथं दयालो श्रीमातृभूत शिव पालय मां नमस्ते ॥४॥
Verse
भक्तिं त्वयि श्रितवतां वद कः प्रहीणः सा वा तवाहमिति किं न सकृत्प्रपत्तिः । किं तद्वतामनवितासि कुतोऽस्म्युपेक्ष्यः श्रीमातृभूत शिव पालय मां नमस्ते ॥५॥
Verse
दासस्तवाहमिति यः सकृदप्युपैति रक्ष्यः स एष इति ते विधृतव्रतस्य । रक्षोऽहमस्म्यथ कियानफलो विलम्बः श्रीमातृभूत शिव पालय मां नमस्ते ॥६॥
Verse
आज्ञापयेः कथमये तव गर्भवासं दुःखापवर्गिणि गिरीश समाश्रयेयम् । आस्तां सहस्रमपि नानुगुणं त्विदं ते श्रीमातृभूत शिव पालय मां नमस्ते ॥७॥
Verse
सर्वज्ञ शङ्करमहेशदयालु शब्दाः किं पारिभाषिकतयोपगता भवन्तम् । विज्ञापिते विलपितेऽपि किमित्युदास्से श्रीमातृभूत शिव पालय मां नमस्ते ॥८॥
Verse
हीनैः सदाधिकृतिकैरपि धृष्यमाणे सावज्ञमेवमपदे मयि दृश्यमाने । नेदं क्षणं क्षणमुपेक्षणमाश्रयेथाः श्रीमातृभूत शिव पालय मां नमस्ते ॥९॥
Verse
आलस्यदुर्विषयसक्त्यपलापनिद्रा- पद्मामदाधिगदनीचसमागमादीन् । विघ्नान् धुनीहि घटय त्वयि मेऽभिलाषं श्रीमातृभूत शिव पालय मां नमस्ते ॥१०॥
Verse
क्वासावनन्यसुलभा भवदीयता मे भूयिष्ठनिष्ठुर विपद्विषमा क्व वृत्तिः । एतन्न किं तव यशोभरभङ्गभीतं श्रीमातृभूत शिव पालय मां नमस्ते ॥११॥
Verse
सम्फुल्लचम्पकलसन्नवमल्लिकादि- हृद्योपचार रुचिरं भवदर्चनं मे । पाण्योस्तरङ्गय निरन्तरमन्तरात्मन् श्रीमातृभूत शिव पालय मां नमस्ते ॥१२॥
Verse
दारैः सुतैश्शुभतमैर्द्रविणैः प्रशान्तैः स्वर्गापवर्गफलसिद्धिभिरभ्युपेताः । नन्दन्ति ते करुणया किमसाध्यमस्याः श्रीमातृभूत शिव पालय मां नमस्ते ॥१३॥
Verse
कालं कियन्तमघदन्तुरमन्तरङ्गं त्वच्चिन्तनं तनितुमक्षममीक्षसे त्वम् । त्वद्भक्तये स्पृहयतश्शिव मे दयस्व श्रीमातृभूत शिव पालय मां नमस्ते ॥१४॥
Verse
वित्तस्मयान्ध गृहकानन सम्प्रचार धौरेयभावमवधूय कदा मदङ्घ्री । स्तां त्वत्प्रदक्षिणविधौ करुणावशात्ते श्रीमातृभूत शिव पालय मां नमस्ते ॥१५॥
Verse
स्यात्त्वत्पदं विदलदम्बुजसौरभश्री- विश्रामसीमभिरुदञ्चितवाक्प्रपञ्चैः । स्तोत्रैर्विभो मम कदा नु सदानुबन्धि श्रीमातृभूत शिव पालय मां नमस्ते ॥१६॥
Verse
पादौ प्रदक्षिणविधौ भवदर्चनेषु पाणी स्तवेषु फणितीरपि मेऽन्तरात्मन् । ध्याने मनश्च विनियुङ्क्ष्व दयस्व मङ्क्षु श्रीमातृभूत शिव पालय मां नमस्ते ॥१७॥
Verse
मूढोऽपटुर्भवदुपश्रयणक्रमेषु रूढोपतापविततिर्विपदां कदम्बैः । सीमा तृषामहमतोऽस्मि तवानुकम्प्यः श्रीमातृभूत शिव पालय मां नमस्ते ॥१८॥
Verse
अम्बेयमप्रतिहतप्रतिपत्तिशक्तिः सर्वज्ञता च भवतो भुवने निरूढा । भूतिश्च वां निरवधिस्तनयस्तु सोऽहं श्रीमातृभूत शिव पालय मां नमस्ते ॥१९॥
Verse
पुत्रादयो न सुखयन्ति हि भावभेदात् सोपाधिकप्रणयसम्भ्रमिभिः किमेतैः । माता पिता च निरुपाधिकृपानिधिस्त्वं श्रीमातृभूत शिव पालय मां नमस्ते ॥२०॥
Verse
उद्गद्गदस्वनगलं गलदम्बुनेत्रं रोमाञ्चकञ्चुकितमञ्चितघर्मबिन्दु । त्वन्नामनि श्रवणगामिनि कल्पयाङ्गं श्रीमातृभूत शिव पालय मां नमस्ते ॥२१॥
Verse
दुर्लभ्यदुर्विपरिणत्यसुखानुबन्धि- विप्लावितेषु विषयेषु वृथा निपात्य । मां खेदयन्न कथमुद्वहसेऽनुकम्पां श्रीमातृभूत शिव पालय मां नमस्ते ॥२२॥
Verse
कन्दर्पकोटिशतसुन्दरमिन्दुरेखा- चूडं दरस्मितपरिस्फुरदाननेन्दुम् । कान्तं नगेन्द्रसुतया कलये भवन्तं श्रीमातृभूत शिव पालय मां नमस्ते ॥२३॥
Verse
सृष्टौ स्थितावपि लयेऽस्ति तव प्रभुत्वं दुःखे तु मे द्वितयगोचरमेव दृश्यम् । व्यङ्क्तुं तदन्तविषयं तव को विलम्बः श्रीमातृभूत शिव पालय मां नमस्ते ॥२४॥
Verse
मन्दस्मितैर्दिशि दिशि स्फुरदिन्दुचूडैः गौरीसखैः स्फटिकगौर मनोहराङ्गैः । त्वद्विग्रहैः कबलयाविरतं मनो मे श्रीमातृभूत शिव पालय मां नमस्ते ॥२५॥
Verse
प्रेमातिरेकशिशिरां त्वदपाङ्गधाराम् आनन्दसिन्धुवलमानतरङ्गरेखाम् । सञ्चारयन्मयि सहाम्बिकया दयेथाः श्रीमातृभूत शिव पालय मां नमस्ते ॥२६॥
Verse
भ्रूकिङ्करास्तव विरिञ्चपुरन्दराद्याः कस्त्वां विरोत्स्यति निरोत्स्यति किं ममैनः । दैन्यं ततो न बलवत् किमु दीनबन्धो श्रीमातृभूत शिव पालय मां नमस्ते ॥२७॥
Verse
अन्वेति शङ्कर न यं करुणाङ्कुरस्ते कस्तं विलोकयतु जल्पतु को धिनोतु । केयं विभो विमुखता मयि किङ्करेऽस्मिन् श्रीमातृभूत शिव पालय मां नमस्ते ॥२८॥
Verse
भान्तं भवन्तमनघं मणिभूषणौघैः भान्त्योमया विमलविद्रुमपाटलाङ्ग्या । शृङ्गारिताङ्कमुपयामि शशाङ्कगौरं श्रीमातृभूत शिव पालय मां नमस्ते ॥२९॥
Verse
मन्दस्मितैः करुणया शिशिरैः कटाक्षैः प्रेमातिरेकमधुरैरपि चाभिलापैः । आनन्दयिष्यसि कदा नु सहाम्बया त्वं श्रीमातृभूत शिव पालय मां नमस्ते ॥३०॥
Verse
गोपायितेति कुलदैवतमित्यजस्रं विस्रम्भतोऽर्पितभरं त्वयि दीनबन्धो । मामीक्षसे न कृपया यदि किं करोमि श्रीमातृभूत शिव पालय मां नमस्ते ॥३१॥
Verse
एकं सकृद्यदलसो न पुराऽभजं त्वां नानादुरीशसतताश्रयदुर्विपाकः । तस्यै न सोऽयमधुनाऽतिधुनाति चेतः श्रीमातृभूत शिव पालय मां नमस्ते ॥३२॥
Verse
एषा सुगन्धिचिकुरा जननी पिता त्वं का ते सुते मयि विभो करुणा प्रहाणिः । किञ्चापि सा न खलु सार्द्रहृदो जनन्याः श्रीमातृभूत शिव पालय मां नमस्ते ॥३३॥
Verse
त्वत्संविदा तरति शोकमिति श्रुतीनां भावो भवोन्नतिविधायि तवाभिधानम् । शोकापहं तदहमीश समाश्रयामि श्रीमातृभूत शिव पालय मां नमस्ते ॥३४॥
Verse
त्वन्नामकीर्तनमघापहमाशयेन शंसन् पुराणनिकरो न किलार्थवादः । तत्संश्रयोऽहमकृपास्पदमस्मि किं ते श्रीमातृभूत शिव पालय मां नमस्ते ॥३५॥
Verse
कर्मानुरोधि फलमित्यवगम्यमाने ह्येनोहृतौ शुभविधौ च पटीयसस्ते । कर्मेति कं प्रति तु वञ्चनचातुरीयं श्रीमातृभूत शिव पालय मां नमस्ते ॥३६॥
Verse
उत्सङ्गसीमनि सुगन्धिकचां निषण्णाम् उल्लासयन् कुचतटीनखरावमर्शैः । आभासि शङ्कर निरन्तरमन्तरङ्गे श्रीमातृभूत शिव पालय मां नमस्ते ॥३७॥
Verse
मन्देतरैरखिलमान्तरमन्धकारं माणिक्यभूषणमहोर्मिभिरंशुजालैः । धुन्वन्वपुस्तव विभासय मानसे मे श्रीमातृभूत शिव पालय मां नमस्ते ॥३८॥
Verse
अन्तर्वसद्भवदुदारपदारविन्द सन्दर्शनाय मम तत्प्रतिरोधकं द्राक् । अंहः कवाटपटलं विघटय्य देव श्रीमातृभूत शिव पालय मां नमस्ते ॥३९॥
Verse
चेतो मम त्वदनुचिन्तनबद्धतृष्णं मुष्णन्ति तच्च विषया मुहुरेधितार्थाः । विघ्नान् जहि त्वयि विजृम्भय भक्तियोगं श्रीमातृभूत शिव पालय मां नमस्ते ॥४०॥
Verse
दृक्कूणितेन जगतः खलु सृष्टिरेषा तेनैव तेऽवनलयौ भुवने निरूढौ । तेनैव संहर ममाघततिं दयालो श्रीमातृभूत शिव पालय मां नमस्ते ॥४१॥
Verse
अङ्गं शिरीषमृदुलं परुषैर्ममाश्म- प्रायैर्वचोभिरभिपीडितमीडनार्थे । यत्तावकं तमपराधमिमं सहस्व श्रीमातृभूत शिव पालय मां नमस्ते ॥४२॥
Verse
मन्दस्मितैर्भ्रुकुटिभिर्मधुरैः कटाक्षैः वामभ्रुवां नवनवैश्च वपुर्विलासैः । त्वां नोऽभजं तरलितस्तदिदं सहस्व श्रीमातृभूत शिव पालय मां नमस्ते ॥४३॥
Verse
मन्दस्मितं मदनसुन्दरमिन्दुचूडम् उत्सङ्गविस्फुरदुमोरसिजस्पृशं त्वाम् । ध्यायन्वसानि दिवसानि नयन् कदा वा श्रीमातृभूत शिव पालय मां नमस्ते ॥४४॥
Verse
पाटीरसारलहरीं तुहिनांशुधारां सौधाकरीमपि झरीमवमन्यमानः । त्वच्चिन्तनप्रभवनिर्वृतिभिः कदा स्यां श्रीमातृभूत शिव पालय मां नमस्ते ॥४५॥
Verse
त्वामस्म्यसावजमुपासितुमक्षमोऽहं मोहान्धया बत धिया न यदेतदेनः । हार्या त्वयैव कृपया मम दुर्दशेयं श्रीमातृभूत शिव पालय मां नमस्ते ॥४६॥
Verse
वित्तार्जनस्य सकलः किमसावनेहा नेह स्थितेः फलमहो भवतो धनेहा । इत्थं दुरीश्वरगिरां पदमस्मि दीनः श्रीमातृभूत शिव पालय मां नमस्ते ॥४७॥
Verse
सांसारिकानवधिखेदपरम्परासू- न्मज्जन्निमज्जदिव सीदति मानसं मे । आश्वासयाशु कृपया न किमीक्षसे त्वं श्रीमातृभूत शिव पालय मां नमस्ते ॥४८॥
Verse
लक्ष्मीपतिस्तव पदाभरणे स शेते भिक्षाटनेन वद कं प्रतिविप्रलम्भः । जानाम्यहं न किमशेषजगत्पतिं त्वां श्रीमातृभूत शिव पालय मां नमस्ते ॥४९॥
Verse
संसृत्युदन्वति वितन्वति दुःखमोह- ग्राहैर्व्यथामहह मे दृढमज्जनेन । त्वं क्रीडसीति सदृशं तव किं दयालो श्रीमातृभूत शिव पालय मां नमस्ते ॥५०॥
Verse
मात्रा सुगन्धिकचया भवता च पित्रा युक्तः प्रसूजनकहीन इवावसीदन् । अस्मीति वां जगदधीश्वरयोरयुक्तं श्रीमातृभूत शिव पालय मां नमस्ते ॥५१॥
Verse
मौढ्यादपाटवभरादपि पूजनं ते नाहं तनोमि तदहं व्यथितो भवामि । विघ्नानपास्य वितर त्वदुपासनां मे श्रीमातृभूत शिव पालय मां नमस्ते ॥५२॥
Verse
त्वद्वन्दनं ननु जगत्त्रयवन्द्यतायै त्वत्पूजनं तु भुवनत्रयपूज्यतायै । पुण्योच्चयेन तदिदं भवदीयता मे श्रीमातृभूत शिव पालय मां नमस्ते ॥५३॥
Verse
अल्पं महच्च सकलं फलमर्पणीयं देव त्वयैव खलु तत्किमपीहमानः । त्वामाश्रयाम्यगतिको वद किं तवागः श्रीमातृभूत शिव पालय मां नमस्ते ॥५४॥
Verse
कन्दर्पदर्पहरसुन्दररूपधेये मन्दस्मिते भुवनमङ्गलनामधेये । खेदापहे भवति खेलय मानसं मे श्रीमातृभूत शिव पालय मां नमस्ते ॥५५॥
Verse
सूर्योदये तिमिरजालमिवार्तिजालं धावन्न किं मम विभो यदि दृक्पथे स्याः । किं मे तथा न दयसेऽनुचितो विलम्बः श्रीमातृभूत शिव पालय मां नमस्ते ॥५६॥
Verse
त्वं त्रायसे यदि निवारयितुं क्षमः को लभ्यं किमस्ति तव मय्यवसीदतीत्थम् । किं हीयते मदवने तव किं विलम्बैः श्रीमातृभूत शिव पालय मां नमस्ते ॥५७॥
Verse
चन्द्रोपलामलभवत्कमनीयमूर्ति- सम्पूजनं सुदृढभक्त्यनघोपचारैः । ईहे सदा रचयितुं घटयाशु तन्मे श्रीमातृभूत शिव पालय मां नमस्ते ॥५८॥
Verse
संसारसिन्धुसमुदित्वरखेदमोद- वीचीपरिभ्रमपरिश्रमनोदनं मे । आकल्पय त्वदभिराधनहर्षभूतं श्रीमातृभूत शिव पालय मां नमस्ते ॥५९॥
Verse
भक्तिस्पृशो भवति तस्य न शर्म तेन त्राणव्रताश्रुतिषु वा न सकृत् प्रपन्नः । कस्मात् करोषि करुणां न मयि प्रपन्ने श्रीमातृभूत शिव पालय मां नमस्ते ॥६०॥
Verse
यन्मां न पालयसि तत्त्वदपाटवाद्वा यद् वा मदीयदुरिताद्वद नाथ नाद्यः । सर्वेश्वरो ननु भवानत एव नान्त्यः श्रीमातृभूत शिव पालय मां नमस्ते ॥६१॥
Verse
विश्वाधिनेतरि विपन्नजनावनस्थे नाथे सति त्वयि न यन्मम खेदभङ्गः । तत् ते यशोहरमतो विनिवेदयामि श्रीमातृभूत शिव पालय मां नमस्ते ॥६२॥
Verse
अस्योद्यतः समुपरोद्धुमनात्मनीनं सत्यं भवानघफलार्त्यनुभावनासु । नेशस्तु सोढुमियदस्म्यहमार्तबन्धौ श्रीमातृभूत शिव पालय मां नमस्ते ॥६३॥
Verse
आमज्जतः प्रतिपदं विपदम्बुराशौ दृप्तं मम श्वसितुमप्यनधीश्वरस्य । किं पश्यतस्तव दया न कियान् विलम्बः श्रीमातृभूत शिव पालय मां नमस्ते ॥६४॥
Verse
स्वर्धेनवो न कति नो कति कल्पवृक्षाः भ्रूवश्यतां न कति यान्त्यपरेऽप्युदाराः । भक्तिस्पृशां त्वयि भजे तमहं भवन्तं श्रीमातृभूत शिव पालय मां नमस्ते ॥६५॥
Verse
एनामुपप्लवभरैर्जटिलामवस्थां प्राप्तं हि मां परिहसन्ति नितान्तमन्ये । त्वञ्चेन्न पश्यसि दयार्द्रदृशा गतिः का श्रीमातृभूत शिव पालय मां नमस्ते ॥६६॥
Verse
श्रीशश्शरः कनकभूमिशरश्शरासो वासस्तु रूप्यशिखरी धनदः सखा ते । त्वामाश्रितस्य मम किन्न धुनोषि दैन्यं श्रीमातृभूत शिव पालय मां नमस्ते ॥६७॥
Verse
अत्यङ्कुरार्णमुखखेदमहार्णवेऽस्मिन् मग्नस्य शङ्कर ममोत्तरणं प्रकल्प्य । त्वद्पूजनं घटय सङ्क्षपितान्तरायं श्रीमातृभूत शिव पालय मां नमस्ते ॥६८॥
Verse
लोकेऽतिवर्तितुमलं तव शासनं कः पद्मासनो भवतु पद्मविलोचनो वा । तद्दुर्लिपिं विधिकृतामपि मे विलुम्प श्रीमातृभूत शिव पालय मां नमस्ते ॥६९॥
Verse
निःसारतामपि विदन्विषयेष्वमीषु निःसीमसक्तिरहमेषु हि गाढमूढः । रक्ष्यस्त्वयैव करुणानिधिना प्रसह्य श्रीमातृभूत शिव पालय मां नमस्ते ॥७०॥
Verse
मञ्चे तरङ्गितमणित्विषि पुष्पकऌप्ते मन्दस्मितं सह कदाऽम्बिकया भवन्तम् । पश्यामि पश्चिमतनूपहितोपबर्हं श्रीमातृभूत शिव पालय मां नमस्ते ॥७१॥
Verse
मय्यात्मनीनविमुखे मलिनस्वभावे निर्वेदसागरनिमज्जनविप्लवेऽस्मिन् । कस्माद् भवस्यकरुणः करुणानिधे त्वं श्रीमातृभूत शिव पालय मां नमस्ते ॥७२॥
Verse
रुद्राक्षभृद्भसितभूषणधन्यमूर्तिः भावं वहन् प्रमुदितं भवदेकतानम् । कालं क्षिपेयमिति साधय कामनां मे श्रीमातृभूत शिव पालय मां नमस्ते ॥७३॥
Verse
त्वं चिद्घनोऽस्यहमसौ जडिमैकसीमा दुःखाकरः पुनरहं सुखशेवधिस्त्वम् । युक्ता न ते स्थितिरियं तव गर्भवासे श्रीमातृभूत शिव पालय मां नमस्ते ॥७४॥
Verse
खेदं हरिष्यसि कदा शिशिरैः कटाक्षैः मोदं करिष्यसि कदा मृदुभिर्वचोभिः । इत्युत्सुकोऽस्मि करुणां कुरु किङ्करेऽस्मिन् श्रीमातृभूत शिव पालय मां नमस्ते ॥७५॥
Verse
पाति प्रसह्य न किमर्भकमात्मनीनं संयोजकैर्गुरुजनः स्मर तं क्रमं त्वम् । भक्तिं बलाद् भवति कल्पय मे दयालो श्रीमातृभूत शिव पालय मां नमस्ते ॥७६॥
Verse
सोऽहं न किञ्चिदपि साधु करोमि पापः तुङ्गं पदं त्वभिलषामि तदप्यलज्जः । त्वद्दातृतासदयतागरिमावमर्शी श्रीमातृभूत शिव पालय मां नमस्ते ॥७७॥
Verse
शक्तो न कश्चिदपि शासनमन्तरा ते कः सेव्यतां त्वदितरः किमितः फलं वा । स्वामिन्नुपैमि शरणं करणैस्त्रिभिस्त्वां श्रीमातृभूत शिव पालय मां नमस्ते ॥७८॥
Verse
मृत्युञ्जयोऽसि कमलापतिवल्लभोऽसि तन्मृत्युदैन्यविपदोरपदं त्वदीयम् । त्वामाश्रितस्य मम किं सदृशी दशेयं श्रीमातृभूत शिव पालय मां नमस्ते ॥७९॥
Verse
किं जामिता न भवतो मम दुःखधारा- निर्मातुरस्मृतिपदं किमुपांशुयाजः । कस्मात् प्रभो किमपि शर्म न किं विधत्से श्रीमातृभूत शिव पालय मां नमस्ते ॥८०॥
Verse
क्वाहं क्व चोन्नतपदस्पृहयालुतेय- मात्मैव मामपहसत्यधुना तथाऽपि । त्वत्संश्रये सति किमस्ति दुरापमीश श्रीमातृभूत शिव पालय मां नमस्ते ॥८१॥
Verse
कस्याग्रतः प्रकटयानिरदानकाण्डे कं हर्षयाणि नुतिभिः कमुपाश्रयाणि । मोघः श्रमेषु निपतेयमतो दयेथाः श्रीमातृभूत शिव पालय मां नमस्ते ॥८२॥
Verse
किं विद्यया किमु धनेन किमात्मजैर्वा किं जायया किमितरैस्त्वयि चेन्न चेतः । आनन्दशेवधिमतस्त्वयि देहि भक्तिं श्रीमातृभूत शिव पालय मां नमस्ते ॥८३॥
Verse
दासोऽस्मि दैन्यविवशस्त्वयि सर्वलोक- साम्राज्यसम्पदमकम्पितमश्नुवाने । यत्तन्न ते समुचितं विमृश प्रसीद श्रीमातृभूत शिव पालय मां नमस्ते ॥८४॥
Verse
त्वामाश्रितस्त्वदितराश्रयदैन्यभङ्गम् अङ्गीकरोमि जगदीश कथं कथं वा । त्वां नायशः स्पृशतु तत्त्यज मय्युपेक्षां श्रीमातृभूत शिव पालय मां नमस्ते ॥८५॥
Verse
श्रान्तं वपुर्दुरधिपाश्रयधावनान्मे श्रान्तं वचो दुरधिपस्तुतिधोरणीभिः । क्रान्तं मनो दुरधिपाश्रयचिन्तयैव श्रीमातृभूत शिव पालय मां नमस्ते ॥८६॥
Verse
हेमस्फुरत्तनुतरङ्गितकान्तिधारा- सम्प्लाव्यमानमणिभूषणदिव्यभासम् । मन्ये भवन्तमुमया मणिहेमपीठे श्रीमातृभूत शिव पालय मां नमस्ते ॥८७॥
Verse
स्वानन्दबिन्दुलव सम्प्लवमानसर्व- ब्रह्माण्डमण्डलमखण्डितवैभवं त्वाम् । कस्तोषयेत्तदपि तुष्य परिभ्रमैर्मे श्रीमातृभूत शिव पालय मां नमस्ते ॥८८॥
Verse
कारुण्यनिर्भरसुधारसशीतलाभिः काले कदा तव कटाक्षपरम्पराभिः । कष्टां दशामुपजहानि दृढोपगूढः श्रीमातृभूत शिव पालय मां नमस्ते ॥८९॥
Verse
भक्ताभिभूत्यसहनो भवसि प्रतीतो भक्तोऽस्म्यहं त्वदभिधाग्रहणप्रसक्तः । तस्यास्य ते मयि कृपा न कथं विषण्णे श्रीमातृभूत शिव पालय मां नमस्ते ॥९०॥
Verse
दृक्केलयस्तव कृपारसशीकराङ्काः यास्तासु तत्तदवनप्रवणासु चेत् स्यात् । एका पुनर्मदवनप्रवणा क्षतिः का श्रीमातृभूत शिव पालय मां नमस्ते ॥९१॥
Verse
श्रेयो रुणद्धि यदि पापगणस्तदा त्वां त्वन्नामकीर्तनमघक्षपणक्षमं मे । किन्नास्ति किं न दयसे मयि हन्त खिन्ने श्रीमातृभूत शिव पालय मां नमस्ते ॥९२॥
Verse
तातप्रसूतनयदार सुहृद्भिरेवम् अर्थोपपत्तिविरहादहहावसीदन् । नेतुं क्षणं न निपुणोऽस्मि ततः प्रसीद श्रीमातृभूत शिव पालय मां नमस्ते ॥९३॥
Verse
श्रीशैलराजसुतया शिशिरैः कटाक्षैः मां वीक्ष्यमाणमसकृन्मधुरस्मितेन । सम्भावयन्मयि कदा नु दयिष्यसे त्वं श्रीमातृभूत शिव पालय मां नमस्ते ॥९४॥
Verse
पारे भवाख्यजलधेर्भगवन् कृपाकू- पारे भवत्यवतरिष्यति मे कदा वा । प्रेम्णा तृणीकृतपदं सकलं वितन्वन् श्रीमातृभूत शिव पालय मां नमस्ते ॥९५॥
Verse
निर्धूतदुस्तिमिरमस्तसमस्ततत्तद्- दुर्वासनं हृदयमेतदये वितन्वन् । अस्मिन् भविष्यसि कदा नु सुखं निषण्णः श्रीमातृभूत शिव पालय मां नमस्ते ॥९६॥
Verse
मद्वर्णनैस्तव कदाऽस्तु मनः प्रसादो मद्दृक्पथेऽस्तु च कदा तव दिव्यमूर्तिः । मत्कर्णगं तव वचोऽस्तु कदेति साशं श्रीमातृभूत शिव पालय मां नमस्ते ॥९७॥
Verse
कालेऽर्कनन्दन लुलायकटुस्वनोद्य- त्कर्णज्वरापनयनैर्भवदुक्षजैर्मे । ध्वानामृतैः किमपि शर्म विनिर्मिमाणः श्रीमातृभूत शिव पालय मां नमस्ते ॥९८॥
Verse
यं ते दया स्पृशति तन्नयनान्तदासाः ब्रह्मादयो जगति दीनजनास्पदा सा । दीनाग्रणीरहमतः पुनरुक्तिरेषा श्रीमातृभूत शिव पालय मां नमस्ते ॥९९॥
Verse
अन्यन्न मेऽभिमतमीश तदर्प्यतां वा मा वेप्सितं तु तदिदं भवताऽर्पणीयम् । यत् सर्वदा निभृतवृत्त्यभिधानमित्थं श्रीमातृभूत शिव पालय मां नमस्ते ॥१००॥
Verse
हे शङ्कर स्मरहर प्रमथाधिनाथ मन्नाथ साम्ब शशिचूड शिव त्रिशूलिन् । श्रीचित्सभेश करुणाकर फालनेत्र श्रीमातृभूत शिव पालय मां नमस्ते ॥१०१॥
Verse
एवं स्तवं प्रपठतां उपशृण्वताञ्चा- रोग्यायुरच्छशिवभक्ति धनर्द्धि विद्याः । दद्याः सुतानपि यशश्च विमुक्तिमन्ते श्रीमातृभूत शिव पालय मां नमस्ते ॥१०२॥
Verse
श्रीमातृभूत शिव चन्दनसान्द्रलिप्तां सङ्क्ऌप्तहेमतिलकां श्रितपुष्पमाल्याम् । अक्ष्णाऽमुना तव तनुं पिबतोऽक्ष्युदन्या स्यान्मे यथाशु फलिनीश तथा दयेथाः ॥१०३॥
Verse
मनो मे विक्रीतं तव चरणसेवां कलयितुं कृपामूल्यं लब्धं सुरभिचिकुरे सम्प्रति मया । न जाने तद् दुष्टं निवसति च वा धावति च वा कृतं भूयो भूयः करतलयुगास्फालनमुमे ॥१०४॥
Verse
॥इति श्रीश्रीधरवेङ्कटेशार्यविरचितं मातृभूतशतकं सम्पूर्णम्।
