stotrasangraha
śrīkāñcīkāmakoṭipīṭhajagadguruparamparāstavaḥ
श्रीकाञ्चीकामकोटिपीठजगद्गुरुपरम्परास्तवः
Verse
(पञ्चषष्टितमैः पीठाधिपतिभिः श्रीमत्सुदर्शनमहादेवेन्द्रसरस्वतीश्रीचरणैः प्रणीतः)
Verse
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥१॥
Verse
श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् । तं तोटकं वार्तिककारमन्यान् अस्मद्गुरून् सन्ततमानतोऽस्मि ॥२॥
Verse
सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥३॥
Verse
सर्वतन्त्रस्वतन्त्राय सदाऽऽत्माद्वैतवेदिने । श्रीमते शङ्करार्याय वेदान्तगुरवे नमः ॥४॥
Verse
अविप्लुतब्रह्मचर्यान् अन्वितेन्द्रसरस्वतीन् । आत्तमिथ्यावारपथान् अद्वैताचार्यसङ्कथान् ॥५॥
Verse
आसेतुहिमवच्छैलं सदाचारप्रवर्तकान् । जगद्गुरून् स्तुमः काञ्चीशारदामठसंश्रयान् ॥६॥
Verse
पवित्रितेतराद्वैतमठपीठीशिरोभुवे । श्रीकाञ्चीशारदापीठगुरवे भवभीरवे ॥७॥
Verse
वार्तिकादिब्रह्मविद्याकर्त्रे ब्रह्मावतारिणे । सुरेश्वराचार्यनाम्ने योगीन्द्राय नमो नमः ॥८॥
Verse
अपोऽश्नन्नेव जैनान् य आप्राग्ज्योतिषमाच्छिनत् । शिशुमाचार्यवाग्वेणीरयरोधिमहोबलम् ॥९॥
Verse
सङ्क्षेपशारीरमुखप्रबन्धविवृताद्वयम् । ब्रह्मस्वरूपार्यभाष्यशान्त्याचार्यकपण्डितम् ॥१०॥
Verse
सर्वज्ञचन्द्रनाम्ना च सर्वतो भुवि विश्रुतम् । सर्वज्ञसद्गुरुं वन्दे सर्वज्ञमिव भूगतम् ॥११॥
Verse
मेधाविनं सत्यबोधं व्याधूतविमतोच्चयम् । प्राच्यभाष्यत्रयव्याख्याप्रवीणं प्रभुमाश्रये ॥१२॥
Verse
ज्ञानानन्दमुनीन्द्रार्यं ज्ञानोत्तमपराभिधम् । चन्द्रचूडपदासक्तं चन्द्रिकाकृतमाश्रये ॥१३॥
Verse
शुद्धानन्दमुनीन्द्राणां विद्धार्हतमतत्विषाम् । आनन्दज्ञानसेव्यानाम् आलम्बे चरणाम्बुजम् ॥१४॥
Verse
सर्वशाङ्करभाष्यौघभाष्यकर्तारमद्वयम् । सर्ववार्तिकसद्वृत्तिकृतं श्रीशैलगं भजे ॥१५॥
Verse
कैवल्यानन्दयोगीन्द्रान् केवलं राजयोगिनः । कैवल्यमात्रनिरतान् कलयेम जगद्गुरून् ॥१६॥
Verse
श्रीकृपाशङ्करार्याणां मर्यादातीततेजसाम् । षण्मताचार्यकजुषाम् अङ्घ्रिद्वन्द्वमहं श्रये ॥१७॥
Verse
महिष्ठाय नमस्तस्मै महादेवाय योगिने । सुरेश्वरापराख्याय गुरवे दोषभीरवे ॥१८॥
Verse
स्तुमः सदा शिवानन्दचिद्घनेन्द्रसरस्वतीन् । कामाक्षीचन्द्रमौल्यर्चाकलनैकलसन्मतीन् ॥१९॥
Verse
सार्वभौमाभिधमहाव्रतचर्यापरायणान् । वन्दे जगद्गुरूंश्चन्द्रशेखरेन्द्रसरस्वतीन् ॥२०॥
Verse
समाद्वात्रिंशदत्युग्रकाष्ठमौनसमाश्रयान् । जितमृत्यून् महालिङ्गभूतान् सच्चिद्घनान् नुमः ॥२१॥
Verse
महाभैरवदुस्तन्त्रदुर्दान्तध्वान्तभास्करान् । विद्याघनान् नमस्यामि सर्वविद्याविचक्षणान् ॥२२॥
Verse
आचार्यपदपाथोजपरिचर्यापरायणम् । गङ्गाधरं नमस्यामः सदा गङ्गाधरार्चकम् ॥२३॥
Verse
जगज्जयिसुसौराष्ट्रजरदृष्टिमदापहान् । शकसिल्हकदर्पघ्नान् ईडीमहि महायतीन् ॥२४॥
Verse
चतुस्समुद्रीक्रोडस्थवर्णाश्रमविचारकान् । श्रितविप्रव्रजस्कन्धसुवर्णान्दोलिकाचरान् ॥२५॥
Verse
प्रत्यहं ब्रह्मसाहस्रसन्तर्पणधृतव्रतान् । सदाशिवसमाह्वानान् स्मरामः सद्गुरून् सदा ॥२६॥
Verse
मायालोकायतीभूतबृहस्पतिमदापहान् । वन्दे सुरेन्द्रवन्द्याङ्घ्रीन् श्रीसुरेन्द्रसरस्वतीन् ॥२७॥
Verse
श्रीविद्याकरुणालब्धब्रह्मविद्याहृतामयान् । वन्दे वशंवदप्राणान् मुनीन् विद्याघनान् मुहुः ॥२८॥
Verse
विद्याघनकृपालब्धसर्ववेदान्तविस्तरम् । कौतस्कुतोत्पातकेतुं निश्शङ्कं नौमि शङ्करम् ॥२९॥
Verse
चन्द्रचूडपदध्यानप्राप्तानन्दमहोदधीन् । यतीन्द्रांश्चन्द्रचूडेन्द्रान् स्मरामि मनसा सदा ॥३०॥
Verse
नमामि परिपूर्णश्रीबोधान् ग्रावाभिलापकान् । यदीक्षणात् पलायन्त प्राणिनामामयाधयः ॥३१॥
Verse
सच्चित्सुखान् प्रपद्येऽहं सुखम् आप्तगुहास्थितीन् । चित्सुखाचार्यमीडेऽहं सत्सुखं कोङ्कणाश्रयम् ॥३२॥
Verse
भजे श्रीसच्चिदानन्दघनेन्द्रान् रससाधनात् । लिङ्गात्मना परिणतान् प्रभासे योगसंश्रिते ॥३३॥
Verse
भगवत्पादपादाब्जासक्तिनिर्णिक्तमानसान् । प्रज्ञाघनं चिद्विलासं महादेवं च मैथिलम् ॥३४॥
Verse
पूर्णबोधं च बोधं च भक्तियोगप्रवर्तकम् । ब्रह्मानन्दघनेन्द्रं च नमामि नियतात्मनः ॥३५॥
Verse
चिदानन्दघनेन्द्राणां लम्बिकायोगसेविनाम् । जीर्णपर्णाशिनां पादौ प्रपद्ये मनसा सदा ॥३६॥
Verse
सच्चिदानन्दनामानं शिवार्चनपरायणम् । भाषापञ्चदशीप्राज्ञं भावयामि सदा मुदा ॥३७॥
Verse
भूप्रदक्षिणकर्मैकसक्तं श्रीचन्द्रशेखरम् । त्रातदावाग्निसन्दग्धकिशोरकमुपास्महे ॥३८॥
Verse
चित्सुखेन्द्रं सुखेनैव क्रान्तसह्यगुहागृहम् । कामरूपचरं नानारूपवन्तमुपास्महे ॥३९॥
Verse
निर्दोषसंयमधरान् चित्सुखानन्दतापसान् । विद्याघनेन्द्रान् श्रीविद्यावशीकृतजनान् स्तुमः ॥४०॥
Verse
शङ्करेन्द्रयतीन्द्राणां पादुके ब्रह्मसम्भृते । नमामि शिरसा याभ्यां त्रीन् लोकान् व्यचरन्मुनिः ॥४१॥
Verse
सच्चिद्विलासयोगीन्द्रं महादेवेन्द्रमुज्ज्वलम् । गङ्गाधरेन्द्रमप्येतान् नौमि वादिशिरोमणीन् ॥४२॥
Verse
ब्रह्मानन्दघनेन्द्राख्यांस्तथाऽऽनन्दघनान् अपि । पूर्णबोधमहर्षींश्च ज्ञाननिष्ठानुपास्महे ॥४३॥
Verse
वृत्त्याऽऽजगर्या श्रीशैलगुहागृहकृतस्थितीन् । श्रीमत्परशिवाभिख्यान् सर्वातीतान् श्रये सदा ॥४४॥
Verse
अन्योन्यसदृशान्योन्यौ बोधश्रीचन्द्रशेखरौ । प्रणवोपासनासक्तमानसौ मनसा श्रये ॥४५॥
Verse
मुक्तिलिङ्गार्चनानन्दविस्मृताशेषवृत्तये । चिदम्बररहस्यन्तर्लीनदेहाय योगिने ॥४६॥
Verse
अद्वैतानन्दसाम्राज्यविद्रुताशेषपाप्मने । अद्वैतानन्दबोधाय नमो ब्रह्म समीयुषे ॥४७॥
Verse
श्रये महादेवचन्द्रशेखरेन्द्रमहामुनी । महाव्रतसमारब्धकोटिहोमान्तगामिनौ ॥४८॥
Verse
विद्यातीर्थसमाह्वानान् श्रीविद्यानाथयोगिनः । विद्यया शङ्करप्रख्यान् विद्यारण्यगुरून् भजे ॥४९॥
Verse
सच्चिद्घनेन्द्रान् अद्वैतब्रह्मानन्दमुनीनपि । सान्द्रानन्दयतीन्द्रांश्च तथाप्यद्वैतशेवधीन् ॥५०॥
Verse
महादेवशिवाद्वैतसुखानन्दयतीश्वरौ । मनसा भावये नित्यं महासंयमधारिणौ ॥५१॥
Verse
वीक्षणात् सर्वभूतानां विषव्याधिनिबर्हणम् । शिवयोगीश्वरं साक्षाच्चिन्तयामि सदा मुदा ॥५२॥
Verse
प्रत्यग्ज्योतिःप्रकाशेन्द्रान् प्रत्यग्ज्योतिरुपासिनः । न्यक्कृताशेषदुस्तर्ककार्कश्यान् सततं स्तुमः ॥५३॥
Verse
शङ्करानन्दयोगीन्द्रपदपङ्कजयोर्युगम् । बुक्कभूपशिरोरत्नं स्मरामि सततं हृदा ॥५४॥
Verse
श्रीपूर्णानन्दमौनीन्द्रं नेपालनृपदेशिकम् । अव्याहतस्वसञ्चारं संश्रयामि जगद्गुरुम् ॥५५॥
Verse
महादेवश्च तच्छिष्यश्चन्द्रशेखरयोग्यपि । स्तां मे हृदि सदा धीरावद्वैतमतदेशिकौ ॥५६॥
Verse
प्रवीरसेतुभूपालसेविताङ्घ्रिसरोरुहान् । भजे सदाशिवेन्द्रश्रीबोधेश्वरगुरून् सदा ॥५७॥
Verse
सदाशिवश्रीब्रह्मेन्द्रधृतस्वपदपादुकान् । धीरान् परशिवेन्द्रार्यान् ध्यायामि सततं हृदि ॥५८॥
Verse
आत्मबोधयतीन्द्राणाम् आशीताचलचारिणाम् । अन्यश्रीशङ्कराचार्यधीकृतामङ्घ्रिमाश्रये ॥५९॥
Verse
भगवन्नामसाम्राज्यलक्ष्मीसर्वस्वविग्रहान् । श्रीमद् बोधेन्द्रयोगीन्द्रदेशिकेन्द्रानुपास्महे ॥६०॥
Verse
अद्वैतात्मप्रकाशाय सर्वशास्त्रार्थवेदिने । विधूतसर्वभेदाय नमो विश्वातिशायिने ॥६१॥
Verse
आ सप्तमाज्जीर्णपर्णजलवातारुणांशुभिः । कृतस्वप्राणयात्राय महादेवाय सन्नतिः ॥६२॥
Verse
चोलकेरलचेरौड्रपाण्ड्यकर्णाटकोङ्कणान् । महाराष्ट्रान्ध्रसौराष्ट्रमगधादींश्च भूभुजः ॥६३॥
Verse
शिष्यान् आसेतुशीताद्रि शासते पुण्यकर्मणे । श्रीचन्द्रशेखरेन्द्राय जगतो गुरवे नमः ॥६४॥
Verse
निष्पापवृत्तये नित्यनिर्धूतभवकॢप्तये । महादेवाय सततं नमोऽस्तु नतरक्षिणे ॥६५॥
Verse
श्रीविद्योपासनादार्ढ्यवशीकृतचराचरान् । श्रीचन्द्रशेखरेन्द्रार्यान् शङ्करप्रतिमान् नुमः ॥६६॥
Verse
श्रीकाञ्चीशारदापीठसंस्थितानाम् इमां क्रमात् । स्तुतिं जगद्गुरूणां यः पठेत् स सुखभाग् भवेत् ॥६७॥
Verse
(अत्र १-४ पद्यानि पोलहग्रामाभिजनैः श्रीरामशास्त्रिभिः प्रकाशितानि। ५ पद्यं नवषष्टितमैः पीठाधिपतिभिः श्रीमज्जयेन्द्रसरस्वतीश्रीपादैः रचितम्। ६-७ पद्ये शिमिलिग्रामाभिजनैः राधाकृष्णशास्त्रिभिः विरचिते।)
Verse
कलानन्दपरब्रह्मानन्दानुभवतुन्दिलान् । महादेवेन्द्रयमिनः सततं संश्रये हृदा ॥६८॥
Verse
प्रतिदिनविहितश्रीचन्द्रमौलीश्वरार्चा- प्रसितसकलदेहः प्रौढपुण्यानुभावः । मनसि सततमास्तां श्रीमहादेवनामा मम गुरुरितकाञ्चीशारदापीठसीमा ॥६९॥
Verse
अतिबाल्यविधृतसंयमविमलमनःसेवितेशचरणयुगान् । श्रीचन्द्रशेखरेन्द्रान् साम्प्रतमाचार्यशेखरान् प्रणुमः ॥७०॥
Verse
लक्ष्मीनारायण इति पूर्वाश्रमनामभूषितं शान्तम् । ऋग्वेदे सम्यगधीतिनं महादेवमाश्रयामि गुरुम् ॥७१॥
Verse
अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदाऽन्वहम् ॥७२॥
Verse
परित्यज्य मौनं वटाधःस्थितिं च व्रजन् भारतस्य प्रदेशात् प्रदेशम् । मधुस्यन्दिवाचा जनान् धर्ममार्गे नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥७३॥
Verse
नमामः शङ्करान्वाख्यविजयेन्द्रसरस्वतीम् । श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम् ॥७४॥
Verse
देवे देहे च देशे च भक्त्यारोग्य-सुख-प्रदम् । बुध-पामर-सेव्यं तं श्री-जयेन्द्रं नमाम्यहम् ॥
Verse
नमामः शङ्करान्वाख्य-विजयेन्द्रसरस्वतीम् । श्रीगुरुं शिष्टमार्गानुनेतारं सन्मतिप्रदम् ॥
Verse
सत्यनारायणक्षेत्रात् सत्यव्रतमुपागतम् । आश्रये कामकोटीशं सत्यश्रीचन्द्रशेखरम् ॥
