Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

parabrahma-prātaḥ smaraṇa-stotram

परब्रह्म-प्रातः स्मरण-स्तोत्रम्

Verse

प्रातः स्मरामि हृदि संस्फुरदात्मतत्वं सच्चित् सुखं परमहंसगतिं तुरीयम् । यत् स्वप्नजागरसुषुप्तिमवैति नित्यं तद् ब्रह्म निष्कलमहं न च भूतसन्धः ॥१॥

Verse

प्रातर्भजामि मनसा वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यं नेति नेति वचनैर्निगमा अवोचं- स्तं देवदेवमजमच्युतमाहुरग्र्यम् ॥२॥

Verse

प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरूषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजङ्गम इव प्रतिभासितं वै ॥३॥

Verse

श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रातः काले पठेद् यस्तु स गच्छेत् परमं पदम् ॥४॥

nityaślokāḥ
dhyāna-stotrāṇi

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms