stotrasangraha
dhyāna-stotrāṇi
ध्यान-स्तोत्राणि
Verse
ओङ्कार-सन्निभमिभाननमिन्दुभालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् । लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥
Verse
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
Verse
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् । श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥
Verse
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
Verse
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥
Verse
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना या विप्राधिपयानरम्यनयना या विप्रपालानना । विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना श्रीमद्राघवपादपद्मयुगलन्यस्तेक्षणा साऽवतु ॥
Verse
उष्ट्रारूढ-सुवर्चलासहचरन् सुग्रीवमित्राञ्जना- सूनो वायुकुमार केसरितनूजाऽक्षादिदैत्यान्तक । सीतशोकहराग्निनन्दन सुमित्रासम्भवप्राणद श्रीभीमाग्रज शम्भुपुत्र हनुमान् सूर्यास्य तुभ्यं नमः ॥
Verse
खड्गं खेटक-भिण्डिपाल-परशुं पाश-त्रिशूल-द्रुमान् चक्रं शङ्ख-गदा-फलाङ्कुश-सुधाकुम्भान् हलं पर्वतम् । टङ्कं पर्वतकार्मुकाहिडमरूनेतानि दिव्यायुधान् एवं विंशतिबाहुभिश्च दधतं ध्यायेद्धनूमत्प्रभुम् ॥
Verse
वन्दे शम्भुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् ॥
Verse
सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिर्- दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अम्भोजाभय-शक्ति-कुक्कुटधरं रक्ताङ्गरागोज्ज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥
Verse
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायेदीप्सित-सिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥
Verse
श्यामां पङ्कजधारिणीं मणिलसत् ताटङ्ककर्णोज्ज्वलां दक्षे लम्बकरां किरीटमकुटां तुङ्गस्तनोत्कञ्चुकाम् । अन्योन्येक्षणसंयुगां शरवणोद्भूतस्य सव्ये स्थितां गुञ्जामाल्यधरां प्रवालवसनां वल्लीश्वरीं भावये ॥
Verse
पीतामुत्फलधारिणीं शशिसुतां पीताम्बरालङ्कृतां वामे लम्बकरां महेन्द्रतनयां मन्दारमालाधराम् । दैवार्चितपादपद्मयुगलां स्कन्दस्य वामे स्थितां सेनां दिव्यविभूषितां त्रिनयनां देवीं त्रिभङ्गीं भजे ॥
Verse
कल्पद्रुमं प्रणमतां कमलारुणाभं स्कन्दं भुजद्वयमनामयमेकवक्त्रम् । कात्यायनीप्रियसुतं कटिबद्धवामं कौपीनदण्डधरदक्षिणहस्तमीडे ॥
Verse
ऋग्वेदः श्वेतवर्णः स्याद् द्विभुजो रासभाननः । अक्षमालायुतः सौम्यः प्रीतश्चाध्ययनोद्यतः ॥
Verse
अजास्यः पीतवर्णः स्याद्यजुर्वेदोऽक्षसूत्रधृक् । वामे कुलिशपाणिस्तु भूतिदो मङ्गलप्रदः ॥
Verse
नीलोत्पलदलाभासः सामवेदो हयाननः । अक्षमालान्वितो दक्षे वामे कम्बुधरः स्मृतः ॥
Verse
अथर्वणाभिधो वेदो धवलो मर्कटाननः । अक्षसूत्रं च खट्वाङ्गं बिभ्राणो यजनप्रियः ॥
