Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

nityaślokāḥ

नित्यश्लोकाः

Verse

अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः कृपः परशुरामश्च सप्तैते चिरजीविनः । सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमं जीवेद् वर्षशतं प्राज्ञ अपमृत्युविवर्जितः ॥

Verse

अहल्या द्रौपदी सीता तारा मन्दोदरी तथा । पञ्चकं ना स्मरेन्नित्यं महापातकनाशनम् ॥

Verse

शिवनामनि भावितेऽन्तरङ्गे महति ज्योतिषि मानिनीमयार्धे । दुरितान्यपयान्ति दूरदूरे मुहुरायान्ति महान्ति मङ्गलानि ॥

Verse

स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥

Verse

शर्यातिं च सुकन्यां च च्यवनं शक्रमश्विनौ । भुक्तमात्रे स्मरेद् यस्तु चक्षुस्तस्य न हीयते ॥

Verse

प्रह्लाद-नारद-पराशर-पुण्डरीक- व्यासाम्बरीष-शुक-शौनक-भीष्म-दाल्भ्यान् । रुक्माङ्गदार्जुन-वसिष्ठ-विभीषणादीन् पुण्यानिमान् परमभागवतान् समरामि ॥

Verse

गां च दृष्ट्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥

Verse

सर्वकामदुघे देवि सर्वतीर्थाभिषेचिनी । पावने सुरभिश्रेष्ठे देवि तुभ्यं नमोऽस्तु ते ॥

Verse

पापानि यानि रविसूनुपटस्थितानि गो-ब्रह्म-बाल-पितृ-मातृ-वधादिकानि । नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशे फलमाशु च स्यात् ॥१॥

Verse

(तुलसीवनगमने प्रोक्तव्यम्)

Verse

या दृष्टा निखिलाघ-सङ्घ-शमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी । प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥२॥

Verse

(तुलसी-जल-प्रोक्षणम्)

Verse

ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका । यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥३॥

Verse

(मृत्तिका-धारणम्)

Verse

तुलसीकाननं यत्र यत्र पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः ॥४॥

Verse

पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा । वासुदेवादयो देवा वसन्ति तुलसीवने ॥५॥

Verse

(प्रदक्षिणम्)

Verse

तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमनःप्रिये ॥६॥

Verse

(नमस्कारः)

Verse

तुलसी श्रीमहालक्ष्मीर्विद्याऽविद्या यशस्विनी । धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया ॥

Verse

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला । षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः । लभते सुतरां भक्तिम् अन्ते विष्णुपदं लभेत् ॥

Verse

अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः सव्यसाची धनञ्जयः ॥

Verse

यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥

Verse

औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥

sarasvatī prārthanā
parabrahma-prātaḥ smaraṇa-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms