stotrasangraha
kṛṣṇāṣṭakam 3
कृष्णाष्टकम् ३
Verse
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥१॥
Verse
अतसीपुष्पसङ्काशं हारनूपुरशोभितम् । रत्नकङ्कणकेयूरं कृष्णं वन्दे जगद्गुरुम् ॥२॥
Verse
कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम् । विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरुम् ॥३॥
Verse
मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजम् । बर्हिपिञ्छावचूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ॥४॥
Verse
उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम् । यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ॥५॥
Verse
रुक्मिणीकेलिसंयुक्तं पीताम्बरसुशोभितम् । अवाप्ततुलसीगन्धं कृष्णं वन्दे जगद्गुरुम् ॥६॥
Verse
गोपिकानां कुचद्वन्द्वकुङ्कुमाङ्कितवक्षसम् । श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ॥७॥
Verse
श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम् । शङ्खचक्रधरं देवं कृष्णं वन्दे जगद्गुरुम् ॥८॥
Verse
कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥
Verse
॥इति श्री-कृष्णाष्टकं सम्पूर्णम्॥
