stotrasangraha
śrī-kṛṣṇa-jananam
श्री-कृष्ण-जननम्
Verse
निशीथे तम उद्भूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कलः ॥८॥
Verse
तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्युदायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥९॥
Verse
महार्ह-वैदूर्य-किरीट-कुण्डल- त्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दाम-काञ्च्यङ्गद-कङ्कणादिभिर्- विरोचमानं वसुदेव ऐक्षत ॥१०॥
Verse
॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे तृतीयेऽध्याये श्री-कृष्ण-जन्मानुवर्णनम्॥
