Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

śrīrāmakṛṣṇāṣṭakam

श्रीरामकृष्णाष्टकम्

Verse

विश्वस्य धाता पुरुषस्त्वमाद्यो- ऽव्यक्तेन रूपेण ततं त्वयेदम् । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥१॥

Verse

त्वं पासि विश्वं सृजसि त्वमेव त्वमादिदेवो विनिहंसि सर्वम् । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥२॥

Verse

मायां समाश्रित्य करोषि लीलां भक्तान् समुद्धर्तुमनन्तमूर्तिः । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥३॥

Verse

विधृत्यरूपं नरवत्त्वया वै विज्ञापितो धर्म इहातिगुह्यः । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥४॥

Verse

तपोऽथ ते त्यागमदृष्टपूर्वम् दृष्ट्वा नमस्यन्ति कथं न विज्ञाः । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥५॥

Verse

श्रुत्वात्र ते नाम भवन्ति भक्ता दृष्ट्वा वयं त्वां न तु भक्तियुक्ताः । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥६॥

Verse

सत्यं विभुं शान्तमनादिरूपं प्रसादये त्वामजमन्तशून्यम् । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥७॥

Verse

जानामि तत्त्वं न हि देशिकेन्द्रं किं ते स्वरूपं किमु भावजातम् । हे रामकृष्ण त्वयि भक्तिहीने कृपाकटाक्षं कुरु देव नित्यम् ॥८॥

śṛṅgeri śrījagadguru śrīsaccidānandaśivābhinavanṛsiṃhabhāratīsvāmibhiḥ viracitam
śrīsāradādevyaṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms