aSTakam
śṛṅgeri śrījagadguru śrīsaccidānandaśivābhinavanṛsiṃhabhāratīsvāmibhiḥ viracitam
शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितम्
Verse
भजतां कल्पलतिका भवभीतिविभञ्जनी । भ्रमराभकचा भूयाद्भव्याय भवसोदरी ॥१॥
Verse
करनिर्जितपाथोजा शरदभ्रनिभाम्बरा । वरदानरता भूयाद्भव्याय भवसोदरी ॥२॥
Verse
काम्या पयोजजनुषा नम्या सुरवरैर्मुहुः । रम्याब्जवसतिर्भूयाद्भव्याय भवसोदरी ॥३॥
Verse
कृष्णादिसुरसंसेव्या कृतान्तभयनाशिनी । कृपार्द्रहृदया भूयाद्भव्याय भवसोदरी ॥४॥
Verse
मेनकादिसमाराध्या शौनकादिमुनिस्तुता । कनकाभतनुर्भूयाद्भव्याय भवसोदरी ॥५॥
Verse
वरदा पदनम्रेभ्यः पारदा भववारिधेः । नीरदाभकचा भूयाद्भव्याय भवसोदरी ॥६॥
Verse
विनताघहरा शीघ्रं विनतातनयार्चिता । पीनतायुक्कुचा भूयाद्भव्याय भवसोदरी ॥७॥
Verse
वीणालसत्पाणिपद्मा काणादमुखशास्त्रदा । एणाङ्कशिशुभृद्भूयाद्भव्याय भवसोदरी ॥८॥
Verse
अष्टकं भवसोदर्या कष्टनाशकरं द्रुतम् । इष्टदं संपठञ्छीघ्रमष्टसिद्धिरवाप्नुयात् ॥९॥
Verse
इतिश्रीभवसोदर्यष्टकं सम्पूर्णम्
