aSTakam
śrīrāmacandrāṣṭakam
श्रीरामचन्द्राष्टकम्
Verse
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥१॥
Verse
संसारसारं निगमप्रचारं धर्मावतारं हृतभूरिभारम् । सदा निर्विकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥२॥
Verse
लक्ष्मीविलासं जगतां निवासं भूदेववासं शरदिन्दुहासम् । लंकाविनाशं भुवनप्रकाशं श्रीरामचन्द्रं सततं नमामि ॥३॥
Verse
मन्दारमालं वचने रसालं गुणैर्विशालं हृतसप्ततालम् । क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥४॥
Verse
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् । विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥५॥
Verse
वेदान्तवेद्यं सकलैश्चमान्यं हृतारिमानं क्रतुषु प्रधानम् । गजेन्द्रपालं विगताभिमानं श्रीरामचन्द्रं सततं नमामि ॥६॥
Verse
लीलाशरीरं रणरङ्गधीरं विश्वैकवीरं रघुवंशधीरम् । गंभीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥७॥
Verse
अघेऽतिभीतं सुजने विनीतं तमोविहीनं मनुवंशदीपम् । ताराप्रगीतं व्यसने च मित्रं श्रीरामचन्द्रं सततं नमामि ॥८॥
Verse
रामचन्द्राष्टकं पुण्यं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं तस्य पापं सद्यो विनश्यति ॥९॥
