Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

devaiḥ kṛtaṃ rāma-stotram

देवैः कृतं राम-स्तोत्रम्

Verse

अथाभिषिक्तं रामं तु तुष्टुवुः प्रणताः सुराः । रावणाभिधदैत्येन्द्र वधहर्षितमानसाः ॥१॥

Verse

जय दाशरथे सुरार्तिहञ्जय जय दानववंशदाहक । जय देववराङ्गनागणग्रहणव्यग्रकरारिदारक ॥२॥

Verse

तवयद्दनुजेन्द्रनाशनं कवयो वर्णयितुं समुत्सुकाः । प्रलये जगतान्ततीः पुनर्ग्रससे त्वं भुवनेशलीलया ॥३॥

Verse

जय जन्मजरादिदुःखकैः परिमुक्तप्रबलोद्धरोद्धर । जय धर्मकरान्वयाम्बुधौ कृतजन्मन्नजरामराच्युत ॥४॥

Verse

तव देववरस्य नामभिर्बहुपापा अपि ते पवित्रिताः । किमु साधुद्विजवर्यपूर्वकाः सुतनुं मानुषतामुपागताः ॥५॥

Verse

हरविरिञ्चिनुतं तव पादयोर्युगलमीप्सितकामसमृद्धिदम् । हृदि पवित्रयवादिकचिह्नितैः सुरचितं मनसा स्पृहयामहे ॥६॥

Verse

यदि भवान्न दधात्यभयं भुवो मदनमूर्ति तिरस्करकान्तिभृत् । सुरगणा हि कथं सुखिनः पुनर्ननु भवन्ति घृणामय पावन ॥७॥

Verse

यदा यदास्मान्दनुजाहि दुःखदास्तदा तदा त्वं भुवि जन्मभाग्भवेः । अजोऽव्ययोऽपीशवरोऽपि सन्विभो स्वभावमास्थाय निजं निजार्चितः ॥८॥

Verse

मृतसुधासदृशैरघनाशनैः सुचरितैरवकीर्य महीतलम् । अमनुजैर्गुणशंसिभिरीडितः प्रविश चाशु पुनर्हि स्वकं पदम् ॥९॥

Verse

अनादिराद्योजररूपधारी हारी किरीटी मकरध्वजाभः । जयं करोतु प्रसभं हतारिः स्मरारि संसेवितपादपद्मः ॥१०॥

Verse

इत्युक्त्वा ते सुराः सर्वे ब्रह्मेन्द्रप्रमुखा मुहुः । प्रणेमुररिनाशेन प्रीणिता रघुनायकम् ॥११॥

Verse

इति स्तुत्यातिसंहृष्टो रघुनाथो महायशाः । प्रोवाच तान्सुरान्वीक्ष्य प्रणतान्नतकन्धरान् ॥१२॥

Verse

सुरा वृणुत मे यूयं वरं किञ्चित्सुदुर्लभम् । यं कोऽपि देवो दनुजो न यक्षः प्राप सादरः ॥१३॥

Verse

स्वामिन् भगवतः सर्वं प्राप्तमस्माभिरुत्तमम् । यदयं निहतः शत्रुरस्माकं तु दशाननः ॥१४॥

Verse

यदा यदाऽसुरोऽस्माकं बाधां परिदधाति भोः । तदा तदेति कर्तव्यमेतावद्वैरिनाशनम् ॥१५॥

Verse

तथेत्युक्त्वा पुनर्वीरः प्रोवाच रघुनन्दनः ।

Verse

सुराः शृणुत मद्वाक्यमादरेण समन्विताः ॥१६॥

Verse

भवत्कृतं मदीयैर्वैगुणैर्ग्रथितमद्भुतम् । स्तोत्रं पठिष्यति मुहुः प्रातर्निशि सकृन्नरः ॥१७॥

Verse

तस्य वैरि पराभूतिर्न भविष्यति दारुणा । न च दारिद्र्यसंयोगो न च व्याधिपराभवौ ॥१८॥

Verse

मदीयचरणद्वन्द्वे भक्तिस्तेषां तु भूयसी । भविष्यति मुदायुक्ते स्वान्ते पुंसां तु पाठतः ॥१९॥

Verse

इत्युक्त्वा सोऽभवत्तूष्णीं नरदेवशिरोमणिः । सुराः सर्वे प्रहृष्टास्ते ययुर्लोकं स्वकं स्वकम् ॥२०॥

Verse

॥इति श्रीपद्मपुराणे पातालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे अगस्त्यसमागमोनाम पञ्चमोऽध्यायान्तर्गतं देवैः कृतं श्री-राम-स्तोत्रं सम्पूर्णम्॥

śambhukṛta-rāmastavaḥ
brahmakṛtarāmastavaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms