stotrasangraha
śambhukṛta-rāmastavaḥ
शम्भुकृत-रामस्तवः
Verse
नमो मूलप्रकृतये नित्याय परमात्मने । सच्चिदानन्दरूपाय विश्वरूपाय वेधसे ॥२४॥
Verse
नमो निरन्तरानन्द कन्दमूलाय विष्णवे । जगत्त्रयकृतानन्द मूर्तये दिव्यमूर्तये ॥२५॥
Verse
नमो ब्रह्मेन्द्रपूज्याय शङ्कराभयदाय च । नमो विष्णुस्वरूपाय सर्वरूप नमो नमः ॥२६॥
Verse
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने । नमोऽस्तु निर्गतोपाधिस्वरूपाय महात्मने ॥२७॥
Verse
अनया विद्यया देव्या सीतयोपाधिकारिणे । नमः पुम्प्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥२८॥
Verse
जगन्मातापितृभ्यां च जनन्यै राघवाय च । नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥२९॥
Verse
नमो ध्यानस्वरूपिण्यै योगिध्येयात्ममूर्तये । परिणामापरीणामरिक्ताभ्यां च नमो नमः ॥३०॥
Verse
कूटस्थबीजरूपिण्यै सीतायै राघवाय च । सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः ॥३१॥
Verse
सीता स्वयं हि सावित्री भवान् ब्रह्मा चतुर्मुखः । सीता शची भवान् शक्रः सीता स्वाहाऽनलो भवान् ॥३२॥
Verse
सीता संहारिणी देवी यमरूपधरो भवान् । सीता हि सर्वसम्पत्तिः कुबेरस्त्वं रघूत्तम ॥३३॥
Verse
सीता देवी च रुद्राणी भवान् रुद्रो महाबलः । सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः ॥३४॥
Verse
सीता संज्ञा भवान्सूर्यः सीता रात्रिर्दिवा भवान् । सीता देवी महाकाली महाकालो भवान्सदा ॥३५॥
Verse
स्त्रीलिङ्गेषु त्रिलोकेषु यत्तत्सर्वं हि जानकी । पुन्नाम लाञ्छितं यत् तु तत् सर्वं हि भवान् प्रभो ॥३६॥
Verse
सर्वत्र सर्वदेवेश सीता सर्वत्र धारिणी । तदा त्वमपि च त्रातुं तच्छक्तिर्विश्वधारिणी ॥३७॥
Verse
तस्मात्कोटिगुणं पुण्यं युवाभ्यां परिचिह्नितम् । चिह्नितं शिवशक्तिभ्यां चरितं तव शान्तिदम् ॥३८॥
Verse
आवां राम जगत्पूज्यौ मम पूज्यौ सदा युवाम् । त्वन्नामजापिनी गौरी त्वन्मन्त्रजपवानहम् ॥३९॥
Verse
मुमूर्षोर्मणिकर्ण्यां तु अर्धोदकनिवासिनः । अहं दिशामि ते मन्त्रं तारकं ब्रह्मदायकम् ॥४०॥
Verse
अतस्त्वं जानकीनाथ परब्रह्मासि निश्चितम् । त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्वतः ॥४१॥
Verse
इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत् । दिव्यरूपधरः श्रीमानद्भुताद्भुतदर्शनः ॥४२॥
Verse
तथा तं रूपमालोक्य नरवानरदेवताः । न द्रष्टुमपिशक्तास्ते तेजसं महदद्भुतम् ॥४३॥
Verse
भयाद् वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः । भीता विज्ञाय रामोऽपि नरवानरदेवताः । मायामानुषतां प्राप्य स देवानब्रवीत् पुनः ॥४४॥
Verse
शृणुध्वं देवता यो मां प्रत्यहं संस्तुविष्यति । स्तवेन शम्भुनोक्तेन देवतुल्यो भवेन्नरः ॥४५॥
Verse
विमुक्तः सर्वपापेभ्यो मत्स्वरूपं समश्नुते । रणे जयमवाप्नोति न क्वचित्प्रतिहन्यते ॥४६॥
Verse
भूतवेतालकृत्याभिर्ग्रहैश्चापि न बाध्यते । अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥४७॥
Verse
दरिद्रः श्रियमाप्नोति सत्ववाञ्शीलवान् भवेत् । आत्मतुल्यबलः श्रीमाञ्जायते नात्र संशयः ॥४८॥
Verse
निर्विघ्नं सर्वकार्येषु सर्वारम्भेषु वै नृणाम् । यं यं कामयते मर्त्यः सुदुर्लभमनोरथम् ॥४९॥
Verse
षण्मासात्सिद्धिमाप्नोति स्तवस्यास्य प्रसादतः । यत्पुण्यं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् । तत्फलं कोटिगुणितं स्तवेनानेन लभ्यते ॥५०॥
Verse
इत्युक्त्वा रामचन्द्रोऽसौ विससर्ज महेश्वरम् । ब्रह्मादि त्रिदशान्सर्वान् विससर्ज समागतान् ॥५१॥
Verse
अर्चिता मानवाः सर्वे नरवानरदेवताः । विसृष्टा रामचन्द्रेण प्रीत्या परमया युताः ॥५२॥
Verse
इत्थं विसृष्टाः खलु ते च सर्वे सुखं तदा जग्मुरतीवहृष्टाः । परं पठन्तः स्तवमीश्वरोक्तं रामं स्मरन्तो वरविश्वरूपम् ॥५३॥
Verse
॥इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्साहस्र्यां संहितायामुत्तरखण्डे उमामहेश्वरसंवादे विश्वदर्शनं नाम त्रिचत्वारिंशदधिकद्विशततमोऽध्याये श्री-शम्भुकृत-रामस्तवः सम्पूर्णः॥
