Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

brahmakṛtarāmastavaḥ

ब्रह्मकृतरामस्तवः

Verse

ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ॥१॥

Verse

ततो वैश्रवणो राजा यमश्च पितृभिः सह । सहस्राक्षश्च देवेशो वरुणश्च जलेश्वरः ॥२॥

Verse

षडर्धनयनः श्रीमान्महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥३॥

Verse

एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्काम् अभिजग्मुश्च राघवम् ॥४॥

Verse

ततः सहस्ताभरणान् प्रगृह्य विपुलान् भुजान् । अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥५॥

Verse

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानविदां विभुः । उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ॥६॥

Verse

कथं देवगणश्रेष्ठम् आत्मानं नावबुध्यसे । ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ॥७॥

Verse

त्रयाणां त्वं हि लोकानाम् आदिकर्ता स्वयम्प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ॥८॥

Verse

अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ॥९॥

Verse

उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ॥१०॥

Verse

अब्रवीत् त्रिदशश्रेष्ठान् रामो धर्मभृतां वरः । आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ॥११॥

Verse

योऽहं यस्य यतश्चाहं भगवांस्तद् ब्रवीतु मे । इति ब्रुवन्तं काकुत्स्थं ब्रह्मा ब्रह्मविदां वरः ॥१२॥

Verse

अब्रवीच्छृणु मे राम सत्यं सत्यपराक्रम । भवान् नारायणो देवः श्रीमांश्चक्रायुधः प्रभुः ॥१३॥

Verse

एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् । अक्षरं ब्रह्म सत्यं च मध्ये चान्ते च राघव ॥१४॥

Verse

लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः । शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ॥१५॥

Verse

अजितः खड्गधृद् विष्णुः कृष्णश्चैव सनातनः । सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ॥१६॥

Verse

प्रभवश्चाप्ययश्च त्वम् उपेन्द्रो मधुसूदनः । इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ॥१७॥

Verse

शरण्यं शरणं च त्वाम् आहुर्दिव्या महर्षयः । सहस्रशृङ्गो वेदात्मा शतशीर्षो महर्षभः ॥१८॥

Verse

त्वं त्रयाणां हि लोकानाम् आदिकर्ता स्वयम्प्रभुः । सिद्धानामपि साध्यानाम् आश्रयश्चासि पूर्वजः ॥१९॥

Verse

त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः परात्परः । प्रभवं निधनं वा ते नो विदुः को भवानिति ॥२०॥

Verse

दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च । दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ॥२१॥

Verse

सहस्रचरणः श्रीमान् शतशीर्षः सहस्रदृक् । त्वं धारयसि भूतानि पृथिवीं च सपर्वताम् ॥२२॥

Verse

अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः । त्रीन् लोकान् धारयन् राम देवगन्धर्वदानवान् ॥२३॥

Verse

अहं ते हृदयं राम जिह्वा देवी सरस्वती । देवा गात्रेषु रोमाणि ब्रह्मणा निर्मिताः प्रभो ॥२४॥

Verse

निमेषस्ते भवेद् रात्रिरुन्मेषस्ते भवेद् दिवा । संस्कारास्तेऽभवन् वेदा न तदस्ति त्वया विना ॥२५॥

Verse

जगत् सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् । अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षणः ॥२६॥

Verse

त्वया लोकास्त्रयः क्रान्ताः पुरा स्वैर्विक्रमैस्त्रिभिः । महेन्द्रश्च कृतो राजा बलिं बद्ध्वा महासुरम् ॥२७॥

Verse

सीता लक्ष्मीर्भवान् विष्णुः देवः कृष्णः प्रजापतिः । वधार्थं रावणस्येह प्रविष्टो मानुषीं तनुम् ॥२८॥

Verse

तदिदं नः कृतं कार्यं त्वया धर्मभृतां वर । निहतो रावणो राम प्रहृष्टो दिवमाक्रम ॥२९॥

Verse

अमोघं बलवीर्यं ते अमोघस्ते पराक्रमः । अमोघं दर्शनं राम अमोघस्तव संस्तवः ॥३०॥

Verse

अमोघास्ते भविष्यन्ति भक्तिमन्तो नरा भुवि । ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥३१॥

Verse

प्राप्नुवन्ति सदा कामान् इह लोके परत्र च । इममार्षं स्तवं नित्यम् इतिहासं पुरातनम् । ये नराः कीर्तयिष्यन्ति तेषां नास्ति पराभवः ॥३२॥

Verse

॥इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे ब्रह्मकृतरामस्तवो नाम विंशत्यधिकशततमः सर्गः॥

devaiḥ kṛtaṃ rāma-stotram
āpaduddhāraṇa-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms