stotrasangraha
āpaduddhāraṇa-stotram
आपदुद्धारण-स्तोत्रम्
Verse
ॐ आपदामपहर्तारं दातारं सर्वसम्पदाम् । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥१॥
Verse
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम् । द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम् ॥२॥
Verse
नमः कोदण्डहस्ताय सन्धीकृतशराय च । खण्डिताखिलदैत्याय रामायाऽऽपन्निवारिणे ॥३॥
Verse
रामाय रामभद्राय रामचन्द्राय वेधसे । रघुनाथाय नाथाय सीतायाः पतये नमः ॥४॥
Verse
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ । आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ ॥५॥
Verse
सन्नद्धः कवची खड्गी चापबाणधरो युवा । गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः ॥६॥
Verse
अच्युतानन्तगोविन्द नामोच्चारणभेषजात् । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥७॥
Verse
सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदाच्छास्त्रं परं नास्ति न देवं केशवात् परम् ॥८॥
Verse
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥९॥
Verse
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणो हरिः ॥१०॥
