stotrasangraha
hanumatkṛtaṃ śrī-sītā-rāma-stotram
हनुमत्कृतं श्री-सीता-राम-स्तोत्रम्
Verse
अयोध्या-पुर-नेतारं मिथिला-पुर-नायिकाम् । इक्ष्वाकूणाम् अलङ्कारं वैदेहानाम् अलङ्क्रियाम् ॥१॥
Verse
रघूणां कुल-दीपं च निमीनां कुल-दीपिकाम् । सूर्य-वंश-समुद्भूतं सोम-वंश-समुद्भवाम् ॥२॥
Verse
पुत्रं दशरथस्यापि पुत्रीं जनक-भूपतेः । वसिष्ठ-अनुमताचारं शतानन्द-मतानुगाम् ॥३॥
Verse
कौसल्या-गर्भ-सम्भूतं वेदि-गर्भोदितां स्वयम् । पुण्डरीक-विशालाक्षं स्फुरद् इन्दीवरेक्षणाम् ॥४॥
Verse
चन्द्र-कान्ताननाम्भोजं चन्द्रबिम्ब-उपमाननाम् । मत्त-मातङ्ग-गमनं मत्त-सारस-गामिनीम् ॥५॥
Verse
चन्दनार्द्र-भुजा-मध्यं कुङ्कुमाक्त-कुच-स्थलीम् । चापालङ्कृत-हस्ताब्जं पद्मालङ्कृत-पाणिकाम् ॥६॥
Verse
शरणागतगोप्तारं प्रणिपातप्रसादिकाम् । ताली-दल-श्यामलाङ्गं तप्त-चामीकर-प्रभाम् ॥७॥
Verse
दिव्य-सिंहासनारूढं दिव्य-स्रग्-वस्त्र-भूषणाम् । अनुक्षणं कटाक्षाभ्याम् अन्योन्य-ईक्षण-काङ्क्षिणौ ॥८॥
Verse
अन्योन्य-सदृशाकारौ त्रैलोक्य-गृह-दम्पती । इमौ युवां प्रणम्याहं भजाम्यद्य कृतार्थताम् ॥९॥
Verse
अनया स्तोति यः स्तुत्या रामं सीतां च भक्तितः । तस्य तौ तनुतां प्रीतौ सम्पदः सकला अपि ॥१०॥
Verse
इतीदं रामचन्द्रस्य जानक्याश्च विशेषतः । कृतं हनुमता पुण्यं स्तोत्रं सद्यो विमुक्ति-दम् । यः पठेत् प्रातरुत्थाय सर्वान् कामानवाप्नुयात् ॥११॥
Verse
॥इति श्री-हनूमत्कृतं श्री-सीतारामस्तोत्रं सम्पूर्णम्॥
