stotrasangraha
dakṣiṇāmūrtistotraṃ vṛṣabhadevakṛtam
दक्षिणामूर्तिस्तोत्रं वृषभदेवकृतम्
Verse
अगणितगुणमप्रमेयमाद्यं सकलजगत्स्थितिसंयमादिहेतुम् । उपरतमनोयोगिहृन्मन्दिरन्त सततमहं दक्षिणामूर्तिमीडे ॥१॥
Verse
निरवधिसुखमिष्टदातारमीड्यं नतजनमनस्तापभेदैकदक्षम् । भवविपिनदवाग्निनामधेयं सततमहं दक्षिणामूर्तिमीडे ॥२॥
Verse
त्रिभुवनगुरुमागमैकप्रमाणं त्रिजगत्कारणसूत्रयोगमायम् । रविशतभास्वरमीहितप्रदानं सततमहं दक्षिणामूर्तिमीडे ॥३॥
Verse
अविरतभवभावनाऽतिदूरं पदपद्मद्वयभाविनामदूरम् । भवजलधिसुतारणाङ्घ्रिपोतं सततमहं दक्षिणामूर्तिमीडे ॥४॥
Verse
कृतनिलयमनिशं वटाकमूले निगमशिखाव्रातबोधितैकरूपम् । धृतमुद्राङ्गुलिगम्यचारुबोधं सततमहं दक्षिणामूर्तिमीडे ॥५॥
Verse
द्रुहिणसुतपूजिताङ्घ्रिपद्मं पदपद्मानतमोक्षदानदक्षम् । कृतगुरुकुलवासयोगिमित्रं सततमहं दक्षिणामूर्तिमीडे ॥६॥
Verse
यतिवरहृदयेसदाविभान्तं रतिपतिशतकोटिसुन्दराङ्गमाद्यम् । परहितनिरतात्मनां सुसेव्यं सततमहं दक्षिणामूर्तिमीडे ॥७॥
Verse
स्मितधवलविकासिताननाब्जं श्रुतिसुलभं वृषभाधिरूढगात्रम् । सितजलजसुशोभदेहकान्तिं सततमहं दक्षिणामूर्तिमीडे ॥८॥
Verse
वृषभकृतमिदमिष्टसिद्धिदं गुरुवरदेवसन्निधौ पठेद् यः । सकलदुरितदुःखवर्गहानिं व्रजति चिरं ज्ञानवान् शम्भुलोकम् ॥९॥
Verse
॥इति श्रीमद्वृषभदेवकृतं दक्षिणामूर्तिस्तोत्रं सम्पूर्णम्॥
