Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

dakṣiṇāmūrtistotram

दक्षिणामूर्तिस्तोत्रम्

Verse

उपासकानां यदुपासनीयम् उपात्तवासं वटशाखिमूले । तद् धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥१॥

Verse

अद्राक्षमक्षीणदयानिधानम् आचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षि लोकस्य तमो नुदन्तम् ॥२॥

Verse

विद्राविताशेष-तमोगुणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥३॥

Verse

अपारकारुण्यसुधातरङ्गैः अपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान् मुनीनहं नौमि गुरुं गुरूणाम् ॥४॥

Verse

ममाद्यदेवो वटमूलवासी कृपाविशेषात् कृतसन्निधानः । ओङ्काररूपामुपदिश्य विद्याम् आविद्यकध्वान्तमपाकरोतु ॥५॥

Verse

कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेयम् अनाद्यविद्यातिमिरप्रभातम् ॥६॥

Verse

स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोगपट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥७॥

Verse

तत्त्वार्थमन्तेवसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैः आचार्यमाश्चर्यगुणाधिवासम् ॥८॥

Verse

एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तात् आचार्यचूडामणिराविरस्तु ॥९॥

Verse

आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कञ्चनदेशिकेन्द्रम् अज्ञानवाराकरबाडवाग्निम् ॥१०॥

Verse

चारुस्मितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्वाम् उपात्तनादानुभवप्रमोदम् ॥११॥

Verse

उपासते यं मुनयः शुकाद्याः निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेशम् उपास्महे मोहमहार्तिशान्त्यै ॥१२॥

Verse

कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः । मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥१३॥

Verse

अगौरगात्रैरललाटनेत्रैः अशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रैः अपूर्णकामैरमरैरलं नः ॥१४॥

Verse

दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥१५॥

Verse

मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदीन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥१६॥

Verse

व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥१७॥

Verse

उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥१८॥

Verse

यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्याम् अन्ते च वेदान्तमहारहस्यम् ॥१९॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-दक्षिणामूर्तिस्तोत्रं सम्पूर्णम्॥

dakṣiṇāmūrtyaṣṭakam
dakṣiṇāmūrtistotraṃ vṛṣabhadevakṛtam

Read next

More on दक्षिणामूर्तिस्तोत्रम्

  • दक्षिणामूर्तिस्तोत्रं वृषभदेवकृतम्Stotra
  • दक्षिणामूर्तिस्तोत्रं समरपुङ्गवदीक्षितकृतम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms