stotrasangraha
dakṣiṇāmūrtistotraṃ samarapuṅgavadīkṣitakṛtam
दक्षिणामूर्तिस्तोत्रं समरपुङ्गवदीक्षितकृतम्
Verse
आधिक्यम् अस्माज्जगतोऽधिगन्तुं विश्वाधिकोक्तेर्विषयं प्रपद्ये । कालग्रहग्राहभयापनुत्त्यै कृतान्तशिक्षाकृतिनं प्रपद्ये ॥१॥
Verse
शृङ्गारभूजृम्भणवारणाय प्रसूनकोदण्डरिपुं प्रपद्ये । विनेतुम् आर्तिं विषयाध्वजन्यां वटद्रुमाधोवसतिं प्रपद्ये ॥२॥
Verse
मोहातिरेकस्मयमोषणाय पादार्दितापस्मरणं प्रपद्ये । कर्माटवीपाटनकौतुकेन पाणौ विराजत्परशुं प्रपद्ये ॥३॥
Verse
विशुद्धविज्ञानविकासहेतोः प्रबोधमुद्राभरितं प्रपद्ये । तापत्रयाटोपसमापनाय प्रालेयधामाभरणं प्रपद्ये ॥४॥
Verse
वैमल्यसम्पादनवाञ्छयाऽहं मन्दाकिनीमाल्यधरं प्रपद्ये । प्रसादलाभं परम् ईहमानो मुग्धस्मितोल्लासिमुखं प्रपद्ये ॥५॥
Verse
व्यथाम् अशेषाम् अपनेतुकामो नाम्ना मृडं नाथम् अहं प्रपद्ये । अनाद्यविद्याशमनं प्रपद्ये नाम्ना महिम्नाऽपि च शङ्करं त्वाम् १ ॥६॥
Verse
सर्वज्ञतासारभृतं प्रपद्ये निस्सीमसौहित्यनिधिं प्रपद्ये । अनादिबोधायतनं प्रपद्ये स्वतन्त्रतायाः सदनं प्रपद्ये ॥७॥
Verse
हरं प्रपद्येऽहम् अलुप्तशक्तिम् अमेयसामर्थ्यम् अहं प्रपद्ये । शिवं प्रपद्ये जनकं विधातुः ईशं हृषीकेशगुरुं प्रपद्ये ॥८॥
Verse
एवं प्रपत्तिम् ईशाने तन्वते तत्त्वदर्शिनः । तत्क्रतुन्यायरसिकाः तत्तादृशफलाप्तये ॥९॥
Verse
89 १एतत् श्लोकार्धं श्रीचन्द्रशेखरेन्द्रसरस्वतीश्रीपादैः पूरितम् इति मद्रपुरीवास्तव्यैः प्राध्यापकवीऴिनाथमहाभागैः निवेदितम्।
Verse
॥इति श्री-समरपुङ्गवदीक्षितकृतयात्राप्रबन्धग्रन्थे विद्यमानं श्री-दक्षिणामूर्तिस्तोत्रं सम्पूर्णम्॥
