stotrasangraha
bilvāṣṭakam
बिल्वाष्टकम्
Verse
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥१॥
Verse
त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥२॥
Verse
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥३॥
Verse
शालिग्राम-शिलामेकां विप्राणां जातु चार्पयेत् । सोमयज्ञ-महापुण्यं एकबिल्वं शिवार्पणम् ॥४॥
Verse
दन्तिकोटि-सहस्राणि वाजपेय-शतानि च । कोटिकन्या-महादानं एकबिल्वं शिवार्पणम् ॥५॥
Verse
लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् । बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥६॥
Verse
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥७॥
Verse
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् । प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥८॥
Verse
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥९॥
Verse
बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥
Verse
॥इति बिल्वाष्टकं सम्पूर्णम्॥
