stotrasangraha
śivarakṣāstotram
शिवरक्षास्तोत्रम्
Verse
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः। श्रीसदाशिवो देवता।अनुष्टुप् छन्दः। श्रीसदाशिवप्रीत्यर्थे शिवरक्षास्तोत्रजपे विनियोगः॥
Verse
चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥
Verse
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥
Verse
गङ्गाधरः शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषणः ॥१॥
Verse
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥२॥
Verse
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥३॥
Verse
हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥४॥
Verse
सक्थिनी पातु दीनार्तशरणागतवत्सलः । ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥५॥
Verse
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥६॥
Verse
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान् कामान् शिवसायुज्यमाप्नुयात् ॥
Verse
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणाम् ॥
Verse
अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥
Verse
इमां नारायणः स्वप्ने शिवरक्षां यथाऽदिशत् । प्रातरूत्थाय योगीन्द्रो याज्ञवल्क्यस्तथाऽलिखत् ॥
Verse
॥इति श्रीमद्याज्ञवल्क्यमुनिप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम्॥
