stotrasangraha
śrīkṛṣṇārjunakṛta-rudrastotram
श्रीकृष्णार्जुनकृत-रुद्रस्तोत्रम्
Verse
नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥५५॥
Verse
महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥५६॥
Verse
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे । पिनाकिने हविष्याय सत्याय विभवे सदा ॥५७॥
Verse
विलोहिताय धूम्राय व्याधायानपराजिते । नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥५८॥
Verse
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे । अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥५९॥
Verse
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥६०॥
Verse
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमो नमस्ते सेव्याय भूतानां प्रभवे सदा ॥६१॥
Verse
ब्रह्मवक्त्राय सर्वाय शङ्कराय शिवाय च । नमोऽस्तु वाचस्पतये प्रजानां पतये नमः ॥६२॥
Verse
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा । नमोऽस्तु देवदेवाय महाभूतधराय च । नमो विश्वस्य पतये पत्तीनां पतये नमः ॥६३॥
Verse
नमो विश्वस्य पतये महतां पतये नमः । नमः सहस्रशिरसे सहस्रभुजमृत्यवे । सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ॥६४॥
Verse
नमो हिरण्यवर्णाय हिरण्यकवचाय च । भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥६५॥
Verse
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः । प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥६६॥
Verse
॥इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि अशीतितमोऽध्याये श्रीकृष्णार्जुनकृतं रुद्रस्तोत्रं सम्पूर्णम्॥
