Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrīgaṇeśabhujaṃgastotram

श्रीगणेशभुजंगस्तोत्रम्

Verse

अजं निर्विकल्पं निराकारमेकं निरातंकमद्वैतमानन्दपूर्णम् । परं निर्गुणं निर्विशेषं निरीहं परब्रह्मरूपं गणेशं भजेम ॥१॥

Verse

गुणातीतमाद्यं चिदानंदरूपं चिदाभासकं सर्वगं ज्ञानगम्यम् । मुनिध्येयमाकाशरूपं परेशं परब्रह्मरूपं गणेशं भजेम ॥२॥

Verse

जगत्कारणं कारणज्ञानरूपं सुरादिं सुखादिं युगादिं गणेशम् । जगद्व्यापिनं विश्ववन्द्यं सुरेशं परब्रह्मरूपं गणेशं भजेम ॥

Verse

३॥

Verse

रजोयोगतो ब्रह्मरूपं श्रुतिज्ञं सदाकार्यसक्तं हृदाऽचिंत्यरूपम् । जगत्कारणं सर्वविद्यानिधानं परब्रह्मरूपं गणेशं भजेम ॥४॥

Verse

सदा सत्वयोगं मुदा क्रीडमानं सुरारीन् हरन्तं जगत्पालयन्तम् । अनेकावतारं निजाज्ञानहारं सदा विष्णुरूपं गणेशं नमामः ॥५॥

Verse

तपोयोगिनां रुद्ररूपं त्रिणेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा शर्वरूपं गणेशं नमामः ॥६॥

Verse

तमस्तोमहारं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मपारम् । मुनिज्ञानकारं विदूरे विकारं सदा ब्रह्मरूपं गणेशं नमामः ॥७॥

Verse

निजैरोषधीस्तर्पयन्तं करौघैः सुरौघान् कलाभिः सुधास्राविणीभिः । दिनेशांशु संतापहारं द्विजेशं शशांकस्वरूपं गणेशं नमामः ॥८॥

Verse

प्रकाशस्वरूपं नभोवायुरूपं विकारादिहेतुं कलाकालभूतम् । अनेकक्रियानेकशक्तिस्वरूपं सदा शक्तिरूपं गणेशं नमामः ॥९॥

Verse

प्रधानस्वरूपं महत्तत्वरूपं धरावारिरूपं दिगीशादिरूपम् । असत्सत्स्वरूपं जगद्धेतुभूतं सदा विश्वरूपं गणेशं नमामः ॥१०॥

Verse

त्वदीये मनः स्थापयेदंघ्रिपद्मे जनो विघ्नसंघान्न पीडां लभेत । लसत्सूर्यबिंबे विशाले स्थितोऽयं जनो ध्वांतबाधां कथं वा लभेत ॥११॥

Verse

वयं भ्रामिताः सर्वथा ज्ञानयोगात् अलब्ध्वा तवाङ्घ्रिं बहून् वर्षपूगान् । इदानीमवाप्तं तवैव प्रसादात् प्रपन्नानिमान् पाहि विश्वंभराद्य ॥१२॥

Verse

इदं यः पठेत् प्रातरुत्थाय धीमान् त्रिसंध्यं सदा भक्तियुक्तो विशुद्धः । स पुत्रान् श्रियं सर्वकामान् लभेत परब्रह्मरूपो भवेदन्तकाले ॥१३॥

śrīgaṇapatidvādaśanāmastotram (pādmapurāṇāṃtargataṃ)
॥ pasāyadāna ॥

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms