sahasranAma
śrīgaṇapatidvādaśanāmastotram (pādmapurāṇāṃtargataṃ)
श्रीगणपतिद्वादशनामस्तोत्रम् (पाद्मपुराणांतर्गतं)
Verse
गणपतिर्विघ्नराजो लंबतुण्डो गजाननः द्वैमातुरश्च हेरंब एकदंतो गणाधिपः विनायकश्चारुकर्णः पशुपालो भवात्मजः ॥१॥
Verse
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् । विश्वं तस्य भवेद्वश्यं नच विघ्नं भवेत् क्वचित् ॥२॥
Verse
महाप्रेताः शमं यान्ति पीड्यते व्याधिभिर्न च । सर्वपापाद्विनिर्मुक्तोह्यक्षयं स्वर्गमश्नुते ॥३॥
