Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrī śiva sahastranāmastotram‌

श्री शिव सहस्त्रनामस्तोत्रम्‌

Verse

अस्य श्रीशिवसहस्त्रनामस्तोत्रमन्त्रस्य नारायण ऋषिःम श्रीशिवो देवता, अनुष्टुप् छ्न्दः, श्रीशिवो बीजम्, गौरी शक्तिः, श्रीशिवप्रीत्यर्थं जपे विनियोगः । ध्यानम् ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्यार्घ्रकृत्तिं वसानं विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् । वासुदेव उवाच ततः स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥

Verse

१ ॥

Verse

उपमन्युरुवाच ब्रह्मप्रोक्तैऋषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः । सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥

Verse

२ ॥

Verse

महाद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः । ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥

Verse

३ ॥

Verse

यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥

Verse

४ ॥

Verse

श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः । सत्यैस्तत् परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥

Verse

५ ॥

Verse

वक्ष्ये यदुकुलश्रेष्ठ श्रृणुष्वावहितो मम । वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥

Verse

६ ॥

Verse

तेन ते श्रावयिष्यामि यत् तद् ब्रह्म सनातनम् । न शक्यं विस्तरात् कृत्स्नं वक्तुं सर्वस्य केनचित् ॥

Verse

७ ॥

Verse

युक्तेनापि विभूतीनामपि वर्षशतैरपि । यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥

Verse

८ ॥

Verse

कस्तस्य शुक्रुयाद्‍ वक्तुं गुणान् कार्त्स्न्येन माधव । किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥

Verse

९ ॥

Verse

शक्तितश्चरितं वक्ष्ये प्रसादात् तस्य धीमतः । अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥

Verse

१० ॥

Verse

यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया । अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥

Verse

११ ॥

Verse

नाम्नां कञ्चित्‍ समुद्देशं वक्ष्याम्यव्यक्तयोनिनः । वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥

Verse

१२ ॥

Verse

श्रृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना । दशनामसहस्त्राणि यान्याह प्रपितामहः ॥

Verse

१३ ॥

Verse

तानि निर्मथ्य मनसा दध्नोघृतमोवोद्धऋतम् । गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥

Verse

१४ ॥

Verse

घृतात् सारं यथा मण्डस्तथैतत् सारमृद्धृतम् । सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥

Verse

१५ ॥

Verse

प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना । माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥

Verse

१६ ॥

Verse

इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च । नाश्रद्दधानरूपाय नासिकायाजितात्मने ॥

Verse

१७ ॥

Verse

यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् । स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥

Verse

१८ ॥

Verse

इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥

Verse

१९ ॥

Verse

यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम् । पवित्रं मङ्गलं मेध्यं कल्याणामिदमुत्तमम् ॥

Verse

२० ॥

Verse

इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥

Verse

२१ ॥

Verse

तदाप्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराज इति ख्यातो जगत्यमरपूजितः ॥

Verse

२२ ॥

Verse

ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः । यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥

Verse

२३ ॥

Verse

स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः । सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥

Verse

२४ ॥

Verse

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । ब्रह्मणामपि यद्‍ ब्रह्म पराणामपि यत् परम् ॥

Verse

२५ ॥

Verse

तेजसामपि यत्‍ तेजस्तपसामपि यत् तपः । शान्तानामपि यः शान्तोद्युतीनामपि या द्युतिः ॥

Verse

२६ ॥

Verse

दान्तानामपि यो दान्तो धीमतामपि या च धीः । देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥

Verse

२७ ॥

Verse

यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः । रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥

Verse

२८ ॥

Verse

योगिनामपि यो योगी कारणानां च कारणम् । यतो लोकाः सम्भवन्ति न भवन्ति यतः पुनः ॥

Verse

२९ ॥

Verse

सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्त्रं तु नाम्नां शर्वस्य मे श्रृणु । यच्छुत्वा मनुजव्याघ्र सर्वान् कामानवाप्य्स्यसि ॥

Verse

३० ॥

Verse

॥

Verse

स्तोत्रम् ॥

Verse

स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः । सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥

Verse

३१ ॥

Verse

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः । हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥

Verse

३२ ॥

Verse

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः । श्मशानवासी भगवान्‍ खचरो गोचरोऽर्दनः ॥

Verse

३३ ॥

Verse

अभिवाद्यो महाकर्मा तपस्वी भूतभावनः । उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥

Verse

३४ ॥

Verse

महारूपो महाकायो वृषरूपो महायशाः । महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥

Verse

३५ ॥

Verse

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः । पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥

Verse

३६ ॥

Verse

सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः । सहस्त्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥

Verse

३७ ॥

Verse

चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः । अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥

Verse

३८ ॥

Verse

महातपा घोरतपा अदीनो दीनसाधकः । संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥

Verse

३९ ॥

Verse

योगी योज्यो महाबीजो महारेता महाबलः । सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥

Verse

४० ॥

Verse

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः । विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः ॥

Verse

४१ ॥

Verse

गणकर्ता गणपतिर्दिग्वासाः काम एव च मन्त्रवित् परमो मन्त्रः सर्वभावकरो हरः ॥

Verse

४२ ॥

Verse

कमण्डलुधरो धन्वी बाणहस्तः कपालवान् । अशनी शतघ्नी खड्‍गी पट्टिशी चायुधी महान् ॥

Verse

४३ ॥

Verse

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः । उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥

Verse

४४ ॥

Verse

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च । श्रृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥

Verse

४५ ॥

Verse

अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि । ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥

Verse

४६ ॥

Verse

त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः । अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥

Verse

४७ ॥

Verse

गजहा दैत्यहा कालो लोकधाता गुणाकरः । सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥

Verse

४८ ॥

Verse

कालयोगी महानादः सर्वकामश्चतुष्पथः । निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥

Verse

४९ ॥

Verse

बहुभूतो बहुधरः स्वर्भानुरमितो गतिः । नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥

Verse

५० ॥

Verse

घोरो महातपाः पाशो नित्यो गिरिरुहो नभः । सहस्त्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥

Verse

५१ ॥

Verse

अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः । दक्षयागापहारी च सुसहो मध्यमस्तथा ॥

Verse

५२ ॥

Verse

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितोऽवरः । गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥

Verse

५३ ॥

Verse

न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः । सुतीक्षदशनश्चैव महाकायो महाननः ॥

Verse

५४ ॥

Verse

विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः । तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥

Verse

५५ ॥

Verse

विष्णुप्रसादितो यज्ञः समिद्रो वडवामुखः । हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥

Verse

५६ ॥

Verse

उग्रतेजा महातेजा जन्यो विजयकालवित् । ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥

Verse

५७ ॥

Verse

शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्द्धगी बली । वेणवी पणवी ताली खली कालकटंकटः ॥

Verse

५८ ॥

Verse

नक्षत्रविग्रहमतिर्गुणबुधिर्लयोऽगमः । प्रजापतिर्विश्वबहुर्विभागः सर्वगोऽमुखः ॥

Verse

५९ ॥

Verse

विमोचनः सुसरणो हिरण्यकवचोद्भवः । मेड्रजो बलचारी च महीचारी स्रुतस्तथा ॥

Verse

६० ॥

Verse

सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः । व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥

Verse

६१ ॥

Verse

त्रिदशस्त्रिकालधृक् कर्मसर्वबन्धविमोचनः । बन्धनस्त्वसुरेन्द्राणां युधि शत्रिविनाशनः ॥

Verse

६२ ॥

Verse

सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः । प्रस्कन्दनो विभागज्ञोऽतुल्यो यज्ञविभागवित् ॥

Verse

६३ ॥

Verse

सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः । हैमो हेमकरो‍ऽयज्ञः सर्वधारी धरोत्तमः ॥

Verse

६४ ॥

Verse

लोहितक्षो महाक्षश्च विजयाक्षो विशारदः । संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥

Verse

६५ ॥

Verse

मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः । सर्वकालप्रसादश्च सुबलो बलरूपधृक्‍ ॥

Verse

६६ ॥

Verse

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः । आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥

Verse

६७ ॥

Verse

रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी । वसुवगो महावेगो मनोवेगो निशाचर्ह ॥

Verse

६८ ॥

Verse

सर्ववासी श्रियावासी उपदेशकरोऽकरः । मुनिरात्मानिरालोकः सम्भग्नश्च सहस्त्रदः ॥

Verse

६९ ॥

Verse

पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः । उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥

Verse

७० ॥

Verse

वामदेवश्च वामश्च प्राग्‍ दक्षिणश्च वामनः । सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥

Verse

७१ ॥

Verse

भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः । महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥

Verse

७२ ॥

Verse

वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च । वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥

Verse

७३ ॥

Verse

वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः । ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥

Verse

७४ ॥

Verse

ईशान ईश्वरः कालो निशाचारी पिनाकवान् । निमित्तस्थो निमित्तं न नन्दिर्नन्दिकरो हरिः ॥

Verse

७५ ॥

Verse

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः । भगहारी निहन्ता च कालो ब्रह्मा पितामहः ॥

Verse

७६ ॥

Verse

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च । लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥

Verse

७७ ॥

Verse

बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः । इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥

Verse

७८ ॥

Verse

दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः । लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥

Verse

७९ ॥

Verse

अक्षरं परमं ब्रह्म बलवच्छक्र एव च । नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥

Verse

८० ॥

Verse

बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् । वेदकरो मन्त्रकारो विद्वन् समरमर्दनः ॥

Verse

८१ ॥

Verse

महामेघनिवासी च महाघोरो वशी करः । अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥

Verse

८२ ॥

Verse

वृषणः शंकरो नित्यं वर्चस्वी धूमकेतनः । नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥

Verse

८३ ॥

Verse

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः । उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥

Verse

८४ ॥

Verse

कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् । महापादो महाहस्तो महाकायो महायशाः ॥

Verse

८५ ॥

Verse

महामूर्धा महामात्रो महानेत्रो निशालयः । महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥

Verse

८६ ॥

Verse

महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् । महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥

Verse

८७ ॥

Verse

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः । महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥

Verse

८८ ॥

Verse

महानखो महारोमा महाकोशो महाजटः । प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥

Verse

८९ ॥

Verse

स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः । वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥

Verse

९० ॥

Verse

गण्डली मेरुधामा च देवाधिपतिरेव च । अथर्वशीर्षः सामास्य ऋक्सहस्त्रामितेक्षणः ॥

Verse

९१ ॥

Verse

यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा । अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥

Verse

९२ ॥

Verse

उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः । नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥

Verse

९३ ॥

Verse

द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः । नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥

Verse

९४ ॥

Verse

सगणो गणकारश्च भूतवाहनसारथिः । भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥

Verse

९५ ॥

Verse

लोकपालस्तथालोको महात्मा सर्वपूजितः । शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥

Verse

९६ ॥

Verse

आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः । विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥

Verse

९७ ॥

Verse

कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः । गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥

Verse

९८ ॥

Verse

परश्वधायुधो देवो अनुकारी सुबान्धवः । तुम्भवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥

Verse

९९ ॥

Verse

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः । सर्वाङ्गरूपो मायावी सुह्रदो ह्यनिलोऽनलः ॥

Verse

१०० ॥

Verse

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः । सयज्ञारिः सकामारिर्महादंष्ट्रो महायुधः ॥

Verse

१०१ ॥

Verse

बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः । अमरेशो महादेवो विश्वदेवः सुरारिहा ॥

Verse

१०२ ॥

Verse

अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा । अजैकपाच्च कापाली त्रिशङ्‌कुरजितः शिवः ॥

Verse

१०३ ॥

Verse

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा । धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥

Verse

१०४ ॥

Verse

प्रभावः सर्वगो वायुरर्यमा सविता रविः । उषङ्गश्च विधाता च मान्धाता भूतभावनः ॥

Verse

१०५ ॥

Verse

विभुर्वर्णविभावी च सर्वकामगुणावहः । पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥

Verse

१०६ ॥

Verse

बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी । कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥

Verse

१०७ ॥

Verse

सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः । देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥

Verse

१०८ ॥

Verse

कैलासगिरिवासी च हिमवद्गिरिसंश्रः । कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥

Verse

१०९ ॥

Verse

वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः । सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥

Verse

११० ॥

Verse

सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः । सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥

Verse

१११ ॥

Verse

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः । सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥

Verse

११२ ॥

Verse

भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥

Verse

११३ ॥

Verse

वाहिता सर्वभूतानां निलयश्च विभुर्भुवः । अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः ॥

Verse

११४ ॥

Verse

धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥

Verse

११५ ॥

Verse

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् । प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥

Verse

११६ ॥

Verse

गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः । महागीतो महानृत्यो ह्यपसरोगणसेवितः ॥

Verse

११७ ॥

Verse

महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आदेशः सर्वगन्धसुखावहः ॥

Verse

११८ ॥

Verse

तोरणस्तारणो वातः परिधीः पतिखेचरः । संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥

Verse

११९ ॥

Verse

नित्य आत्मसहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥

Verse

१२० ॥

Verse

आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः । वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥

Verse

१२१ ॥

Verse

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः । अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥

Verse

१२२ ॥

Verse

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः । निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥

Verse

१२३ ॥

Verse

रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥

Verse

१२४ ॥

Verse

आरोहणोऽधिरोहश्च शीलधारी महायशाः । सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥

Verse

१२५ ॥

Verse

युगरूपो महारूपो महानागहनोऽवधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥

Verse

१२६ ॥

Verse

बहुमाओ महामालः शशी हरसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥

Verse

१२७ ॥

Verse

त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः । विन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥

Verse

१२८ ॥

Verse

निवेदनः सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥

Verse

१२९ ॥

Verse

मन्थानो बहुलो वायुः सकलः सर्वलोचनः । तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥

Verse

१३० ॥

Verse

छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः । मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥

Verse

१३१ ॥

Verse

हर्यक्षः ककुभो वज्री शतजिह्वः सहस्त्रपात् । सहस्त्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥

Verse

१३२ ॥

Verse

सहस्त्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् । पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥

Verse

१३३ ॥

Verse

ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥

Verse

१३४ ॥

Verse

गभस्तिर्ब्रह्मकृद् ब्रह्मी ब्रह्मविद् ब्राह्मणो गतिः । अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥

Verse

१३५ ॥

Verse

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥

Verse

१३६ ॥

Verse

कर्णिकारमहास्त्रग्वी नीलमौलिः पिनाकधृत् । उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥

Verse

१३७ ॥

Verse

वरो वराहो वरदो वरेण्यः सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥

Verse

१३८ ॥

Verse

पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥

Verse

१३९ ॥

Verse

चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सवितामृतः ॥

Verse

१४० ॥

Verse

व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः । ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥

Verse

१४१ ॥

Verse

कलाः काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः । विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥

Verse

१४२ ॥

Verse

सदसद् व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥

Verse

१४३ ॥

Verse

निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥

Verse

१४४ ॥

Verse

देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥

Verse

१४५ ॥

Verse

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥

Verse

१४६ ॥

Verse

देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥

Verse

१४७ ॥

Verse

उद्भित् त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः । ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥

Verse

१४८ ॥

Verse

विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः । सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥

Verse

१४९ ॥

Verse

गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः । श्रृङ्गी श्रृङ्गप्रियो बभ्रू राजराजो निरामयः ॥

Verse

१५० ॥

Verse

अभिरामः सुरगणो विरामः सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥

Verse

१५१ ॥

Verse

स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥

Verse

१५२ ॥

Verse

व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः । विमुक्तो मुक्ततेजाश्च श्रीमाञ्श्रीवर्धनो जगत् ॥

Verse

१५३ ॥

Verse

॥

Verse

फलश्रुतिः ॥

Verse

यथाप्रधानं भगवानिति भक्त्या स्तुतो मया । यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥

Verse

१५४ ॥

Verse

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् । भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥

Verse

१५५ ॥

Verse

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः । शिवमेभिः स्तुवन्‍ देवं नामभिः पुष्टिवर्धनैः ॥

Verse

१५६ ॥

Verse

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥

Verse

१५७ ॥

Verse

एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति । ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥

Verse

१५८ ॥

Verse

स्तूयमानो महादेवस्तुष्यते नियतात्मभिः । भक्तानुकम्पी भगवनात्मसंस्थाकरो विभुः ॥

Verse

१५९ ॥

Verse

तथैव च मनुष्येषु ये मनुष्याः प्रधानतः । आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ॥

Verse

१६० ॥

Verse

भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् । कर्मणा मनसा वाचा भावेनामिततेजसः ॥

Verse

१६१ ॥

Verse

शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा । उन्मिषन् निमिशंश्चैव चिन्तयन्तः पुनः पुनः ॥

Verse

१६२ ॥

Verse

श्रृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् । स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥

Verse

१६३ ॥

Verse

जन्मकोटिसहस्त्रेषु नानासंसारयोनिषु । जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥

Verse

१६४ ॥

Verse

उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः । भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥

Verse

१६५ ॥

Verse

एतद् देवेषु दुष्प्रापं मनुष्येषु न लभ्यते । निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥

Verse

१६६ ॥

Verse

तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् । येन यान्ति परां सिद्धिं तद्भावगतचेतसः ॥

Verse

१६७ ॥

Verse

ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् । प्रपन्नवत्सलो देवः संसारात् तान् समुद्धरेत् ॥

Verse

१६८ ॥

Verse

एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् । मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥

Verse

१६९ ॥

Verse

इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः । कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥

Verse

१७० ॥

Verse

स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् । गीयते च स बुद्ध्येत ब्रह्मा शङ्करसंनिधौ ॥

Verse

१७१ ॥

Verse

इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् । योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥

Verse

१७२ ॥

Verse

एवमेतत् पठन्ते य एकभक्त्या तु शङ्करम् । या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥

Verse

१७३ ॥

Verse

स्तवमेतं प्रयत्नेन सदा रुद्रस्य संनिधौ । अब्दमेकं चरेद् भक्तः प्राप्नुयादीप्सितं फलम् ॥

Verse

१७४ ॥

Verse

स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् । नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥

Verse

यः पठेत्‌ शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥

Verse

॥

Verse

इति श्रीमहाभारते अनुशासनपर्वणि श्रीशिवसहस्त्रनामस्तोत्रं सम्पूर्णम् ।

śrīkṛṣṇacaitanyasahasranāmastotram
śrī durgā sahasranāmastotram dakārādi

Read next

More on शिव

  • सदाशिवाष्टकम्Ashtakam
  • शिवमङ्गलाष्टकम्Ashtakam
  • ॥अथ श्री शिवाष्टकं ॥Ashtakam
  • शिवाष्टकं ३Ashtakam
  • श्रीशिवाष्टकम्Ashtakam
  • शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारतीस्वामिभिः विरचितम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms