Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrī rāma sahastranāmastotram

श्री राम सहस्त्रनामस्तोत्रम्

Verse

॥

Verse

श्रीरामाय नम: ॥

Verse

अस्य श्रीरामसहस्त्रनाममालामन्त्रस्य विनायक ऋषिः अनुष्टुप् छन्द: श्रीरामो देवता महाविष्णुरिति बीजं गुणभृन्निर्गुणो महानिति शक्तिः सच्चिदानन्दविग्रह इति कीलकं श्रीरामप्रीत्यर्थे जपे विनियोगः । न्यासः (क) करन्यासः - ॐ श्रीरामचन्द्राय अङुष्ठाभ्यां नमः । ॐ श्रीसीतापतये तर्जनीभ्यां नमः । ॐ श्रीरघुनाथाय मध्यमाभ्यां नमः । ॐ श्रीभरताग्रजाय अनामिकाभ्यां नमः । ॐ श्रीदशरथात्मजाय कनिष्ठिकाभ्यां नमः । ॐ श्रीहनुमत्प्रभवे करतलकरपृष्ठाभ्यां नमः । (ख) ह्रदयादिन्यासः - ॐ श्रीरामचन्द्राय ह्रदयाय नमः । ॐ श्रीसीतापतये शिरसे स्वाहा । ॐ श्रीरघुनाथाय शिखायै वषट् । ॐ श्रीभरताग्रजाय कवचाय हुम् । ॐ श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् । ॐ श्रीहनुमत्प्रभवे अस्त्राय फट् । ध्यानम् ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् । वामाङ्दारूढसीतामुखकमलमिलल्लोचनं नीरदाभं नानालङ्कारदीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥

Verse

नीलाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासिनं मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि । सीतां पार्श्‍वगतां सरोरुहकरां विद्युन्निभां राघवं पश्यन्तीं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे ॥

Verse

स्तोत्रम् राजीवलोचन: श्रीमान् श्रीरामो रघुपुङ्गवः । रामभद्र: सदाचारो राजेन्द्रो जानकीपतिः ॥

Verse

१ ॥

Verse

अग्रगण्यो वरेण्यश्च वरदः परमेश्वरः । जनार्दनो जितामित्रः परार्थैकप्रयोजनः ॥

Verse

२ ॥

Verse

विश्वामित्रप्रियो दान्तश्शत्रुजिच्छत्रुतापनः । सर्वज्ञः सर्वदेवादिः शरण्यो वालिमर्दनः ॥

Verse

३ ॥

Verse

ज्ञानभाव्योऽपरिच्छेद्यो वाग्मी सत्यव्रतः शुचिः । ज्ञानगम्यो दृढप्रज्ञः खरध्वंसी प्रतापवान् ॥

Verse

४ ॥

Verse

द्युतिमानात्मवान् वीरो जितक्रोधोऽरिमर्दनः । विश्वरूपो विशालाक्षः प्रभुः परिवृढो दृढः ॥

Verse

५ ॥

Verse

ईशः खड्‍गधरः श्रीमान् कौसलेयोऽनसूयकः । विपुलांसो महोरस्कः परमेष्ठी परायणः ॥

Verse

६ ॥

Verse

सत्यव्रतः सत्यसन्धो गुरुः परमधार्मिकः । लोकज्ञो लोकवन्द्यश्च लोकात्मा लोककृत्परः ॥

Verse

७ ॥

Verse

अनादिर्भगवान् सेव्यो जितमायो रघूद्वहः । रामो दयाकरो दक्षः सर्वज्ञः सर्वपावनः ॥

Verse

८ ॥

Verse

ब्रह्मण्यो नीतिमान् गोप्ता सर्वदेवमयो हरिः । सुन्दरः पीतवासाश्च सूत्रकारः पुरातनः ॥

Verse

९ ॥

Verse

सौम्यो महर्षिः कोदण्डी सर्वज्ञः सर्वकोविदः । कविः सुग्रीववरदः सर्वपुण्याधिकप्रदः ॥

Verse

१० ॥

Verse

भव्यो जितारिषड्‌वर्गो महोदरोऽघनाशनः । सुकीर्तिरादिपुरुषः कान्तः पुण्यकृतागमः ॥

Verse

११ ॥

Verse

अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः । स्मितभाषी निवृत्तात्मा स्मृतिमान् वीर्यवान् प्रभुः ॥

Verse

१२ ॥

Verse

धीरो दान्तो घनश्यामः सर्वायुधविशारदः । अध्यात्मयोगनिलयः सुमना लक्ष्मणाग्रजः ॥

Verse

१३ ॥

Verse

सर्वतीर्थमयश्शूरः सर्वयज्ञफलप्रदः । यज्ञस्वरूपी यज्ञेशो जरामरणवर्जितः ॥

Verse

१४ ॥

Verse

वर्णाश्रमकरो वर्णी शत्रुजित् पुरुषोत्तमः । विभीषणप्रतिष्ठाता परमात्मा परात्परः ॥

Verse

१५ ॥

Verse

प्रमाणभूतो दुर्ज्ञेयः पूर्णः परपुरञ्जयः । अनन्तदृष्टिरानन्दो धनुर्वेदो धनुर्धरः ॥

Verse

१६ ॥

Verse

गुणाकरो गुणश्रेष्ठः सच्चिदानन्दविग्रहः । अभिवन्द्यो महाकायो विश्वकर्मा विशारदः ॥

Verse

१७ ॥

Verse

विनीतात्मा वीतरागस्तपस्वीशो जनेश्वरः । कल्याणप्रकृतिः कल्पः सर्वेशः सर्वकामदः ॥

Verse

१८ ॥

Verse

अक्षयः पुरुषः साक्षी केशवः पुरुषोत्तमः । लोकाध्यक्षो महामायो विभीषणवरप्रदः ॥

Verse

१९ ॥

Verse

आनन्दविग्रहो ज्योतिर्हनुमत्प्रभुरव्ययः । भ्राजिष्णुः सहनो भोक्ता सत्यवादी बहुश्रुतः ॥

Verse

२० ॥

Verse

सुखदः कारणं कर्ता भवबन्धविमोचनः । देवचूडामणिर्नेता ब्रह्मण्यो ब्रह्मवर्धनः ॥

Verse

२१ ॥

Verse

संसारोत्तारको रामः सर्वदु:खविमोक्षकृत् । विद्वत्तमो विश्वकर्ता विश्वहर्ता च विश्वकृत् ॥

Verse

२२ ॥

Verse

नित्यो नियतकल्याणः सीताशोकविनाशकृत् । काकुत्स्थः पुण्डरीकाक्षो विश्वामित्रभयापहः ॥

Verse

२३ ॥

Verse

मारीचमथनो रामो विराधवधपण्डितः । दुस्स्वप्ननाशनो रम्यः किरीटी त्रिदशाधिपः ॥

Verse

२४ ॥

Verse

महाधनुर्महाकायो भीमो भीमपराक्रमः । तत्त्वस्वरूपी तत्त्वज्ञस्तत्त्ववादी सुविक्रमः ॥

Verse

२५ ॥

Verse

भूतात्मा भूतकृत् स्वामी कालज्ञानी महापटुः । अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥

Verse

२६ ॥

Verse

स्वभावभद्रश्शत्रुघ्नः केशवः स्थाणुरीश्वरः । भूतादिः शम्भुरादित्यः स्थविष्ठश्शाश्वतो ध्रुवः ॥

Verse

२७ ॥

Verse

कवची कुण्डली चक्री खड्‌गी भक्तजनप्रियः । अमृत्युर्जन्मरहितः सर्वजित् सर्वगोचरः ॥

Verse

२८ ॥

Verse

अनुत्तमोऽप्रमेयात्मा सर्वादिर्गुणसागरः । समः समात्मा समगो जटामुकुटमण्डितः ॥

Verse

२९ ॥

Verse

अजेयः सर्वभूतात्मा विष्वक्सेनो महातपाः । लोकाध्यक्षो महाबाहुरमृतो वेदवित्तमः ॥

Verse

३० ॥

Verse

सहिष्णुः सद्गतिः शास्ता विश्वयोनिर्महाद्युतिः । अतीन्द्र ऊर्जितः प्रांशुरुपेन्द्रो वामनो बली ॥

Verse

३१ ॥

Verse

धनुर्वेदो विधाता च ब्रह्मा विष्णुश्च शङ्करः । हंसो मरीचिर्गोविन्दो रत्‍नगर्भो महामतिः ॥

Verse

३२ ॥

Verse

व्यासो वाचस्पतिः सर्वदर्पितासुरमर्दनः । जानकीवल्लभः पूज्यः प्रकटः प्रीतिवर्धनः ॥

Verse

३३ ॥

Verse

सम्भवोऽतीन्द्रियो वेद्योऽनिर्देशो जाम्बवत्प्रभुः । मदनो मथनो व्यापी विश्वरूपो निरञ्जनः ॥

Verse

३४ ॥

Verse

नारायणोऽग्रणीः साधुर्जटायुप्रीतिवर्धनः । नैकरूपो जगन्नाथः सुरकार्यहितः स्वभूः ॥

Verse

३५ ॥

Verse

जितक्रोधो जितारातिः प्लवगाधिपराज्यदः । वसुदः सुभुजो नैकमायो भव्यप्रमोदनः ॥

Verse

३६ ॥

Verse

चण्डांशु सिद्धिदः कल्पः शरणागतवत्सलः । अगदो रोगहर्ता च मन्त्रज्ञो मन्त्रभावनः ॥

Verse

३७ ॥

Verse

सौमित्रिवत्सलो धुर्यो व्यक्ताव्यक्तस्वरूपधृक् । वसिष्ठो ग्रामणीः श्रीमाननुकूलः प्रियंवदः ॥

Verse

३८ ॥

Verse

अतुलः सात्त्विको धीरः शरासनविशारदः । ज्येष्ठः सर्वगुणोपेतः शक्तिमांस्ताटकान्तकः ॥

Verse

३९ ॥

Verse

वैकुण्ठः प्राणिनां प्राणः कमठ: कमलापतिः । गोवर्धनधरो मत्स्यरूपः कारुण्यसागरः ॥

Verse

४० ॥

Verse

कुम्भकर्णप्रभेत्ता च गोपिगोपालसंवृतः । मायावी व्यापको व्यापी रैणुकेयबलापहः ॥

Verse

४१ ॥

Verse

पिनाकमथनो वन्द्यः समर्थो गरुडध्वजः । लोकत्रयाश्रयो लोकचरितो भरताग्रजः ॥

Verse

४२ ॥

Verse

श्रीधरः सद्वतिर्लोकसाक्षी नारायणो बुधः । मनोवेगी मनोरूपी पूर्णः पुरुषपुङ्गवः ॥

Verse

४३ ॥

Verse

यदुश्रेष्ठो यदुपतिर्भूतावासः सुविक्रमः । तेजोधरो धराधारश्चतुर्मूर्तिर्महानिधिः ॥

Verse

४४ ॥

Verse

चाणुरमर्दनो दिव्यश्शान्तो भरतवन्दितः । शब्दातिगो गभीरात्मा कोमलाङ्‍गः प्रजागरः ॥

Verse

४५ ॥

Verse

लोकगर्भश्शेषायी क्षीराब्धिनिलयोऽमलः । आत्मयोनिरदीनात्मा सहस्त्राक्षः सहस्त्रपात् ॥

Verse

४६ ॥

Verse

अमृतांशुर्महागर्भो निवृत्तविषयस्पृहः । त्रिकालज्ञो मुनिस्साक्षी विहायसगतिः कृती ॥

Verse

४७ ॥

Verse

पर्जन्यः कुमुदो भूतावासः कमललोचनः । श्रीवत्सवक्षाः श्रीवासो वीरहा लक्ष्मणाग्रजः ॥

Verse

४८ ॥

Verse

लोकाभिरामो लोकारिमर्दनः सेवकप्रियः । सनातनतमो मेघश्यामलो राक्षसान्तकृत् ॥

Verse

४९ ॥

Verse

दिव्यायुधधरश्श्रीमानप्रमेयो जितेन्द्रियः । भूदेववन्द्यो जनकप्रियकृत् प्रपितामहः ॥

Verse

५० ॥

Verse

उत्तमः सात्त्विकः सत्यः सत्यसन्धस्त्रिविक्रमः । सुव्रतः सुलभः सूक्ष्मः सुघोषः सुखदः सुधीः ॥

Verse

५१ ॥

Verse

दामोदरोऽच्युतश्शार्ङी वामनो मधुराधिपः । देवकीनन्दनः शौरिः शूरः कैटभमर्दनः ॥

Verse

५२ ॥

Verse

सप्ततालप्रभेत्ता च मित्रवंशप्रवर्धनः । कालस्वरूपी कालात्मा कालः कल्याणदः कविः ॥

Verse

५३ ॥

Verse

संवत्सर ऋतुः पक्षो ह्ययनं दिवसो युगः । स्तव्यो विविक्तो निर्लेपः सर्वव्यापी निराकुलः । अनादिनिधनः सर्वलोकपूज्यो निरामयः ॥

Verse

५४ ॥

Verse

रसो रसज्ञः सारज्ञो लोकसारो रसात्मकः । सर्वदुःखातिगो विद्याराशिः परमगोचरः ॥

Verse

५५ ॥

Verse

शेषो विशेषो विगतकल्मषो रघुनायकः । वर्णश्रेष्ठो वर्णवाह्यो वर्ण्यो वर्ण्यगुणोज्ज्वलः ॥

Verse

५६ ॥

Verse

कर्मसाक्ष्यमरश्रेष्ठो देवदेवः सुखप्रदः । देवाधिदेवो देवर्षिर्देवासुरनमस्कृतः ॥

Verse

५७ ॥

Verse

सर्वदेवमयश्चक्री शार्ङ्गपाणी रघूत्तमः । मनो बुद्धिरहंकारः प्रकृतिः पुरुषोऽव्ययः ॥

Verse

५८ ॥

Verse

अहल्यापावनः स्वामी पितृभक्तो वरप्रदः । न्यायो न्यायी नयी श्रीमान् नयो नगधरो ध्रुवः ॥

Verse

५९ ॥

Verse

लक्ष्मीविश्वम्भराभर्ता देवेन्द्रो बलिमर्दनः । वाणारिमर्दनो यज्वानुत्तमो मुनिसेवितः ॥

Verse

६० ॥

Verse

देवाग्रणी: शिवध्यानतत्परः परमः परः । सामगेयः प्रियोऽक्रूरः पुण्यकीर्तिस्सुलोचनः ॥

Verse

६१ ॥

Verse

पुण्यः पुण्याधिकः पूर्वः पूर्णः पूरयिता रविः । जटिलः कल्मषध्वान्तप्रभञ्जनविभावसुः ॥

Verse

६२ ॥

Verse

अव्यक्तलक्षणोऽव्यक्तो दशास्यद्विपकेसरी । कलानिधिः कलानाथो कमलानन्दवर्धनः ॥

Verse

६३ ॥

Verse

जयी जितारिः सर्वादिः शमनो भवभञ्जनः । अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ॥

Verse

६४ ॥

Verse

आशुः शब्दपतिः शब्दागोचरो रञ्जनो रघुः । निश्शब्दः प्रणवो माली स्थूलः सूक्ष्मो विलक्षणः ॥

Verse

६५ ॥

Verse

आत्मयोनिरयोनिश्च सप्तजिह्वः सहस्त्रपात् । सनातनतमस्स्त्रग्वी पेशलो जविनां वरः ॥

Verse

६६ ॥

Verse

शक्तिमाञ्शङ्खभृन्नाथः गदापद्मरथाङ्गभृत् । निरीहो निर्विकल्पश्च चिद्रूपो वीतसाध्वसः ॥

Verse

६७ ॥

Verse

शताननः सहस्त्राक्षः शतमूर्तिर्घनप्रभः । ह्रत्पुण्डरीकशयनः कठिनो द्रव एव च ॥

Verse

६८ ॥

Verse

उग्रो ग्रहपतिः श्रीमान् समर्थोऽनर्थनाशनः । अधर्मशत्रू रक्षोघ्नः पुरुहूतः पुरुष्टुतः ॥

Verse

६९ ॥

Verse

ब्रह्मगर्भो बृहद्गर्भो धर्मधेनुर्धनागमः । हिरण्यगर्भो ज्योतिष्मान् सुललाटः सुविक्रमः ॥

Verse

७० ॥

Verse

शिवपूजारतः श्रीमान् भवानिप्रियकृद्वशी । नरो नारायणः श्यामः कपर्दीनीललोहितः ॥

Verse

७१ ॥

Verse

रुद्रः पशुपतिः स्थाणुर्विश्वामित्रो द्विजेश्वरः । मातामहो मातरिश्वा विरिञ्चोविष्टरश्रवाः ॥

Verse

७२ ॥

Verse

अक्षोभ्यः सर्वभूतानां चण्डः सत्यपराक्रमः । वालखिल्यो महाकल्पः कल्पवृक्षः कलाधरः ॥

Verse

७३ ॥

Verse

निदाघस्तपनोऽमोघः श्‍लक्ष्णः परबलापह्रत् । कबन्धमथनो दिव्यः कम्बुग्रीवशिवप्रियः ॥

Verse

७४ ॥

Verse

शङ्खोऽनिलः सुनिष्पन्नः सुलभः शिशिरात्मकः । असंसृष्टोऽतिथिः शूरः प्रमाथी पापनाशकृत् ॥

Verse

७५ ॥

Verse

वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः । रामो नीलोत्पलश्यामो ज्ञानस्कन्धो महाद्युतिः ॥

Verse

७६ ॥

Verse

पवित्रपाद: पापरिर्मणिपूरो नभोगतिः । उत्तारणो दुष्कृतिहा दुर्धर्षो दुस्सहोऽभयः ॥

Verse

७७ ॥

Verse

अमृतेशोऽमृतवपुर्धर्मी धर्मः कृपाकरः । भर्गो विवस्वानादित्यो योगाचार्यो दिवस्पतिः ॥

Verse

७८ ॥

Verse

उदारकिर्तिरुद्योगी वाङ्‌मयः सदसन्मयः । नक्षत्रमाली नाकेशः स्वाधिष्ठानः षडाश्रयः ॥

Verse

७९ ॥

Verse

चतुर्वर्गफलो वर्णी शक्तित्रयफलं निधिः । निधानगर्भो निर्व्याजो गिरीशो व्यालमर्दनः ॥

Verse

८० ॥

Verse

श्रीवल्लभः शिवारम्भः शान्तिर्भद्रः समञ्जसः । भूशयो भूतिकृद्‌भूतिर्भूषणो भूतवाहनः ॥

Verse

८१ ॥

Verse

अकायो भक्तकायस्थः कालज्ञानी महावटुः । परार्थवृत्तिरचलो विविक्तः श्रुतिसागरः ॥

Verse

८२ ॥

Verse

स्वभावभद्रो मध्यस्थः संसारभयनाशनः । वेद्यो वैद्यो वियद्गोप्ता सर्वामरमुनीश्वरः ॥

Verse

८३ ॥

Verse

सुरेन्द्रः करणं कर्म कर्मकृत् कर्म्यधोक्षजः । ध्येयो धुर्यो धराधीशः संकल्पः शर्वरीपतिः ॥

Verse

८४ ॥

Verse

परमार्थगुरुर्वृद्धः शुचिरश्रितवत्सलः । विष्णुर्जिष्णुर्विभुर्वनन्द्यो यज्ञेशो यज्ञपालकः ॥

Verse

८५ ॥

Verse

प्रभविष्णुर्ग्रसिष्णुश्च लोकात्मा लोकभावनः । केशवः केशिहा काव्यः कविः कारणकारणम् ॥

Verse

८६ ॥

Verse

कालकर्ता कालशेषो वासुदेवः पुरुष्टुतः । आदिकर्ता वराहश्च माधवो मधुसूदनः ॥

Verse

८७ ॥

Verse

नारायणो नरो हंसो विष्वक्सेनो जनार्दनः । विश्वकर्ता महायज्ञो ज्योतिष्मान् पुरुषोत्तमः ॥

Verse

८८ ॥

Verse

वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः । नारसिंहो महाभीमो वक्रदंष्ट्रो नखायुधः ॥

Verse

८९ ॥

Verse

अदिदेवो जगत्कर्ता योगीशो गरुडध्वजः । गोविन्दो गोपतिर्गोप्ता भूपतिर्भुवनेश्वरः ॥

Verse

९० ॥

Verse

पद्मनाभो ह्रषीकेशो धाता दामोदरः प्रभुः । त्रिविक्रमस्त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः ॥

Verse

९१ ॥

Verse

वामनो दुष्टदमनो गोविन्दो गोपवल्लभः । भक्तप्रियोऽच्युतः सत्यः सत्यकीर्तिर्धृतिः स्मृतिः ॥

Verse

९२ ॥

Verse

कारुण्यं करुणो व्यासः पापहा शान्तिवर्धनः । संन्यासी शास्त्रतत्त्वज्ञो मन्दराद्रिनिकेतनः ॥

Verse

९३ ॥

Verse

बदरीनिलयः शान्तस्तपस्वी वैद्युतप्रभः । भूतावासो गुहावासः श्रीनिवासः श्रियः पतिः ॥

Verse

९४ ॥

Verse

तपोवासो मुदावासः सत्यवासः सनातनः । पुरुषः पुष्करः पुण्यः पुष्कराक्षो महेश्वरः ॥

Verse

९५ ॥

Verse

पूर्णमूर्तिः पुराणज्ञः पुण्यदः प्रीतिवर्धनः । शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुसलि हली ॥

Verse

९६ ॥

Verse

किरीटी कुण्डली हारी मेखली कवची ध्वजी । योद्धा जेता महावीर्यः शत्रुजिच्छत्रुतापनः ॥

Verse

९७ ॥

Verse

शास्ता शास्त्रकरः शास्त्रं शङ्करः शङ्करस्तुतः । सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः ॥

Verse

९८ ॥

Verse

पवन: संहत: शक्ति: सम्पूर्णाङ्‌गः समृद्धिमान् । स्वर्गदः कामदः श्रीदः कीर्तिदोऽकीर्तिनाशनः ॥

Verse

९९ ॥

Verse

मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः । सर्वात्मा सर्वलोकेशः प्रेरकः पापनाशनः ॥

Verse

१०० ॥

Verse

सर्वव्यापी जगन्नाथः सर्वलोकमहेश्वरः । सर्गस्थित्यन्तकृद्देवः सर्वलोकसुखावहः ॥

Verse

१०१ ॥

Verse

अक्षय्यः शाश्वतोऽनन्तः क्षयवृद्धिविवर्जितः । निर्लेपो निर्गुणः सूक्ष्मो निर्विकारो निरञ्जनः ॥

Verse

१०२ ॥

Verse

सर्वोपाधिविनिर्मुक्तः सत्तामात्रव्यवस्थितः । अधिकारी विभुर्नित्यः परमात्मा सनातनः ॥

Verse

१०३ ॥

Verse

अचलो निर्मलो व्यापी नित्यतृप्तो निराश्रयः । श्यामो युवा लोहिताक्षो दीप्तास्यो मितभाषणः ॥

Verse

१०४ ॥

Verse

आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः । सत्यवान् गुणसम्पन्नः स्वयंतेजाः सुदीप्तिमान् ॥

Verse

१०५ ॥

Verse

कालात्मा भगवान् कालः कालचक्रप्रवर्तकः । नारायणः परंज्योतिः परमात्मा सनातनः ॥

Verse

१०६ ॥

Verse

विश्वसृड्‌विश्वगोप्ता च विश्वभोक्ता च शाश्वतः । विश्वेश्वरो विश्वमूर्तिर्विश्वात्मा विश्वभावनः ॥

Verse

१०७ ॥

Verse

सर्वभूतसुह्रच्छान्तः सर्वभूतानुकम्पनः । सर्वेश्वरेश्वरः सर्वः श्रीमानाश्रितवत्सलः ॥

Verse

१०८ ॥

Verse

सर्वगः सर्वभूतेशः सर्वभूताशयस्थितः । अभ्यन्तरस्थस्तमसश्छेत्ता नारायणः परः ॥

Verse

१०९ ॥

Verse

अनादिनिधनः स्त्रष्टा प्रजापतिपतिर्हरिः । नरसिंहो ह्रषीकेशः सर्वात्मा सर्वदृग् वशी ॥

Verse

११० ॥

Verse

जगतस्तस्थुषश्चैव प्रभुर्नेता सनातनः । कर्ता धाता विधाता च सर्वेषां प्रभुरीश्वरः ॥

Verse

१११ ॥

Verse

सहस्त्रमूर्तिर्विश्वात्मा विष्णुर्विश्वदृगव्ययः । पुराणपुरुषः स्त्रष्टा सहस्त्राक्षः सहस्त्रपात् ॥

Verse

११२ ॥

Verse

तत्त्वं नारायणो विष्णुर्वासुदेवः सनातनः । परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ॥

Verse

११३ ॥

Verse

परं ज्योतिः परं धाम पराकाशः परात्परः । अच्युतः पुरुषः कृष्णः शाश्वतः शिव ईश्वरः ॥

Verse

११४ ॥

Verse

नित्यः सर्वगतः स्थाणुरुग्रः साक्षी प्रजापतिः । हिरण्यगर्भः सविता लोककृल्लोकभृद्विभुः । ११५ ॥

Verse

रामः श्रीमान् महाविष्णुर्जिष्णुर्देवहितावहः । तत्त्वात्मा तारकं ब्रह्म शाश्वतः सर्वसिद्धिदः ॥

Verse

११६ ॥

Verse

अकारवाच्यो भगवान् श्रीर्भूलीलापतिः पुमान् । सर्वलोकेश्वरः श्रीमान् सर्वज्ञः सर्वतोमुखः ॥

Verse

११७ ॥

Verse

स्वामी सुशीलः सुलभः सर्वज्ञः सर्वशक्तिमान् । नित्यः सम्पूर्णकामश्च नैसर्गिकसुह्रत् सुखी ॥

Verse

११८ ॥

Verse

कृपापीयूषजलधिश्शरण्यः सर्वदेहिनाम् । श्रीमान्नारायणः स्वामी जगतां पतिरीश्वरः ॥

Verse

११९ ॥

Verse

श्रीशः शरण्यो भूतानां संश्रिताभीष्टदायकः । अनन्तः श्रीपती रामो गुणभृन्निर्गुणो महान ॥

Verse

१२० ॥

Verse

॥

Verse

इति श्रीआनन्दरामायणे वाल्मीकीये श्रीरामसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

śrī durgā sahasranāmastotram dakārādi
śrī gāyatrī sahastranāmastotram

Read next

More on राम

  • आरती श्री रामायण जी की।Aartis
  • श्री रामचन्द्र जी की आरतीAartis
  • रामचन्द्राष्टकम्Ashtakam
  • रामाष्टकंAshtakam
  • रामाष्टकंAshtakam
  • रामाष्टकंAshtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms