aSTakam
rāmāṣṭakaṃ
रामाष्टकं
Verse
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्य पात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥१॥
Verse
संसारसारं निगमं प्रचारं धर्मावतारं हत भूमि भारम् । सदा निर्विकारं सुख सिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥२॥
Verse
लक्ष्मी विलासं जगतां निवासं भूदेव वासं सुख सिन्धु हासम् । लङ्का विनाशं भवनं प्रकाशं श्रीरामचन्द्रं सततं नमामि ॥३॥
Verse
मंदारमालं वचने रसालं गुणयं विशलं हत सप्ततालम् । क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥४॥
Verse
वेदांत ज्ञानं सकल सतानं हंतारमानं त्रिदशं प्रधानम् । गजेन्द्रपालं विगता विशालं श्रीरामचन्द्रं सततं नमामि ॥५॥
Verse
खेलाऽतिभीतं स्वजने पुनीतं स्यामो प्रगीतं वचने अहीतम् । रागेनगीतं वचने अहीतं श्रीरामचन्द्रं सततं नमामि ॥६॥
Verse
लीलाशरीरं रणरङ्ग धीरं विश्वै कवीरं रघुवंशधारम् । गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥७॥
Verse
श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामं । विश्वप्रणामं कतभक्तिकामं श्रीरामचन्द्रं सततं नमामि ॥८॥
Verse
॥इति रामाष्टकं सम्पूर्णम् ॥
Verse
एक श्लोकी रामायणम् आदौ राम तपोवनादि गमनं हत्वा मृगं काञ्चनम् । वैदेही हरणं जटायु मरणं सुग्रीव सम्भाषणम् ॥
Verse
वाली निर्दलनं समुद्र तरणं लङ्कापुरी दाहनम् । पश्चाद् रावण कुंभकर्ण हननं चेतद्धि रामायणम् ॥
