Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-sūrya-pūjā

श्री-सूर्य-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे [[ayana]] [[ritu]] -ऋतौ [[masa]] -मासे [[paksha]] पक्षे [[tithi]] शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रसाद-सिद्ध्यर्थं श्री-सूर्यनारायण-प्रसादेन अरोगदृढगात्रता-सिद्ध्यर्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रीत्यर्थं [[blank]]-पुण्यकाले कल्पोक्त-प्रकारेण यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवं ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं प्रभुम् इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं विष्णुब्रह्मशिवस्वरूपहृदयं वन्दे सदा भास्करम्

Verse

ध्यायेत् सूर्यमनन्तशक्तिकिरणं तेजोऽमलं भास्करं भक्तानामभयप्रदं दिनकरं ज्योतिर्मयं शङ्करम् आदित्यं जगदीशमच्युतमजं त्रैलोक्यचूडामणिं भक्ताभीष्टवरप्रदं दिनमणिं मार्ताण्डमाद्यं शुभम्

Verse

द्विभुजं पद्महस्तं च वरदं मकुटान्वितम् ध्यायेद् दिवाकरं देवं सर्वाभीष्टप्रदायकम्

Verse

अस्मिन् बिम्बे/कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणं ध्यायामि।

Verse

Verse

आवाहयामि देवेड्यमाश्रिताभीष्टदायिनम् आदित्यमखिलाराध्यमार्तत्राणपरायणम्

Verse

आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑॥

Verse

अस्मिन् बिम्बे/कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणम् आवाहयामि।

Verse

आवाहितो भव। स्थापितो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव।

Verse

प्रीतो भव। सुप्रसन्नो भव। सुमुखो भव। वरदो भव। प्रसीद प्रसीद॥

Verse

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत् त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु

Verse

आसनं संगृहाणेदं द्वादशात्मन् दिवाकर छायानायक लोकेश मया भक्त्या समर्पितम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आसनं समर्पयामि।

Verse

पाद्यं ददामि पद्मादिसुगन्धिकुसुमैर्युतम् पद्मबन्धो गृहाण त्वं प्रभाकर नमोऽस्तु ते श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पाद्यं समर्पयामि।

Verse

अर्घ्यं गृह्णीष्व भगवन् गन्धदूर्वादिमिश्रितम् अघनाशक देवेश हरिदश्व रवे मुदा श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अर्घ्यं समर्पयामि।

Verse

ददाम्याचमनं तुभ्यं चराचरविबोधक भक्त्याऽहं भास्करायाद्य जगद्ध्वान्तविनाशक श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आचमनीयं समर्पयामि।

Verse

मध्वाज्यदधिसंयुक्तं मधुपर्कं प्रभाकर लोकनाथ मया दत्तं गृहाण मुनिसेवित श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, मधुपर्कं समर्पयामि।

Verse

मध्वाज्यशर्करायुक्तं फलक्षीरसमन्वितम् पञ्चामृतं प्रदास्यामि सर्वलोकसुपूजित श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पञ्चामृतस्नानं समर्पयामि।

Verse

वेदात्मने नमस्तुभ्यं जगदानन्ददायिने नदीविमलतोयैस्त्वां स्नापयेऽहं विभावसो श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरं आचमनीयं समर्पयामि।

Verse

दिव्याम्बरयुगं सूक्ष्मं हेमसूत्रविराजितम् स्वीकुरुष्व नवं वस्त्रं दिवाकर मयाऽर्पितम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, वस्त्रम् समर्पयामि।

Verse

ब्रह्मविष्णुमहेशानवपुषे विश्वचक्षुषे साक्षिणे कर्मणां तुभ्यमुपवीतं ददाम्यहम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, उपवीतम् समर्पयामि।

Verse

गृह्णीष्व भूषणं पूषन् मुदा देवगणैर्नुत हारकुण्डलकेयूरकिरीटवलयादिकम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, आभरणम् समर्पयामि।

Verse

श्रीगन्धं कुङ्कुमोपेतं कर्पूरेण समन्वितम् गृहाण करुणावार्धे लोकबन्धो दिवाकर श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, दिव्यपरिमलगन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयामि।

Verse

प्राणिकर्मसाक्षिभूत भक्तानामभयप्रद अक्षतान् प्रतिगृह्णीष्व ग्रहाणामीश भास्कर श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अक्षतान् समर्पयामि।

Verse

पङ्केरुहप्रियं पुष्पैर्मल्लिकावकुलादिभिः सेवन्तिकापारिजातैः पूजयामि मुदा रविम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, पुष्पाणि समर्पयामि।

Verse

१.पावनाय नमः — पादौ पूजयामि

Verse

२.ग्रहपतये नमः — गुल्फौ पूजयामि

Verse

३.जगदानन्दनाय नमः — जानुनी पूजयामि

Verse

४.सूर्याय नमः — ऊरू पूजयामि

Verse

५.कर्मसाक्षिणे नमः — कटिं पूजयामि

Verse

६.छायानाथाय नमः — नाभिं पूजयामि

Verse

७.अरुणसारथये नमः — उदरं पूजयामि

Verse

८.विश्वचक्षुषे नमः — वक्षः पूजयामि

Verse

९.अहस्कराय नमः — हस्तौ पूजयामि

Verse

१०.कालात्मने नमः — कण्ठं पूजयामि

Verse

११.मार्ताण्डाय नमः — मुखं पूजयामि

Verse

१२.लोकबन्धवे नमः — कपोलौ पूजयामि

Verse

१३.पद्माक्षाय नमः — अक्षिणी पूजयामि

Verse

१४.विकर्तनाय नमः — कर्णौ पूजयामि

Verse

१५.मरीचिमालिने नमः — ललाटं पूजयामि

Verse

१६.सप्ताश्वाय नमः — शिरः पूजयामि

Verse

१. ॐ ह्राम्।उ॒द्यन्न॒द्य मि॑त्रमहः। मित्रायनमः

Verse

२. ॐ ह्रीम्।आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। रवयेनमः

Verse

३. ॐ ह्रूम्।हृ॒द्रो॒गं मम॑ सूर्य। सूर्यायनमः

Verse

४. ॐ ह्रैम्।ह॒रि॒माणं॑ च नाशय। भानवेनमः

Verse

५. ॐ ह्रौम्।शुके॑षु मे हरि॒माणम्᳚। खगायनमः

Verse

६. ॐ ह्रः।रो॒प॒णाका॑सु दध्मसि। पूष्णेनमः

Verse

७. ॐ ह्राम्।अथो॑ हारिद्र॒वेषु॑ मे। हिरण्यगर्भायनमः

Verse

८. ॐ ह्रीम्।ह॒रि॒माणं॒ नि द॑ध्मसि। मरीचयेनमः

Verse

९. ॐ ह्रूम्।उद॑गाद॒यमा॑दि॒त्यः। आदित्यायनमः

Verse

१०. ॐ ह्रैम्।विश्वे॑न॒ सह॑सा स॒ह। सवित्रेनमः

Verse

११. ॐ ह्रौम्।द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। अर्कायनमः

Verse

१२. ॐ ह्रः।मो अ॒हं द्वि॑ष॒तो र॑धम्। भास्करायनमः

Verse

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

Verse

दशाङ्गवासितो धूपः सुगन्धः सुरसेवित गृह्यतामर्पितो भक्त्या मया सूर्य दिवाकर श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, धूपम् आघ्रापयामि।

Verse

साज्यवर्तिसमायुक्तमन्धकारनिवारक दीपं गृहाण घुमणे तेजोराशे गुणार्णव श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, अलङ्कारदीपं सन्दर्शयामि।

Verse

ॐ भूर्भुवः॒ सुवः॑। + ब्र॒ह्मणे॒ स्वाहा᳚।

Verse

नैवेद्यं षड्रसोपेतमिक्षुदण्डसमन्वितम् पायसान्नं च सम्प्रीत्या गृह्यतां ग्रहनायक श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, गुडान्नं मुद्गान्नं माषापूपानि इक्षुदण्डं हरिद्रागुच्छं नैवेद्यं निवेदयामि। मध्ये मध्ये पानीयं समर्पयामि। अ॒मृ॒ता॒पि॒धा॒नम॑सि॥ निवेदनान्तरम् आचमनीयं समर्पयामि।

Verse

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्याम् श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, ताम्बूलं समर्पयामि।

Verse

कर्पूरखण्डकलितं नीराजनमिदं मुदा नभोमणे गृहाण त्वं गाढध्वान्तविनाशक श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, कर्पूरनीराजनं दर्शयामि। कर्पूरनीराजनानन्तरमाचमनीयं समर्पयामि।

Verse

नमो वेदस्वरूपाय भानवे कर्मसाक्षिणे पुष्पाञ्जलिं प्रदास्यामि भक्त्या तुभ्यं दिवाकर श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।

Verse

यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।

Verse

धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे

Verse

जयाय जयभद्राय हर्यश्वाय नमो नमः नमो नमः सहस्रांशो आदित्याय नमो नमः

Verse

नम उग्राय वीराय सारङ्गाय नमो नमः नमः पद्मप्रबोधाय मार्तण्डाय नमो नमः

Verse

उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥

Verse

अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। मित्र-रवि-सूर्य-भानु-खग-पूष-हिरण्यगर्भ-मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः॥

Verse

(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्)) आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ꣳ॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां म॒ण्डल॒ꣳ॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डल॒ꣳ॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः॥३१॥

Verse

(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्)) आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यꣳ सा॒र्ष्टिताꣳ॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत्॥३२॥

Verse

सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्

Verse

ध्येयः सदा सवितृमण्डल-मध्यवर्ती नारायणः सरसि-जासन-सन्निविष्टः केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः

Verse

शङ्ख-चक्र-गदापाणे द्वारकानिलयाच्युत गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्

Verse

आकाशात् पतितं तोयं यथा गच्छति सागरम् सर्वदेवनमस्कारः केशवं प्रतिगच्छति

Verse

श्री-केशवं प्रतिगच्छत्यों नम इति॥

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, नमस्कारान् समर्पयामि।

Verse

भानो भास्कर मार्तण्ड चण्डरश्मे दिवाकर आयुरारोग्यमैश्वर्यं श्रियं पुत्रांश्च देहि मे

Verse

धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे

Verse

पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहः दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः

Verse

भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑ धीमहि। तन्नो॑ आदित्यः प्रचो॒दया᳚त्।

Verse

प्रार्थनाः समर्पयामि।

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, छत्त्रचामरादिसमस्तोपचारान् समर्पयामि।

Verse

आवाहनं न जानामि न जानामि विसर्जनम् पूजाविधिं न जानामि क्षमस्वारुणसारथे

Verse

अन्यथा शरणं नास्ति त्वमेव शरणं मम तस्मात् कारुण्यभावेन रक्ष रक्ष दिवाकर

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

अद्य-पूर्वोक्त एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-प्रीत्यर्थं श्रीसूर्य-नारायणपूजान्ते अर्घ्यप्रदानं करिष्ये।

Verse

नमो भगवते तुभ्यं नमस्ते जातवेदसे दत्तमर्घ्यं मया भानो गृहाण त्वं नमोऽस्तु ते

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

Verse

एहि सूर्य सहस्रांशो तेजोमालिन् जगत्पते अनुकम्पय मां देव गृहाणार्ध्यं नमोऽस्तु ते

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

Verse

पुनरर्घ्यं ददाम्यद्य भानवे लोकसाक्षिणे आदित्य जगदाधार सुप्रीतो मां समुद्धर

Verse

श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणाय नमः, इदमर्घ्यं इदमर्घ्यं इदमर्घ्यम्।

Verse

अनेन अर्घ्यप्रदानेन श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणः सुप्रीतो वरदो भवतु॥

Verse

श्रीसूर्यनारायणस्वरूपस्य ब्राह्मणस्येदमासनम्। अमी ते गन्धाः। सकलाराधनैः स्वर्चितम्।

Verse

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे

Verse

इदमुपायनं सदक्षिणाकं सताम्बूलं श्रीसूर्यनारायणप्रीतिं कामयमानस्तुभ्यमहं सम्प्रददे॥

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

अनया पूजया श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणः प्रीयताम्॥

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु॥

Verse

Verse

bṛndāvanapūjā (śrī-tulasī–viṣṇu-pūjā)
go-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms