Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

go-pūjā

गो-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे [[ayana]] [[ritu]] -ऋतौ [[masa]] -मासे [[paksha]] पक्षे [[tithi]] शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं

Verse

अस्मिन् भारत-देशे गो-सम्पदः विशेषतः भारतीय-गो-जातीनाम् अभिवृद्ध्यर्थम्

Verse

जनानां गो-विषये श्रद्धा-भक्ति-प्राप्त्यर्थम्

Verse

गो-वध-निवृत्त्यर्थं तद्-विरुद्ध-शासन-नियम-सिद्ध्यर्थम्

Verse

गवाम् अन्येषां च चतुष्पदां द्विपदां च सर्व-विध-व्याधि-परिहार-द्वारा अरोग-जीवन-अवाप्त्यर्थम्

Verse

गवां समृद्ध-क्षीर-प्रदत्त्वार्थम्

Verse

काले काले निकामं वृष्टि-प्राप्त्यर्थं, तद्-द्वारा धान्यानाम् अन्येषां च सप्रयोजनानां सस्यानां वृक्षाणां च अभिवृद्ध्यर्थम्

Verse

जनानां परिसरस्य स्वच्छतया सुष्ठुतया परिपालने श्रद्धायाः उदयार्थम्

Verse

तद्-द्वारा पञ्च-महाभूतानां प्रदूषण-परिहार-द्वारा पृथिव्याः ताप-शान्त्यर्थम्

Verse

भगवतः गोपालस्य भगवतः वृषभध्वजस्य च अनुग्रहेण लोके सर्वत्र साधूनां परित्राणार्थं, दुष्कृतां च सद्बुद्धि-प्राप्त्यर्थं, धर्मस्य अभ्युत्थानार्थं जयार्थम्, अधर्मस्य ग्लान्यर्थं नाशार्थम्

Verse

जनानां प्राणिषु परस्परं च सद्भावनार्थं, विश्वस्य कल्याणार्थं, गोमातुः जयार्थं

Verse

जनानां सुख-शान्त-समृद्ध-जीवनार्थम्

Verse

यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः सवत्स-गोमातृ-पूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

ध्यानम्।

Verse

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च नमो ब्रह्म-सुताभ्यश्च पवित्राभ्यो नमो नमः

Verse

गवाम् अङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश यस्मात् तस्माच्छिवं मे स्यादिह लोके परत्र च

Verse

गोमातरं ध्यायामि।

Verse

आवाहनम्।

Verse

आवाहयाम्यहं देवीं गां त्वां त्रैलोक्य-मातरम् यस्याः स्मरण-मात्रेण सर्व-पाप-प्रणाशनम्

Verse

त्वं देवी त्वं जगन्माता त्वमेवासि वसुन्धरा गायत्री त्वं च सावित्री गङ्गा त्वं च सरस्वती

Verse

आगच्छ देवि कल्याणि शुभां पूजां गृहाण च वत्सेन सहितां त्वां वै देवीमावाहयाम्यहम्

Verse

गोमातरम् आवाहयामि।

Verse

१. शृङ्गमूलयोः ब्रह्मविष्णुभ्यां नमः, ब्रह्मविष्णू आवाहयामि।

Verse

२. शृङ्गाग्रे सर्वतीर्थेभ्यो नमः, सर्वतीर्थानि आवाहयामि।

Verse

३. शिरोमध्ये महादेवाय नमः, महादेवम् आवाहयामि।

Verse

४. ललाटाग्रे गौर्यै नमः, गौरीम् आवाहयामि।

Verse

५. नासावंशे षण्मुखाय नमः, षण्मुखम् आवाहयामि।

Verse

६. नासापुटयोः कम्बलाश्वतराभ्यां नागाभ्यां नमः, कम्बलाश्वतरौ नागौ आवाहयामि।

Verse

७. कर्णयोः अश्विभ्यां नमः, अश्विनौ आवाहयामि।

Verse

८. नेत्रयोः शशिभास्कराभ्यां नमः, शशिभास्करौ आवाहयामि।

Verse

९. दन्तेषु वायुभ्यो नमः, वायून् आवाहयामि।

Verse

१०. जिह्वायां वरुणाय नमः, वरुणम् आवाहयामि।

Verse

११. हुङ्कारे सरस्वत्यै नमः, सरस्वतीम् आवाहयामि।

Verse

१२. गण्डयोः मासपक्षाभ्यां नमः, मासपक्षौ आवाहयामि।

Verse

१३. ओष्ठयोः सन्ध्या-द्वयाय नमः, सन्ध्याद्वयम् आवाहयामि।

Verse

१४. ग्रीवायाम् इन्द्राय नमः, इन्द्रम् आवाहयामि।

Verse

१५. कक्षदेशे रक्षोभ्यो नमः, रक्षांसि आवाहयामि।

Verse

१६. उरसि साध्येभ्यो नमः, साध्यान् आवाहयामि।

Verse

१७. जङ्घासु धर्माय नमः, धर्मम् आवाहयामि।

Verse

१८. खुराणां मध्येषु गन्धर्वेभ्यो नमः, गन्धर्वान् आवाहयामि।

Verse

१९. खुराणां पूर्वाग्रेषु पन्नगेभ्यो नमः, पन्नगान् आवाहयामि।

Verse

२०. खुराणां पश्चिमाग्रेषु अप्सरोभ्यो नमः, अप्सरस आवाहयामि।

Verse

२१. पृष्ठे एकादशरुद्रेभ्यो नमः, एकादशरुद्रान् आवाहयामि।

Verse

२२. सर्वसन्धिषु अष्टवसुभ्यो नमः, अष्टवसून् आवाहयामि।

Verse

२३. श्रोणीतटे पितृभ्यो नमः, पितॄन् आवाहयामि।

Verse

२४. पुच्छे सोमाय नमः, सोमम् आवाहयामि।

Verse

२५. अधोगात्रेषु द्वादशादित्येभ्यो नमः, द्वादशादित्यान् आवाहयामि।

Verse

२६. वालेषु सूर्यरश्मिभ्यो नमः, सूर्यरश्मीन् आवाहयामि।

Verse

२७. गोमूत्रे गङ्गायै नमः, गङ्गाम् आवाहयामि।

Verse

२८. गोमये यमुनायै नमः, यमुनाम् आवाहयामि।

Verse

२९. क्षीरे सरस्वत्यै नमः, सरस्वतीम् आवाहयामि।

Verse

३०. दधनि नर्मदायै नमः, नर्मदाम् आवाहयामि।

Verse

३१. घृते वह्नये नमः, वह्निम् आवाहयामि।

Verse

३२. रोमसु त्रयस्त्रिंशत्कोटिदेवेभ्यो नमः, त्रयस्त्रिंशत्कोटिदेवान् आवाहयामि।

Verse

३३. उदरे पृथिव्यै नमः, पृथिवीम् आवाहयामि।

Verse

३४. स्तनेषु चतुर्भ्यः सागरेभ्यो नमः, चतुरः सागरान् आवाहयामि।

Verse

३५. सर्वशरीरे कामधेनवे नमः, कामधेनुम् आवाहयामि।

Verse

नाना-रत्न-समायुक्तं कार्तस्वर-विभूषितम् आसनं ते मया दत्तं गृहाण जगदम्बिके

Verse

गोमात्रे नमः, आसनं समर्पयामि।

Verse

सौरभेयि सर्व-हिते पवित्रे पाप-नाशिनि गृहाण त्वं मया दत्तं पाद्यं त्रैलोक्य-वन्दिते

Verse

गोमात्रे नमः, पाद्यं समर्पयामि।

Verse

देहे स्थिताऽसि रुद्राणि शङ्करस्य सदा प्रिया धेनु-रूपेण सा देवी मम पापं व्यपोहतु

Verse

गोमात्रे नमः, अर्घ्यं समर्पयामि।

Verse

या लक्ष्मीः सर्व-भूतेषु या च देवेष्ववस्थिता धेनु-रूपेण सा देवी मम पापं व्यपोहतु गोमात्रे नमः, आचमनीयं समर्पयामि।

Verse

सर्व-देव-मयि मातः सर्व-देव-नमस्कृते तोयमेतत् सुख-स्पर्शं स्नानार्थं गृह्ण [ ] धेनुके

Verse

गोमात्रे नमः, स्नानं समर्पयामि। स्नानोत्तरम् आचमनीयं समर्पयामि।

Verse

आच्छादनं गवे दद्यां सम्यक् शुद्धं सुशोभनम् सुरभिर्वस्त्र-दानेन प्रीयतां परमेश्वरी गोमात्रे नमः, वस्त्रं समर्पयामि।

Verse

सर्व-देव-प्रियं देवि चन्दनं चन्द्र-सन्निभम् कस्तूरी-कुङ्कुमाढ्यं च सुगन्धं प्रतिगृह्यताम् गोमात्रे नमः, दिव्य-परिमल-गन्धान् धारयामि। गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि।

Verse

अक्षताश्च सुर-श्रेष्ठे कुङ्कुमाक्ताः सुशोभिताः मया निवेदिता भक्त्या गृहाण परमेश्वरि गोमात्रे नमः, अक्षतान् समर्पयामि।

Verse

गोमात्रे नमः, शृङ्ग-भूषणं, कण्ठ-भूषणं, दोहन-पात्रम्, अन्यच्च यथा-शक्ति अलङ्कार-द्रव्यं समर्पयामि।

Verse

पुष्प-मालां तथा जाती-पाटली-चम्पकानि च पुष्पाणि गृह्ण धेनो त्वं सर्व-विघ्न-प्रणाशिनि गोमात्रे नमः, पुष्पमालां समर्पयामि।

Verse

Verse

गोमात्रे नमः, नाना-विध-परिमल-पत्र-पुष्पाणि समर्पयामि।

Verse

देव-द्रुम-रसोद्भूतं गो-घृतेन समन्वितम् प्रयच्छामि महाभागे धूपोऽयं प्रतिगृह्यताम् गोमात्रे नमः, धूपम् आघ्रापयामि।

Verse

आनन्द-दः सुराणां च लोकानां सर्वदा प्रियः गौस्त्वं पाहि जगन्मातः, दीपोऽयं प्रतिगृह्यताम् गोमात्रे नमः, दीपं दर्शयामि।

Verse

सुरभिर्वैष्णवी माता नित्यं विष्णु-पदे स्थिता ग्रासं गृह्णातु सा धेनुर्याऽस्ति त्रैलोक्य-वासिनी गोमात्रे नमः, नैवेद्यं निवेदयामि। गो-ग्रासं समर्पयामि। निवेदनानन्तरम् आचमनीयं समर्पयामि।

Verse

नीराजनं गृहाणेदं कर्पूरैः कलितं मया कामधेनु-समुद्भूते सर्वाभीष्ट-फल-प्रदे गोमात्रे नमः, नीराजनं दर्शयामि।

Verse

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः गोभ्यो वेदाः समुत्कीर्णाः स-षडङ्ग-पद-क्रमाः गोमात्रे नमः, पुष्पाञ्जलिं समर्पयामि।

Verse

यानि कानि च पापानि जन्मान्तर-कृतानि च तानि नाशय धेनो त्वं प्रदक्षिणपदे पदे

Verse

गावः सुरभयो नित्यं गावो गुग्गुलु-गन्धिकाः गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत्

Verse

अन्नमेव परं गावो देवानां हविरुत्तमम् पावनं सर्व-भूतानां क्षरन्ति च वहन्ति च

Verse

हविषा मन्त्र-पूतेन तर्पयन्त्यमरान् दिवि ऋषीणाम् अग्निहोत्रेषु, गावो होमे प्रतिष्ठिताः

Verse

सर्वेषामेव भूतानां गावः शरणमुत्तमम् गावः पवित्रं परमं गावो मङ्गलमुत्तमम् गावः स्वर्गस्य सोपानं गावो धन्याः सनातनाः

Verse

नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य एव च नमो ब्रह्म-सुताभ्यश्च पवित्राभ्यो नमो नमः

Verse

ब्राह्मणाश्चैव गावश्च कुलमेकं द्विधा स्थितम् एकत्र मन्त्रास्तिष्ठन्ति हविरेकत्र तिष्ठति

Verse

देव-ब्राह्मण-गो-साधु-साध्वीभिः सकलं जगत् धार्यते वै सदा तस्मात् सर्वे पूज्यतमाः सदा

Verse

यत्र तीर्थे सदा गावः पिबन्ति तृषिता जलम् उत्तरन्ति पथा येन स्थिता तत्र सरस्वती

Verse

गवां हि तीर्थे वसतीह गङ्गा पुष्टिस्तथा तद्-रजसि प्रवृद्धा लक्ष्मीः करीषे प्रणतौ च धर्मः तासां प्रणामं सततं च कुर्यात्

Verse

॥इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे गोमाहात्म्ये गोमतीविद्या नाम द्विचत्वारिंशत्तमोऽध्यायः॥

Verse

गावो माम् उपतिष्ठन्तु हेम-शृङ्ग्यः पयोमुचः सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा

Verse

गा वै पश्यान्यहं नित्यं गावः पश्यन्तु मां सदा गावोऽस्माकं वयं तासां यतो गावस्ततो वयम्

Verse

एवं रात्रौ दिवा वाऽपि समेषु विषमेषु च भयेषु च नरो नित्यं कीर्तयन् मुच्यते भयात्

Verse

घृत-क्षीर-प्रदा गावो घृत-योन्यो घृतोद्भवाः घृत-नद्यो घृतावर्तास्ता मे सन्तु सदा गृहे

Verse

घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम् घृतं मे सर्वतश्चैव घृतं मे मनसि स्थितम्

Verse

गावो ममाग्रतः सन्तु गावो मे सन्तु पृष्ठतः गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्

Verse

इत्याचम्य जपन् प्रातः सायं वा पुरुषस्तथा यद् रात्र्या कुरुते पापं तद् रात्र्या प्रतिमुच्यते यद् अह्ना कुरुते पापं तद् अह्ना प्रतिमुच्यते

Verse

गोमात्रे नमः, प्रार्थनाः समर्पयामि।

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

अनेन पूजनेन गोमाता प्रीयताम्।

Verse

ॐ तत् सद् ब्रह्मार्पणमस्तु।

Verse

धर्म की जय हो! अधर्म का नाश हो! प्राणियों में सद्भावना हो!

Verse

विश्व का कल्याण हो! गौ हत्या बन्द हो! गौ माता की जय हो!

Verse

गोशरीरे यत्र यत्र या या देवता वर्तन्ते इत्यत्र प्रमाणश्लोकाः हेमाद्रौ भविष्ये

Verse

(अत्र वसूनां रुद्राणाम् अश्विनोश्च उक्तत्वात् अनुक्ताः “अधोगात्रेषु द्वादशादित्याः” अवशिष्ट-पूरणाय गीता-मुद्रणालय-प्रामाण्येन पूर्वत्र योजिताः।)

Verse

शृङ्गमूले गवां नित्यं ब्रह्मविष्णू समाश्रितौ शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च

Verse

शिरोमध्ये महादेवः सर्वदेवमयः स्थितः ललाटाग्रे स्थिता गौरी नासावंशे च षण्मुखः

Verse

कम्बलाश्वतरौ नागौ नासापुटमुपाश्रितौ कर्णयोरश्विनौ देवौ चक्षुषोः शशिभास्करौ

Verse

दन्तेषु वायवः सर्वे जिह्वायां वरुणः स्थितः सरस्वती च हुङ्कारे मासपक्षौ च गण्डयोः

Verse

सन्ध्याद्वयं तथौष्ठाभ्यां ग्रीवामिन्द्रः समाश्रितः रक्षांसि कक्षदेशे तु साध्याश्चोरसि संस्थिताः

Verse

चतुष्पात् सकलो धर्मः स्वयं जङ्घासु संस्थितः खुरमध्ये तु गन्धर्वाः खुराग्रेषु च पन्नगाः

Verse

खुराणां पश्चिमाग्रेषु गणा ह्यप्सरसां स्थिताः रुद्राश्चैकादश पृष्ठे वसवः सर्वसन्धिषु

Verse

श्रोणीतटस्थाः पितरः सोमो लाङ्गूलमाश्रितः आदित्यरश्मयो वालाः पिण्डीभूता व्यवस्थिताः

Verse

साक्षाद् गङ्गा च गोमूत्रे गोमये यमुना स्थिता क्षीरे सरस्वती देवी नर्मदा दध्नि संस्थिता

Verse

हुताशनः स्वयं सर्पिर्ब्राह्मणानां गुरुः परः [अष्टाविंशति?]त्रयस्त्रिंशत् तु देवानां कोट्यो रोमसु संस्थिताः

Verse

उदरे पृथिवी ज्ञेया सशैलवनकानना चत्वारः सागराः पूर्णा गवां ये तु पयोधराः

Verse

एतद् वः कथितं सर्वं यथा गोषु प्रतिष्ठितम् जगद् वै देवशार्दूल सदेवासुरमानवम्

śrī-sūrya-pūjā
śivarātri-pūjā — yāma-catuṣṭaya-pūjā

Read next

More on गो-पूजा

  • श्रीमहालक्ष्मीस्तवकवचपूजाKavach
  • Ganapati Puja VidhiPuja Vidhi
  • Ganesh Chaturthi Puja VidhiPuja Vidhi
  • Durga Puja VidhiPuja Vidhi
  • Navagraha Puja VidhiPuja Vidhi
  • Shodasha Matrika Puja VidhiPuja Vidhi

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms