pujavidhi
Ganesh Chaturthi Puja Vidhi
Verse
हे हेरम्ब! त्वमेह्येहि ह्यम्बिकात्र्यम्बकात्मज । सिद्धिबुद्धिपते त्र्यक्ष लक्षलाभपितुः पितः ॥ नागास्यं नागहारं त्वां गणराजं चतुर्भुजम् । भूषितं स्वायुधैर्दिव्यैः पाशाङ्कुशपरस्वधैः ॥
Verse
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणा क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । सुप्रतिष्ठो वरदो भव ॥
Verse
विचित्ररत्नखचितं दिव्यास्तरणसंयुतम् । स्वर्णसिंहासनं चारु गृहाण गुहाग्रज ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । आसनं समर्पयामि ॥
Verse
ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम् । गजानन गृहाणेदं भगवान् भक्तवत्सलः ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । पादयोः पाद्यं समर्पयामि ॥
Verse
ॐ गणाध्यक्ष नमस्तेऽस्तु गृहाण करुणाकर । अर्घ्यं च फलसंयुक्तं गन्धमाल्याक्षतैर्युतम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । हस्तयोरर्घ्यं समर्पयामि ॥
Verse
विघ्नराज नमस्तुभ्यं त्रिदशैरभिवन्दित । गङ्गोदकेन देवेश कुरुष्वाचमनं प्रभो ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । मुखे आचमनीयं समर्पयामि ॥
Verse
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । सर्वाङ्गस्नानं समर्पयामि ॥
Verse
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु । शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । पञ्चामृत-स्नानं समर्पयामि ॥
Verse
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । पयः-स्नानं समर्पयामि ॥
Verse
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । दधि-स्नानं समर्पयामि ॥
Verse
नवनीत-समुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । घृत-स्नानं समर्पयामि ॥
Verse
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । मधु-स्नानं समर्पयामि ॥
Verse
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । शर्करा-स्नानं समर्पयामि ॥
Verse
चम्पाकाशेकबकुल-मालती-मोगरादिभिः । वासितं स्निग्धताहेतुर्तैलं चारु प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । सुवासित-स्नानं समर्पयामि ॥
Verse
गङ्गा च यमुना चैव गोदावरी सरस्वती । नर्मदा-सिन्धु-कावेरी स्नानार्थं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । शुद्धोदक-स्नानं समर्पयामि ॥
Verse
शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । वस्त्रं समर्पयामि ॥
Verse
उत्तरीयं तथा देव नानाचित्रितमुत्तमम् । गृहाणेदं मया भक्त्या दत्तं तत् सफलीकुरु ॥ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । उत्तरीयं समर्पयामि ॥
Verse
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः ।यज्ञोपवीतं समर्पयामि ॥
Verse
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपणं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । गन्धं समर्पयामि ॥
Verse
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । अक्षतान् समर्पयामि ॥
Verse
माल्यादीनि सुगन्धीनि माल्यत्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि गृह्यन्तां पूजनाय भोः ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । पुष्पमालां समर्पयामि ॥
Verse
त्वत्प्रियाणि सुपुष्पाणि कोमलानि शुभानि वै । शमीदलानि हेरम्ब गृहाण गणनायक ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । शमी-पत्राणि समर्पयामि ॥
Verse
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । दूर्वाङ्कुरान् समर्पयामि ॥
Verse
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् । शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । सिन्दूरं समर्पयामि ॥
Verse
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । धूपमाघ्रापयामि ॥
Verse
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां नरकाद्घोराद्दीपज्योतिर्नमोऽस्तुते ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । दीपं दर्शयामि ॥
Verse
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥शर्करा-खण्ड-खाद्यानि दधि-क्षीर-घृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । नैवेद्यं मोदकमयऋतुफलानि च समर्पयामि ॥
Verse
चन्दनं मलयोद्भूतं कस्तूर्यादि-समन्वितम् । करोद्वर्तनकं देव गृहाण परमेश्वर ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । चन्दनेन करोद्वर्तनं समर्पयामि ॥
Verse
ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलाचूर्णादिसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । मुख-वासार्थम्-एला-पूगी-फलादि-सहितं ताम्बूलं समर्पयामि ॥
Verse
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । नारिकेल-फलं समर्पयामि ॥
Verse
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । द्रव्य-दक्षिणां समर्पयामि ॥
Verse
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् । आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव ॥ ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । कर्पूर-नीराजनं समर्पयामि ॥
Verse
Verse
नानासुगन्धि-पुष्पाणि यथा कालोद्भवानि च । _x000B_पुष्पाञ्जलिं मया दत्तां गृहाण परमेश्वर ॥ _x000B_ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । _x000B_मन्त्र-पुष्पाञ्जलिं समर्पयामि ॥
Verse
यानि कानि च पापानि ज्ञाताज्ञातकृतानि च । _x000B_तानि सर्वाणि नश्यन्ति प्रदक्षिणां पदे पदे ॥ _x000B_ॐ सिद्धि-बुद्धि-सहिताय श्रीमहागणाधिपतये नमः । _x000B_प्रदक्षिणां समर्पयामि ॥
Verse
आवाहनं न जानामि न जानामि तवार्चनम् । _x000B_पूजां चैव न जानामि क्षमस्व गणेश्वर ॥ _x000B_अन्यथा शरणं नास्ति त्वमेव शरणं मम । _x000B_तस्मात्कारुण्यभावेन रक्षस्व विघ्नेश्वर ॥ _x000B_गतं पापं गतं दुःखं गतं दारिद्र्यमेव च । _x000B_आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ _x000B_मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । _x000B_यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ _x000B_यदक्षरपदभ्रष्टं मात्राहीनं च यद्भवेत् । _x000B_तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥
