Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

bṛndāvanapūjā (śrī-tulasī–viṣṇu-pūjā)

बृन्दावनपूजा (श्री-तुलसी–विष्णु-पूजा)

Verse

(मूलम्—पूजा-सङ्ग्रहः (राधाकृष्ण-शास्त्रिणः))

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने शरद् -ऋतौ (तुला/वृश्चिक)-कार्तिक -मासे शुक्ल पक्षे द्वादश्यां शुभतिथौ [[vasara]] -वासरयुक्तायां [[nakshatra]] -नक्षत्र- [[yoga]] -योग- [[karana]] -करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् द्वादश्यां शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं

Verse

श्री-तुलसी-महाविष्णु-प्रसादसिद्धयर्थं बृन्दावन-द्वादशी-पुण्यकाले

Verse

यथाशक्ति-ध्यान-आवाहनादि-षोडशोपचारैः श्री-तुलसी-महाविष्णुपूजां करिष्ये। तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। शोभनार्थे क्षेमाय पुनरागमनाय च। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् प्रसन्नवदनाम्भोजां वरदाम् अभयप्रदाम् अस्मिन् क्षुपे तुलसीं ध्यायामि।

Verse

ध्यायामि विष्णुं वरदं तुलसीप्रियवल्लभम् पीताम्बरं पद्मनेत्रं वासुदेवं वरप्रदम् अस्मिन् आमलक-स्कन्धे महाविष्णुं ध्यायामि।

Verse

वासुदेवप्रिये देवि सर्वदेवस्वरूपिणि आगच्छ पूजाभवने सदा सन्निहिता भव

Verse

आगच्छाऽऽगच्छ देवेश तेजोराशे जगत्पते क्रियमाणां मया पूजां वासुदेव गृहाण भोः तुलसीविष्णू आवाहयामि।

Verse

नानारत्नसमायुक्तं कार्तस्वरविभूषितम् आसनं कृपया विष्णो तुलसि प्रतिगृह्यताम् तुलसी-विष्णुभ्यां नमः, आसनं समर्पयामि।

Verse

नानानदीसमानीतं सुवर्णकलशस्थितम् पाद्यं गृहाण तुलसि पापं मे विनिवारय

Verse

गङ्गादिसर्वतीर्थेभ्यो वासुदेव मयाऽऽहृतम् तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् तुलसी-विष्णुभ्यां नमः, पाद्यं समर्पयामि।

Verse

अर्घ्यं गृहाण देवि त्वं अच्युतप्रियवल्लभे अक्षतादिसमायुक्तं अक्षय्यफलदायिनि

Verse

नमस्ते देवदेवेश नमस्ते कमलापते नमस्ते सर्वविनुत गृहाणार्घ्यं नमोऽस्तु ते तुलसी-विष्णुभ्यां नमः, अर्घ्यं समर्पयामि।

Verse

गृहाणाचमनार्थाय विष्णुवक्षः स्थलालये स्वच्छं तोयमिदं देवि सर्वपापविनाशिनि

Verse

कर्पूरवासितं तोयं गङ्गादिभ्यः समाहृतम् आचम्यतां जगन्नाथ मया दत्तं च भक्तितः तुलसी-विष्णुभ्यां नमः, आचमनीयं समर्पयामि।

Verse

मधुपर्कं गृहाणेमं मधुसूदनवल्लभे मधुदध्याज्यसंयुक्तं महापापविनाशिनि

Verse

दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् गृहाण विष्णो वरद लक्ष्मीकान्त नमोऽस्तु ते तुलसी-विष्णुभ्यां नमः, मधुपर्कं समर्पयामि।

Verse

पञ्चामृतं गृहाणेदं पञ्चपातकनाशिनि दधिक्षीरसमायुक्तं दामोदरकुटुम्बिनि

Verse

मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम् पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक तुलसी-विष्णुभ्यां नमः, पञ्चामृतं समर्पयामि।

Verse

गङ्गागोदावरीकृष्णातुङ्गादिभ्यः समाहृतम् सलिलं देवि तुलसि स्नानार्थं प्रतिगृह्यताम्

Verse

गङ्गा कृष्णा च यमुना नर्मदा च सरस्वती तुङ्गा गोदावरी वेणी क्षिप्रा सिन्धुर्घटप्रभा

Verse

तापी पयोष्णी सरयूस्ताभ्यः स्नानार्थमाहृतम् तोयमेतत्सुखस्पर्शं स्नानीयं गृह्यतां हरे तुलसी-विष्णुभ्यां नमः, स्नानं समर्पयामि।

Verse

पीताम्बरमिदं दिव्यं पातकव्रजनाशिनि पीताम्बरप्रिये देवि परिधत्स्व परात्परे

Verse

सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे वाससी प्रतिगृह्णातु लक्ष्मीजानिरधोक्षजः तुलसी-विष्णुभ्यां नमः, वस्त्रं समर्पयामि।

Verse

भूषणानि वरार्हाणि गृह्णीतं तुलसीश्वर किरीटहारकेयूरकटकानि हरेऽमृते तुलसी-विष्णुभ्यां नमः, आभरणानि समर्पयामि।

Verse

चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् गन्धं स्वीकुरुतं देवौ रमेशहरिवल्लभे तुलसी-विष्णुभ्यां नमः, गन्धान् धारयामि।

Verse

मल्लिकाकुन्दमन्दारजाजीवकुलचम्पकैः शतपत्रैश्च कह्लारैरर्चये तुलसीहरी तुलसी-विष्णुभ्यां नमः, पुष्पाणि समर्पयामि।

Verse

बृन्दायैअच्युताय नमः - पादौ पूजयामि।

Verse

तुलस्यैअनन्ताय नमः - गुल्फौ पूजयामि।

Verse

जनार्दनप्रियायैतुलसीकान्ताय नमः - जङ्घे पूजयामि।

Verse

जन्मनाशिन्यैगङ्गाधरपदाय नमः - जानुनी पूजयामि

Verse

उत्तमायैउत्तमाय नमः - ऊरू पूजयामि।

Verse

कमलाक्ष्यैकमलाक्षाय नमः - कटिं पूजयामि।

Verse

नारायण्यैनारायणाय नमः - नाभिं पूजयामि।

Verse

उन्नतायैउन्नताय नमः - उदरं पूजयामि।

Verse

वरदायैवरदाय नमः - वक्षः पूजयामि।

Verse

स्तव्यायैस्तव्याय नमः - स्तनौ कौस्तुभं पूजयामि।

Verse

चतुर्भुजायैचतुर्भुजाय नमः - भुजान् पूजयामि।

Verse

कम्बुकण्ठ्यैवनमालिने नमः - कण्ठं पूजयामि।

Verse

कल्मषघ्न्यैकल्मषघ्नाय नमः - कर्णौ पूजयामि।

Verse

मुनिप्रियायैमुनिप्रियाय नमः - नेत्रे पूजयामि

Verse

शुभप्रदायैशुभप्रदाय नमः - शिरः पूजयामि।

Verse

सर्वार्थदायिन्यैसर्वार्थदायिने नमः - सर्वाण्यङ्गानि पूजयामि।

Verse

ॐ केशवाय नमः

Verse

ॐ नारायणाय नमः

Verse

ॐ माधवाय नमः

Verse

ॐ गोविन्दाय नमः

Verse

ॐ विष्णवे नमः

Verse

ॐ मधुसूदनाय नमः

Verse

ॐ त्रिविक्रमाय नमः

Verse

ॐ वामनाय नमः

Verse

ॐ श्रीधराय नमः

Verse

ॐ हृषीकेशाय नमः

Verse

ॐ पद्मनाभाय नमः

Verse

ॐ दामोदराय नमः

Verse

ॐ सङ्कर्षणाय नमः

Verse

ॐ वासुदेवाय नमः

Verse

ॐ प्रद्युम्नाय नमः

Verse

ॐ अनिरुद्धाय नमः

Verse

ॐ पुरुषोत्तमाय नमः

Verse

ॐ अधोक्षजाय नमः

Verse

ॐ नृसिंहाय नमः

Verse

ॐ अच्युताय नमः

Verse

ॐ जनार्दनाय नमः

Verse

ॐ उपेन्द्राय नमः

Verse

ॐ हरये नमः

Verse

ॐ श्रीकृष्णाय नमः

Verse

Verse

श्री-तुलसी-विष्णुभ्यां नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।

Verse

धूपं गृहाण वरदे दशाङ्गेन सुवासितम् तुलस्यमृतसम्भूते धूतपापे नमोऽस्तु ते

Verse

दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः श्रीवत्साङ्क हृषीकेश धूपोऽयं प्रतिगृह्यताम् तुलसी-विष्णुभ्यां नमः, धूपम् आघ्रापयामि।

Verse

वर्तित्रययुतं दीप्तं गोघृतेन समन्वितम् दीपं देवि गृहाणेमं दैत्यारिहृदयस्थिते

Verse

साज्यं त्रिवर्तिसंयुक्तं दीप्तं देव जनार्दन गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरं हर तुलसी-विष्णुभ्यां नमः, दीपं दर्शयामि।

Verse

नानाभक्ष्यैश्च भोज्यैश्च फलैः क्षीरघृतादिभिः नैवेद्यं गृह्यतां युक्तं नारायणमनःप्रिये

Verse

भोज्यं चतुर्विधं चोष्यभक्ष्यसूपफलैर्युतम् दधिमध्वाज्यसंयुक्तं गृह्यतामम्बुजेक्षण तुलसी-विष्णुभ्यां नमः, महानैवेद्यं निवेदयामि।

Verse

कर्पूरचूर्णताम्बूलवल्लीपूगफलैर्युतम् जगतः पितरावेतत्ताम्बूलं प्रतिगृह्यताम् तुलसी-विष्णुभ्यां नमः, ताम्बूलं समर्पयामि।

Verse

नीराजनं गृहाणेदं कर्पूरैः कलितं मया तुलस्यमृतसम्भूते गृहाण हरिवल्लभे

Verse

चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च त्वमेव सर्वज्योतींषि कुर्यां नीराजनं हरे तुलसी-विष्णुभ्यां नमः, कर्पूर-नीराजनं दर्शयामि।

Verse

प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये युवां प्रदक्षिणी कुर्वे तुलसीशौ प्रसीदतम् तुलसी-विष्णुभ्यां नमः, प्रदक्षिणं समर्पयामि।

Verse

नमोऽस्तु पीयूषसमुद्भवायै नमोऽस्तु पद्माक्षमनः प्रियायै नमोऽस्तु जन्माप्यय-भीतिहन्त्र्यै नमस्तुलस्यै जगतां जनन्यै

Verse

शङ्खचक्रगदापाणे द्वारकानिलयाच्युत गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत(ता)म् तुलसी-विष्णुभ्यां नमः, नमस्कारान् समर्पयामि।

Verse

पुष्पाञ्जलिं गृहाणेदं पङ्कजाक्षस्य वल्लभे नमस्ते देवि तुलसि नताभीष्टफलप्रदे

Verse

मन्दारनीलोत्पलकुन्दजाती पुन्नागमल्लीकरवीरपद्मैः पुष्पाञ्जलिं ते जगदेकबन्धो हरे त्वदङ्घ्रौ विनिवेशयामि तुलसी-विष्णुभ्यां नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि।

Verse

आयुरारेग्यमतुलमैश्वर्यं पुत्रसम्पदः देहि मे सकलान्कामान् तुलस्यमृतसम्भवे

Verse

नमो नमः सुखवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने नमो नमो विपुलपदैकसिद्धये नमो नमः परमदयानिधे हरे तुलसी-विष्णुभ्यां नमः, प्रार्थनाः समर्पयामि।

Verse

नमस्ते देवि तुलसि नमस्ते मोक्षदायिनि इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव

Verse

लक्ष्मीपते नमस्तुभ्यं तुलसीदामभूषण इदमर्घ्यं प्रदास्यामि गृहाण गरुडध्वज

Verse

श्री-तुलस्यै महाविष्णवे च नमः , इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्।

Verse

नमस्ते देवि तुलसि माधवेन समन्विता प्रयच्छ सकलान्कामान् द्वादश्यां पूजिता मया

Verse

अनेन पूजनेन श्री-तुलसी-विष्णू प्रीयेताम्।

Verse

पापानि यानि रविसूनुपटस्थितानि गो-ब्रह्म-बाल-पितृ-मातृ-वधादिकानि नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशे फलमाशु च स्यात् (तुलसीवनगमने प्रोक्तव्यम्)

Verse

या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी प्रत्यासत्ति विधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः (तुलसी-जल-प्रोक्षणम्)

Verse

ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका यमस्तं नेक्षितुं शक्तः किमु दूता भयङ्कराः (मृत्तिका-धारणम्)

Verse

तुलसीकाननं यत्र यत्र पद्मवनानि च वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः

Verse

पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा वासुदेवादयो देवा वसन्ति तुलसीवने (प्रदक्षिणम्)

Verse

तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे नमस्ते नारदनुते नारायणमनःप्रिये (नमस्कारः)

Verse

तुलसी श्रीमहालक्ष्मीर्विद्याऽविद्या यशस्विनी धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया

Verse

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः लभते सुतरां भक्तिम् अन्ते विष्णुपदं लभेत्

Verse

(इक्षुदण्डनिर्मिते पुष्पाद्यलङ्कृते मण्टपे विवाहः।

Verse

तुलसी हरिद्राचन्दनकुङ्कुमपुष्पाद्यालङ्कृता स्वीयवेद्यां प्रथमं पूज्यते।

Verse

शुक्लाम्बरधरं + परमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते + शुभतिथौ तुलस्याः विष्णुना सह विवाहोत्सवमाचरिष्ये।

Verse

विष्णुं विवाहार्थे वरार्ह-वस्त्रालङ्करण-पुष्पमालादिभिः अलङ्कृत्य वाद्यघोषगीतपुरस्सरं विवाहमण्टपमानीय कर्ता नारिकेल-कदलीफलताम्बूलादिभिः उपसृत्य मण्टपे आसने प्रतिष्ठाप्य प्रार्थयेत्।

Verse

आगच्छ भगवन् देव अर्हयिष्यामि केशव तुभ्यं ददामि तुलसीं प्रतीच्छन् कामदो भव

Verse

आसनमिदं, अलङ्क्रियताम्। पाद्यं समर्पयामि।

Verse

अर्घ्यं समर्पयामि, आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। हरिद्रालेप-मङ्गलविधिं समर्पयामि। तैलाभ्यङ्गपूर्वकं मङ्गलस्नानं समर्पयामि। वस्त्रालङ्करणपुष्पमालाः समर्पयामि। गन्धान् धारयामि। गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि। पुष्पैः पूजयामि।

Verse

तुलसी-विष्णुभ्यां नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।

Verse

... गोत्रोद्भवां ... शर्मणः प्रपौत्रीं, ... शर्मणः पौत्रीं, ... शर्मणः पुत्रीं तुलसीनाम्नीम् इमां कन्यकां अजाय परब्रह्मणे श्री-विष्णवे वराय प्रतिपादयामि। (त्रिः उक्त्वा)

Verse

अनादिमध्यनिधन त्रैलोक्यप्रतिपालक इमां गृहाण तुलसीं विवाहविधिनेश्वर

Verse

पार्वती-बीजसम्भूतां बृन्दाभस्मनि संस्थिताम् अनादिमध्यनिधनां वल्लभां ते ददाम्यहम्

Verse

पयोघटैश्च सेवाभिः कन्यावद्वर्धितां मया त्वत्प्रियां तुलसीं तुभ्यं ददामि त्वं गृहाण भोः

Verse

वाद्यघोष-वेदस्वस्तिवाचन-मङ्गलाशीर्भिः उभौ मेलयित्वा गीतादिभिः सन्तोषयेत्।

Verse

सायमपि पुनः पूजां कृत्वा स्त्रीधनं यथाशक्तिं दद्यात्।

Verse

वैकुण्ठं गच्छ भगवन् तुलस्या सहितः प्रभो मत्कृतं पूजनं गृह्य सन्तुष्टो भव सर्वदा

Verse

गच्छ गच्छ सुरश्रेष्ठ स्वस्थानं परमेश्वर यत्र ब्रह्मादयो देवाः तत्र गच्छ जनार्दन

Verse

इति उभौ अभ्यनुज्ञापयेत् मङ्गलारार्तिकेन सह। तुलसीं यथापूर्वं रक्षेत्।

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु।

śrī-skanda-ṣaṣṭhī-pūjā
śrī-sūrya-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms