pujavidhanam
śrī-skanda-ṣaṣṭhī-pūjā
श्री-स्कन्द-षष्ठी-पूजा
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने शरद्-ऋतौ तुला/वृश्चिक-मासे कार्तिक-शुक्लपक्षे षष्ठ्यां शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]]-योग (कौलव/तैतिल) करण युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां षष्ठ्यां शुभतिथौ
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-प्रीत्यर्थं प्रसाद-सिद्ध्यर्थम् अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याणाम् अभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थं मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं गो-भू-धन-धान्य-पुत्र-पौत्रादि अनविच्छिन्न-सन्तति स्थिर-लक्ष्मी-कीर्ति-लाभ शत्रु-पराजयादि सदभीष्ट-सिद्ध्यर्थं दिव्यज्ञान-सिद्ध्यर्थं
Verse
यावच्छक्ति-ध्यानावाहनादि षोडशोपचारैः कल्पोक्त-प्रकारेण श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-पूजाराधनं करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः, यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् कुरु घण्टारवं तत्र देवताऽऽह्वानलाञ्चनम्
Verse
गङ्गायै नमः। यमुनायै नमः। गोदावर्यै नमः। सरस्वत्यै नमः। नर्मदायै नमः। सिन्धवे नमः। कावेर्यै नमः। सप्तकोटिमहातीर्थान्यावाहयामि।
Verse
(अथ कलशं स्पृष्ट्वा जपं कुर्यात्।)
Verse
कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः
Verse
कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः
Verse
गङ्गे च यमुने चैव गोदावरि सरस्वति नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु
Verse
सर्वे समुद्राः सरितः तीर्थानि च ह्रदा नदाः आयान्तु विष्णुपूजार्थं दुरितक्षयकारकाः
Verse
(इति कलशजलेन सर्वोपकरणानि आत्मानं च प्रोक्ष्य।)
Verse
आत्मने नमः, दिव्यगन्धान् धारयामि।
Verse
ॐ ह्रीं श्रीं मण्डूकादि-परतत्त्वात्म-पर्यन्त-पीठ-शक्ति-देवताभ्यो नमः। ॐ ह्रीं श्रीं शं शकुन्यै नमः। ॐ ह्रीं श्रीं रें रेवत्यै नमः। ॐ ह्रीं श्रीं पूं पूताय नमः। ॐ ह्रीं श्रीं मं महापूतायै नमः। ॐ ह्रीं श्रीं निं निशीथिन्यै नमः। ॐ ह्रीं श्रीं मां मालिन्यै नमः। ॐ ह्रीं श्रीं शीं शीतलायै नमः। ॐ ह्रीं श्रीं शुं शुद्धायै नमः। ॐ ह्रीं श्रीं विं विश्वतोमुख्यै नमः।
Verse
सिन्धूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणैर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् अम्भोजाभयशक्तिकुक्कुटधरं रक्ताङ्गराकोज्ज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् अस्मिन् कुम्भे सपरिवारं श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनम् ध्यायामि।
Verse
षड्वक्त्रं शिखिवाहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम्
Verse
अस्मिन् कुम्भे सपरिवारं श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनम् आवाहयामि।
Verse
आवाहिता भव। संस्थापिता भव। सन्निहिता भव। सन्निरुद्धा भव। अवकुण्ठिता भव। सुप्रीता भव। सुप्रसन्ना भव। वरदा भव।
Verse
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम् तावत् त्वं प्रीतिभावेन दीपेऽस्मिन् सन्निधिं कुरु
Verse
देवदेव महाराज प्रियेश्वर प्रजापते आसनं दिव्यमीशान दास्येयं परमेश्वर श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, आसनं समर्पयामि।
Verse
यद्भक्तिलेशसम्पर्कात् परमानन्दविग्रह तस्मै ते शरणाब्जाय पाद्यं शुद्धाय कल्पये श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, पाद्यं समर्पयामि।
Verse
तापत्रयहरं दिव्यं परमानन्दलक्षणम् तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, अर्घ्यं समर्पयामि।
Verse
वेदानामपि वेद्याय देवानां देवतात्मने आचामं कल्पयामीश शुद्धानां शुद्धिहेतवे श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, आचमनीयं समर्पयामि।
Verse
तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु तेजःपुष्टिकरं दिव्यं प्रतिगृह्णीष्व देवेश श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मधुपर्कं समर्पयामि।
Verse
पयोदधिघृतं चैव मधु च शर्करायुतम् पञ्चामृतं मयाऽऽनीतं स्नानार्थं प्रतिगृह्यताम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, पञ्चामृत-स्नानं समर्पयामि।
Verse
कामधेनुसमुत्पन्नं सर्वेषां जीवनं परम् पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, क्षीरस्नानं समर्पयामि।
Verse
भागीरथी यमुना चैव गौतमी च सरस्वती तासां सुसलिलमादाय करोमि त्वामभिषेचनम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, स्नानं समर्पयामि। स्नानान्तरमाचमनीयं समर्पयामि।
Verse
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, वस्त्रं समर्पयामि।
Verse
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतात्मकम् उपवीतं प्रदास्यामि गृहाण परमेश्वर श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, यज्ञोपवीतं समर्पयामि।
Verse
मुक्ता-माणिक्य-वैडूर्य-रत्न-हेमादि-निर्मितम् नानाभरणं दास्यामि स्वीकुरुष्व दयानिधे श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, नवमणि-मकुटादि नानाभरणम् समर्पयामि।
Verse
चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, गन्धान् धारयामि। गन्धस्योपरि हरिद्रा-कुङ्कुमं समर्पयामि।
Verse
अक्षतांश्च सुरश्रेष्ठ कुङ्कुमाक्ता सुशोभिताः मया निवेदिता भक्त्या गृह्यतां परमेश्वर श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, अक्षतान् समर्पयामि।
Verse
मन्दार-पारिजाताब्ज-केतक्युत्पल-पाटलैः मल्लिका-जाति-वकुलैः पुष्पैस्त्वां पूजयाम्यहम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मल्लिकादि-सर्वर्तु-पुष्पमालाः समर्पयामि।
Verse
१.शरवणोद्भूताय नमः — पादौ पूजयामि।
Verse
२.रौद्रेयाय नमः — जङ्घे पूजयामि।
Verse
३.सहस्रपदे नमः — जानुनी पूजयामि।
Verse
४.भयनाशनाय नमः — ऊरू पूजयामि।
Verse
५.बालग्रहाच्छाटनाय नमः — मेढ्रं पूजयामि
Verse
६.भक्तपालनाय नमः — गुह्यं पूजयामि।
Verse
७.गुणनिधये नमः — कटिं पूजयामि।
Verse
८.महनीयाय नमः — नाभिं पूजयामि।
Verse
९.सर्वाभीष्टप्रदाय नमः — हृदयं पूजयामि।
Verse
१०.विशालवक्षसे नमः — वक्षस्थलं पूजयामि।
Verse
११.शक्तिधराय नमः — हस्तान् पूजयामि।
Verse
१२.अभयप्रदानाय नमः — बाहून् पूजयामि।
Verse
१३.नीलकण्ठ-तनयाय नमः — कण्ठान् पूजयामि।
Verse
१४.पतित-पावनाय नमः — चुबुकानि पूजयामि।
Verse
१५.पुरुष-श्रेष्ठाय नमः — नासिकानि पूजयामि
Verse
१६.कमललोचनाय नमः — लोचनानि पूजयामि
Verse
१७.पुण्यमूर्तये नमः — श्रोत्राणि पूजयामि
Verse
१८.कस्तूरी-तिलकाञ्चित-फालाय नमः — ललाटानि पूजयामि
Verse
१९.षडाननाय नमः — मुखानि पूजयामि
Verse
२०.त्रिलोकगुरवे नमः — ओष्ठानि पूजयामि।
Verse
२२.सहस्रशीर्ष्णे नमः — शिरांसि पूजयामि।
Verse
२३.भस्मोद्धूलित-विग्रहाय नमः — सर्वाण्यङ्गानि पूजयामि।
Verse
ॐ ज्ञानशक्त्यात्मने नमः
Verse
ॐ स्कन्दाय नमः
Verse
ॐ अग्निभुवे नमः
Verse
ॐ बाहुलेयाय नमः
Verse
ॐ गाङ्गेयाय नमः
Verse
ॐ शरवणोद्भवाय नमः
Verse
ॐ कार्त्तिकेयाय नमः
Verse
ॐ कुमाराय नमः
Verse
ॐ षण्मुखाय नमः
Verse
ॐ कुक्कुटध्वजाय नमः
Verse
ॐ शक्तिधराय नमः
Verse
ॐ गुहाय नमः
Verse
ॐ ब्रह्मचारिणे नमः
Verse
ॐ षण्मातुराय नमः
Verse
ॐ क्रौञ्चभित्रे नमः
Verse
ॐ शिखिवाहनाय नमः
Verse
Verse
Verse
Verse
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, नानाविध-परिमल-पत्र-पुष्पाणि समर्पयामि।
Verse
दशाङ्गं च पटीरं च एला-कुङ्कुम-संयुतम् धूपं गृहाण देवेश सुब्रह्मण्य नमोऽस्तु ते
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, धूपम् आघ्रापयामि।
Verse
इन्द्वर्कवह्निनेत्राय देवसेनापतये नमः घृतवर्तिसुसंयुक्तं दीपोऽयम् अवलोक्यताम्
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, दीपं दर्शयामि। धूप-दीपानन्तरम् आचमनीयं समर्पयामि।
Verse
सत्पात्रसिद्धं सुहविर्विविधानेक-भक्षणम् निवेदयामि देवेश सानुगाय गृहाण तत्
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, () महानैवेद्यं निवेदयामि। मध्ये मध्ये अमृतपानीयं समर्पयामि। हस्त-प्रक्षालनं समर्पयामि। गण्डूषं समर्पयामि। पुनः हस्त-प्रक्षालनं समर्पयामि। पाद-प्रक्षालनं समर्पयामि। आचमनीयं समर्पयामि।
Verse
पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, ताम्बूलं समर्पयामि।
Verse
नीराजनं देवदेव सूर्यकोटि-समप्रभ अहं भक्त्या प्रदास्यामि स्वीकुरुष्व दयानिधे
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, कर्पूर-नीराजनं दर्शयामि। पुष्पाञ्जलिं समर्पयामि। आचमनीयं समर्पयामि। रक्षां धारयामि।
Verse
सर्व-पापौघ-विध्वंस साक्षाद्धर्मस्वरूपक पुष्पाञ्जलिं प्रदास्यामि गृहाण भुवनेश्वर
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि।
Verse
यानि कानि च पापानि जन्मान्तरकृतानि च तानि तानि विनश्यन्ति प्रदक्षिण-पदे पदे प्रदक्षिणं कृत्वा।
Verse
षण्मुखं पार्वतीपुत्रं क्रौञ्चशैलविमर्दनम् देवसेनापतिं देवं स्कन्दं वन्दे शिवात्मजम्
Verse
तारकासुर-हन्तारं मयूरोपरि संस्थितम् शक्तिपाणिं च देवेशं स्कन्दं वन्दे शिवात्मजम्
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, प्रदक्षिण-नमस्कारान् समर्पयामि।
Verse
नमः केकिने शक्तये चापि तुभ्यं नमश्छाग तुभ्यं नमः कुक्कुटाय नमः सिन्धवे सिन्धुदेशाय तुभ्यं पुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु
Verse
जयाऽऽनन्दभूमन् जयापारधामन् जयामोघकीर्ते जयाऽऽनन्दमूर्ते जयाऽऽनन्दसिन्धो जयाशेषबन्धो जय त्वं सदा मुक्तिदानेशसूनो
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, प्रार्थनाः समर्पयामि।
Verse
श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, छत्रं समर्पयामि। चामरयुगलं वीजयामि। दर्पणं दर्शयामि। गीतं श्रावयामि। नृत्तं दर्शयामि। आन्दोलिकाम् आरोहयामि। गजम् आरोहयामि। अश्वम् आरोहयामि। रथम् आरोहयामि। समस्त-राजोपचार-देवोपचार-पूजाः समर्पयामि।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम् स्कन्दषष्ठी-पुण्यकाले श्री-सुब्रह्मण्य-पूजान्ते अर्घ्यप्रदानं करिष्ये॥
Verse
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः दध्ना घृतोदकैः पुष्पै र्मन्त्रेणानेन सुव्रत
Verse
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम् श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिने नमः, इदमर्घ्यमिदमर्घ्यमिदमर्घ्यम्॥
Verse
दत्त्वा विप्राय चाऽऽत्मानं यच्चान्यदपि विद्यते पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्
Verse
[श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥]
Verse
अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीयन्ताम्।
Verse
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः अनन्तपुण्यफलदम् अतः शान्तिं प्रयच्छ मे
Verse
स्कन्दषष्ठी-पुण्यकाले अस्मिन् मया क्रियमाण श्री-सुब्रह्मण्यपूजायां यद्देयमुपायनदानं तत्प्रत्याम्नायार्थं हिरण्यं श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीतिं कामयमानः मनसोद्दिष्टाय ब्राह्मणाय सम्प्रददे नमः न मम। अनया पूजया श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्य-स्वामिनः प्रीयन्ताम्।
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
ॐ तत्सद्ब्रह्मार्पणमस्तु।
