Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-kāverī-pūjā

श्री-कावेरी-पूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्टिसंवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे / दक्षिणायने (ग्रीष्म / वर्ष / शरद् / हेमन्त / शिशिर / वसन्त)-ऋतौ (मेष / वृषभ / मिथुन / कर्कटक / सिंह / कन्या / तुला / वृश्चिक / धनुर् / मकर / कुम्भ / मीन)-मासे [[paksha]]-पक्षे [[tithi]] शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]]-नक्षत्र [[yoga]]-योग [[karana]]-करण युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं कावेरी-देवी-प्रीत्यर्थं यावच्छक्ति-ध्यानावाहनादि-षोडशोपचार-कावेरी-पूजां करिष्ये तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

अच्छस्वच्छलसद्दुकूलवसनां पद्मासनाद्‍ध्यासिनीं हस्तन्यस्तवराभयाब्जकलशां राकेन्दुकोटिप्रभाम् भास्वद्भूषणगन्धमाल्यरुचिरां चारुप्रसन्नाननां श्री-गङ्गादिसमस्ततीर्थनिलयां ध्यायामि कावेरिकाम्

Verse

कावेरी-देवीं ध्यायामि।

Verse

श्रीकण्ठविश्वेश्वरसन्निभानि लिङ्गानि यद्रोधसि लक्षकोट्यः जलप्रवाहेपि च कोटिकोट्यः कवेरजायाश्शिवमूर्तयस्स्युः

Verse

पयांसि तीर्थानि शिलाश्च देवता दिवौकसो वालुकतां प्रपन्नाः अतो नदी सह्यगिरिप्रसूता सरित्सुमुख्यामनुजैरलभ्या

Verse

कावेरी-देवीम् आवाहयामि।

Verse

आदावादि विधातृमानससुता पश्चात्कवेरात्मजा भूयःकुम्भभवस्य तस्य दयिता तस्मान्नदीरूपिणी श्रीरङ्गातुलकुम्भघोणविलसन्मायूरमध्यार्जुन- श्वेतारण्यमुखस्थलेषु महिता सह्याद्रिजा दृश्यते

Verse

कावेरी-देव्यै नमः, आसनं समर्पयामि।

Verse

मरुद्वृधे महादेवी महाभागे मनोहरे सर्वाभीष्टप्रदे लोकमातः पाद्यं ददामि ते

Verse

मरुद्वृधे मान्यजलप्रवाहे कवेरकन्ये नमतां शरण्ये मान्ये जगत्पूज्यतमप्रभावे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, पाद्यं समर्पयामि।

Verse

सह्यपादोद्भवे देवि श्रीरङ्गोत्सङ्गामिनि कावेरीनामविख्याते गृहाणार्घ्यं नमोऽस्तुते

Verse

प्राचीनवाक्कीर्तित-पुण्यकीर्ते कल्याणि भक्तेप्सितदानधुर्ये कुम्भोद्भवप्रेरितगुम्भितार्थे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, अर्घ्यं समर्पयामि।

Verse

श्रीसह्यशैलतनये सर्वासह्यनिवारिणि प्रसादं कुरु मे देवि प्रसन्ना भव सर्वदा

Verse

संसारविस्रंसिनि संस्कृतानां सर्वाघसंहारिणि सर्ववन्द्ये समस्तलोकैकशरण्यमूर्ते कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, आचमनीयं समर्पयामि।

Verse

तुलामासे तु कावेरी सर्वतीर्थाश्रिता नदी पञ्च-पातक-संहर्त्री वाजिमेधफलप्रदा

Verse

भक्तानुकम्पे मुनिभाग्यलक्ष्मि नित्ये जगन्मङ्गलदानशीले निरञ्जने दक्षिणदेशगङ्गे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, पञ्चामृतस्नानं समर्पयामि।

Verse

कावेरीतीरजन्मानः मृगपक्षिमहीरुहाः तद्वारिशीतवातैश्च स्पृष्टा मुक्तिं प्रयान्ति वै

Verse

मोक्षश्रियोपासित-पादपद्मे नित्ये हरीशद्रुहिणस्वरूपे सदाशिवे धातृवरप्रसादे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

Verse

कवेरकन्ये कावेरि निम्नगानाथनायिके वस्त्राणि वसभूवस्त्रे भुक्तिमुक्तिप्रदायिनि

Verse

देवर्षिपूज्ये विमले नदीशे परात्परे भावितनित्यपूर्णे समस्तलोकोत्तमतीर्थमातः कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, वस्त्रं समर्पयामि।

Verse

सर्वयज्ञाश्रयतटे सर्वयज्ञसहायिनि यज्ञाङ्गसम्भवे देवि सर्वयज्ञफलप्रदे

Verse

कलिप्रभूताखिलदोषनाशे विशुद्धविज्ञानजलप्रवाहे कदम्बकल्हारकदम्बपूर्णे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, यज्ञोपवीतं समर्पयामि।

Verse

जयदेवि जगन्मातर्लोपामुद्रे पुरातने जयभद्रे भवोद्धारि मङ्गले मङ्गलप्रदे

Verse

प्रसीद कारुण्य-गुणाभिरामे प्रसीद कल्याणतरप्रवाहे प्रसीद कामादिहरे पवित्रे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, मङ्गलद्रव्यं समर्पयामि। हरिद्रा-कुङ्कुमं समर्पयामि।

Verse

चन्दनागरुकस्तूरीहिमवालुककेसरैः राङ्कवैस्साङ्कवैर्युक्तं गन्धं स्वीकुरु सह्यजे

Verse

आद्ये परे चिन्मयपुण्यपादे पचेलिमप्रौढकवेरभाग्ये अनन्यसाधारणवैभवाढ्ये कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, गन्धान् धारयामि।

Verse

यस्यां सकृत्स्नानमात्रान्नरोऽक्षय्यफलं लभेत् नक्षत्रमाल्यवच्छुभ्रामक्षतैरर्चयाम्यहम्

Verse

कावेरी-देव्यै नमः, अक्षतान् समर्पयामि।

Verse

किरीटहारकेयूरकुण्डलाङ्गदकङ्कणैः हंसकैर्मेखलाद्यैश्च भूषये त्वां मरुद्वृधाम् कावेरी-देव्यै नमः, आभरणानि समर्पयामि।

Verse

ताटङ्कं कण्ठसूत्रं च सिन्दूरं कज्जलादिकम् सौमङ्गल्यप्रदे देवि गृहाणागस्त्यवल्लभे

Verse

कावेरी-देव्यै नमः, ताटङ्कादिकान् समर्पयामि।

Verse

तुलसीबिल्वमन्दारकुशाग्रशतपत्रकैः इन्दीवरैः कोकनदैर्हल्लकैः कमलैरपि

Verse

कावेरी-देव्यै नमः, पुष्पमालां समर्पयामि।

Verse

कल्हारैः पुण्डरीकैश्च पुष्पैः सौगन्धिकादिभिः जाती-चम्पक-पुन्नाग-मल्लिका-केतकादिभिः

Verse

सुरभिद्रोणवासन्ती गन्धराज-कदम्बकैः पुष्पैः सह्यसुते मातर्वेण्यलङ्करणं कुरु

Verse

बहुजन्मकृतानेकवासनावासितात्मभिः दिव्यैः सुमवरैः पूज्यां पूजयेत् पुष्पजातिभिः

Verse

कावेरी-देव्यै नमः, पुष्पैः सम्पूजयामि।

Verse

मरुद्वृधायै नमःपादौ पूजयामि

Verse

महालक्ष्म्यै नमःगुल्फौ पूजयामि

Verse

सह्यकन्यकायै नमःजङ्घे पूजयामि

Verse

सरस्वत्यै नमःजानुनी पूजयामि

Verse

अगस्त्यपत्न्यै नमःमध्यम् पूजयामि

Verse

कावेर्यै नमःनाभिम् पूजयामि

Verse

लोपामुद्रायै नमःहृदयम् पूजयामि

Verse

वरप्रदायै नमःस्तनौ पूजयामि

Verse

कमण्डलुसमुत्पन्नयै नमःबाहू पूजयामि

Verse

सर्वतीर्थाधिदेवतायै नमःकण्ठम् पूजयामि

Verse

विरजायै नमःनासिकाम् पूजयामि

Verse

दक्षिणगङ्गायै नमःश्रोत्रे पूजयामि

Verse

ब्रह्मविष्णुशिवात्मिकायै नमःनेत्रे पूजयामि

Verse

चतुर्विधफलोद्धात्र्यै नमःवक्त्रम् पूजयामि

Verse

चतुरानन कन्यकायै नमःशिरः पूजयामि

Verse

सर्वाभीष्टप्रदात्र्यै नमःसर्वाण्यङ्गानि पूजयामि

Verse

Verse

कावेरी-देव्यै नमः, नाना-विध-परिमल-पत्र-पुष्पाणि समर्पयामि।

Verse

रङ्गत्रयोत्सङ्गविराजमाने ब्रह्माद्रिकूटाश्रिततीर्थगर्भे समस्तसिद्धाश्रमरम्यतीर्थे कावेरि कावेरि मम प्रसीद

Verse

दशाङ्गो गुग्गुलोपेतस्सुगन्धो घ्राणतर्पणः मरुद्वृधेऽम्बकावेरि धूपोयन्ते समर्पितः

Verse

कावेरी-देव्यै नमः, धूपम् आघ्रापयामि।

Verse

तुलागतेऽर्केतटिनि वराभिर्- गङ्गादिभिः सेवितपादपद्मे त्रिकोटितीर्थाश्रम-पुष्कराढ्ये कावेरि कावेरि मम प्रसीद

Verse

आपो ज्योतिस्त्वमस्यम्ब कुम्भसम्भवतेजसा तेजःप्रदात्रि कावेरि दीपोऽयं प्रतिगृह्यताम्

Verse

कावेरी-देव्यै नमः, दीपं दर्शयामि।

Verse

ददासि तुल्याभिरनर्घधान्या- न्यशेषचोलीयजनस्य देवि भुक्तिप्रदे मुक्तिविधानदक्षे कावेरि कावेरि मम प्रसीद

Verse

अन्नं चतुर्विधं रुच्यं शाकव्यञ्जनसंयुतम् सफलं सघृतं भुङ्क्ष्व कावेरि तटितां वरे

Verse

कावेरी-देव्यै नमः, नैवेद्यं समर्पयामि। पानीयं समर्पयामि। उत्तरापोशनं समर्पयामि। निवेदनान्तरम् आचमनीयं समर्पयामि।

Verse

निजाभिधानश्रवणादृतानां निश्शेषपापक्षयकारिणीत्वम् निदाघतृष्णादि-निरासदक्षे कावेरि कावेरि मम प्रसीद

Verse

कावेरी-देव्यै नमः, फलं कर्पूर-ताम्बूलं च समर्पयामि।

Verse

पराशरागस्त्यवसिष्ठमुख्यैर्- महर्षिभिर्मान्यतपोभिरम्ब त्वमाश्रिताकर्मठसिद्धिहेतुः कावेरि कावेरि मम प्रसीद

Verse

सर्वतीर्थैस्तुलामासे त्वन्नीराजनपादुका नीराजयामि भक्त्या त्वां कावेर्यम्ब मरुद्वृधे

Verse

कावेरी-देव्यै नमः, नीराजनं समर्पयामि।

Verse

मायूरमध्यार्जुनकुम्भघोणश्- रीरङ्गचुञ्चुस्थलघट्टगा त्वम् सस्योद्भवे सिन्धुयुते स्वतन्त्रे कावेरि कावेरि मम प्रसीद

Verse

प्रदक्षिणं करोमि त्वां पुरुषार्थप्रदायिनि दक्षिणावर्तकश्रीनिवासप्रीते मरुद्वृधे

Verse

कावेरी-देव्यै नमः, प्रदक्षिणम् समर्पयामि।

Verse

ब्रह्मादिभिर्देववरैस्त्रिसन्ध्यं वसिष्ठपूर्वैर्मुनिभिर्वरिष्ठैः नित्यं गजारण्यगतैर्निषेव्ये कावेरि कावेरि मम प्रसीद

Verse

नमस्ते तटितां मुख्ये निगमागमसंस्तुते पाहि पाह्यम्ब कावेरि प्रपन्नं मां कृपादृशा

Verse

कावेरी-देव्यै नमः, नमस्कारान् समर्पयामि।

Verse

मरुद्वृधे महाभागे सर्वलोकैकपावनि गृहाणार्घ्यं मया दत्तं पावनं कुरु मां सदा कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

विष्णुमाये महाकाये कवेरकुलसम्भवे सह्याचलसमुद्भूते गृहाणार्घ्यं वरप्रदे कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

कुम्भसम्भवकुम्भात् त्वं सह्यामलकपूजया शङ्खोदकेन सञ्जाता गृहाणार्घ्यं समुद्रगे कावेर्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

मरुद्वृधे महालक्ष्मीस्सह्यकन्या सरस्वती अगस्त्यपत्नी कावेरी लोपामुद्रा वरप्रदा

Verse

कमण्डलुसमुत्पन्ना सर्वतीर्थाधिदेवता विरजा दक्षिणा गङ्गा ब्रह्मविष्णुशिवात्मिका

Verse

चतुर्विधफलोद्धात्री चतुराननकन्यका सर्वाभीष्टप्रदात्री च नाम्नां षोडशकं स्मृतम् एभिर्नामपदैर्नित्यं पूजयेद्भक्तिमान्नरः

Verse

सुवासिनीनां च निजाश्रितानां पतिप्रियत्वं च सुतादिवर्गम् दास्यस्युदारं बहुभोगभाग्यं कावेरि कावेरि मम प्रसीद

Verse

निजप्रवाहाप्रवलब्धपुण्य- प्रसिद्धसत्कर्मफलोदयेन नृणामभीष्टार्थविधायिनी त्वं कावेरि कावेरि मम प्रसीद

Verse

पापक्षयं पारिशुध्यमायुरारोग्यमेव च सौभाग्यमपि सन्तानं ज्ञानं देहि मरुद्वृधे

Verse

इति सम्प्रार्थ्य॥

Verse

ॐ तत् सद् ब्रह्मार्पणमस्तु।

śrī-gaṅgāpūjā
śrī-sūrya-namaskāraḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms