Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

pujavidhanam

śrī-gaṅgāpūjā

श्री-गङ्गापूजा

Verse

Verse

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये

Verse

प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।

Verse

ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे दक्षिणायने शरद्-ऋतौ तुला-मासे कृष्णपक्षे [[tithi]] शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]] नक्षत्र [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण विशेषण विशिष्टायाम् अस्यां [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थम् धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं गङ्गा-देवी-प्रीत्यर्थं यावच्छक्ति-ध्यानावाहनादि-षोडशोपचार-गङ्गा-पूजां करिष्ये तदङ्गं कलशपूजां च करिष्ये।

Verse

श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)

Verse

Verse

Verse

Verse

Verse

Verse

Verse

[विघ्नेश्वरपूजां कृत्वा।]

Verse

शुक्लाम्बर-धरं विष्णुं शशि-वर्णं चतुर्भुजम् प्रसन्न-वदनं ध्यायेत् सर्व-विघ्नोपशान्तये

Verse

प्राणानायम्य। ममोपात्त + ऋण-त्रय-विमोचनार्थं गङ्गा-भागीरथी-प्रसाद-सिद्ध्यर्थं गङ्गा-पूजां करिष्ये।

Verse

चतुर्भुजां त्रि-नयनां शुद्ध-स्फटिक-सन्निभाम् ध्यायेऽहं मकरारूढां शुभ्र-वस्त्रां शुचि-स्मिताम् गङ्गा-देवीं ध्यायामि।

Verse

विष्णु-पादाब्ज-सम्भूते विश्वनाथ-शिरः-स्थिते आवाहयामि गङ्गे त्वां भक्ताभीष्ट-फल-प्रदे गङ्गा-देवीम् आवाहयामि।

Verse

मुक्ता-रत्न-सुवर्णादि-खचितं सुन्दरं शुभम् सिंहासनं प्रदास्यामि गृहाण मकरासने गङ्गा-देव्यै नमः, आसनं समर्पयामि।

Verse

सिन्ध्वादि-सरिदुद्भूतं गन्ध-पुष्प-समन्वितम् पाद्यं ददाम्यहं देवि प्रसीद परमेश्वरि गङ्गा-देव्यै नमः, पाद्यं समर्पयामि।

Verse

ब्रह्म-पात्र-समुद्भूते गङ्गे त्रि-पथ-गामिनि गृहाणार्घ्यं प्रदास्यामि जह्नु-कन्ये नमोऽस्तु ते गङ्गा-देव्यै नमः, अर्घ्यं समर्पयामि।

Verse

सुवर्ण-कलशानीतं नाना-गन्ध-सुवासितम् आचम्यतां मया दत्तं गृहाणामृत-वर्षिणि गङ्गा-देव्यै नमः, आचमनीयं समर्पयामि।

Verse

पयोदधि-घृत-क्षौद्र-रम्भा-फल-समन्वितम् पञ्चामृतमिदं देवि स्वीकुरुष्व महेश्वरि गङ्गा-देव्यै नमः, पञ्चामृतस्नानं समर्पयामि।

Verse

नर्मदा-यमुना-सिन्धु-गोदावर्याहृतैर्जलैः स्नापयामि शिवे भक्त्या भागीरथि नमोऽस्तु ते गङ्गा-देव्यै नमः, स्नानं समर्पयामि। स्नानानन्तरम् आचमनीयं समर्पयामि।

Verse

वैदूर्य-पद्मरागादि-खचितं मेखलान्वितम् सुवर्ण-सूत्र-संयुक्तं क्षौमं दास्यामि गृह्यताम् गङ्गा-देव्यै नमः, वस्त्रं समर्पयामि।

Verse

मलयाचल-सम्भूतं कस्तूरी-कुङ्कुमान्वितम् कर्पूर-मिश्रितं गन्धं गृहाण परमेश्वरि गङ्गा-देव्यै नमः, गन्धान् धारयामि।

Verse

अक्षतान् शालि-संभूतान् हरिद्रा-कुङ्कुमान्वितान् पूजार्थं सङ्गृहाणेमान् अक्षय्य-फल-दायिनि गङ्गा-देव्यै नमः, अक्षतान् समर्पयामि।

Verse

वज्र-वैदूर्य-माणिक्य-पद्मरागादि-निर्मितम् कङ्कणं कर-शोभार्थं कामितार्थ-फल-प्रदे गङ्गा-देव्यै नमः, आभरणानि समर्पयामि।

Verse

केतकी-तुलसी-बिल्व-मल्लिका-कमलादिभिः पुन्नागैरर्चयामि त्वां गृहाणामर-वन्दिते गङ्गा-देव्यै नमः, पुष्पमालां समर्पयामि। पुष्पैः सम्पूजयामि।

Verse

पाप-पर्वत-नाशिन्यै नमःपादौ पूजयामि

Verse

भक्त-वत्सलायै नमःगुल्फौ पूजयामि

Verse

जगद्धात्र्यै नमःजङ्घे पूजयामि

Verse

जाह्नव्यै नमःजानुनी पूजयामि

Verse

शैल-सुतायै नमःऊरू पूजयामि

Verse

समुद्र-गामिन्यै नमःकटिं पूजयामि

Verse

मकरारूढायै नमःगुह्यं पूजयामि

Verse

आनन्द-वर्धिन्यै नमःजघनं पूजयामि

Verse

गङ्गायै नमःनाभिं पूजयामि

Verse

जगत्-कुक्ष्यै नमःउदरं पूजयामि

Verse

विशाल-वक्षसे नमःवक्षः-स्थलं पूजयामि

Verse

ह्लादिन्यै नमःहृदयं पूजयामि

Verse

सुस्तन्यै नमःस्तनौ पूजयामि

Verse

तरङ्गिण्यै नमःपार्श्वौ पूजयामि

Verse

उन्नत-कण्ठ्यै नमःकण्ठं पूजयामि

Verse

त्रैलोक्य-सुन्दर्यै नमःस्कन्धौ पूजयामि

Verse

अमृत-कलश-हस्तायै नमःहस्तान् पूजयामि

Verse

लीला-शुक-धारिण्यै नमःबाहून् पूजयामि

Verse

विद्या-प्रकाशिन्यै नमःमुखं पूजयामि

Verse

त्रैलोक्य-वासिन्यै नमःललाटं पूजयामि

Verse

सुनासिकायै नमःनासिकां पूजयामि

Verse

मकर-कुण्डल-धारिण्यै नमःश्रोत्रे पूजयामि

Verse

बिम्बोष्ठ्यै नमःओष्ठे पूजयामि

Verse

अनाथ-रक्षिण्यै नमःअधरं पूजयामि

Verse

चञ्चल-गत्यै नमःजिह्वां पूजयामि

Verse

अलक-नन्दायै नमःगण्ड-स्थलं पूजयामि

Verse

तिलक-धारिण्यै नमःफालं पूजयामि

Verse

ज्ञान-रूपिण्यै नमःचुबुकं पूजयामि

Verse

अमृत-बिम्बायै नमःअलकान् पूजयामि

Verse

किरीट-धारिण्यै नमःशिरः पूजयामि

Verse

भागीरथ्यै नमःसर्वाण्यङ्गानि पूजयामि

Verse

Verse

Verse

गङ्गा-देव्यै नमः, नाना-विध-परिमल-पत्र-पुष्पाणि समर्पयामि।

Verse

चन्दनागरु-मुस्तादि-घृत-गुग्गुलु-संयुतम् दशाङ्ग-द्रव्य-संयुक्तं धूपोऽयं प्रतिगृह्यताम् गङ्गा-देव्यै नमः, धूपम् आघ्रापयामि।

Verse

साज्यं त्रि-वर्ति-संयुक्तं वह्निना योजितं मया गृहाण मङ्गलं दीपं त्रैलोक्य-तिमिरापहम् गङ्गा-देव्यै नमः, दीपं दर्शयामि।

Verse

शाल्यन्नं व्यञ्जनैर्युक्तं सूपापूप-घृतान्वितम् क्षीरान्नं लड्डुकोपेतं भुज्यताममृताशिनि गङ्गा-देव्यै नमः, नैवेद्यं समर्पयामि।

Verse

पूगी-फल-समायुक्तं नाग-वल्ली-दलैर्युतम् कर्पूर-चूर्ण-संयुक्तं ताम्बूलं प्रतिगृह्यताम् गङ्गा-देव्यै नमः, कर्पूर-ताम्बूलं समर्पयामि।

Verse

तेजः-पुञ्ज-स्वरूपे ते तेजसा भासितं जगत् नीराजयामि गङ्गे त्वां भक्ताभीष्ट-फल-प्रदे गङ्गा-देव्यै नमः, नीराजनं समर्पयामि।

Verse

गङ्गे त्रि-पथ-गे दिव्ये जाह्नवि त्रिदिव-स्थिते प्रदक्षिणं करोमि त्वां प्रणताघौघ-नाशिनि गङ्गा-देव्यै नमः, प्रदक्षिण-नमस्कारान् समर्पयामि।

Verse

प्रालेयाचल-सम्भूते प्राचीनाब्धि-समागमे प्राणिनां भव-रोग-घ्नि पूजा-सम्पूर्णतां कुरु पुत्र-पौत्र-धरा-धान्य-पशु-पुण्य-फलोदयम् देहि मे देवि भक्तिं ते त्वत्-पाद-कमले सदा गङ्गा-देव्यै नमः, प्रार्थनां समर्पयामि।

Verse

पूजान्ते क्षीरार्घ्य-प्रदानं करिष्ये।

Verse

ब्रह्म-पात्र-समुद्भूते गङ्गे त्रि-पथ-गामिनि त्रैलोक्य-वन्दिते देवि गृहाणार्घ्यं नमोऽस्तु ते गङ्गायै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

तपनस्य सुते देवि यम-ज्येष्ठे यशस्विनि शुद्धानां शुद्धि-दे देवि गृहाणार्घ्यं नमोऽस्तु ते यमुनायै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

विरिञ्चि-तनये देवि ब्रह्मरन्ध्र-निवासिनि सरस्वति जगन्मातर्गृहाणार्घ्यं नमोऽस्तु ते सरस्वत्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

गङ्गा-यमुनयोर्मध्ये यत्र गुप्ता सरस्वती त्रैलोक्य-वन्दिते देवि त्रिवेण्यर्घ्यं नमोऽस्तु ते त्रिवेण्यै नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

एकार्णवे महाकल्पे सुषुप्तौ माधव-प्रभोः पर्यङ्क वट-राज त्वं गृहाणार्घ्यं नमोऽस्तु ते वट-राजाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

वेणी-माधव सर्व-ज्ञ भक्तेप्सित-फल-प्रद सफलां कुरु मे यात्रां वेणी-माधव ते नमः तीर्थ-राजाय नमः, इदमर्घ्यम् इदमर्घ्यम् इदमर्घ्यम्।

Verse

त्रि-वेणि त्र्यम्बके देवि त्रि-विधाघ-विनाशिनि त्रि-मार्गे त्रि-गुणे त्राहि त्रि-वेणि शरणागतम् प्रार्थनाः समर्पयामि।

Verse

कायेन वाचा मनसेन्द्रियैर्वा बुद्‌ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि

Verse

ॐ तत्सद्ब्रह्मार्पणमस्तु।

Verse

kārttikasomavārārghyam
śrī-kāverī-pūjā

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms