pujavidhanam
śrī-sūrya-namaskāraḥ
श्री-सूर्य-नमस्कारः
Verse
Verse
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये
Verse
प्राणान् आयम्य। ॐ भूः + भूर्भुवः॒ सुव॒रोम्।
Verse
ममोपात्त-समस्त-दुरित-क्षयद्वारा श्री-परमेश्वर-प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्य ब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यावहारिकाणां प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये [[samvatsara]] नाम संवत्सरे उत्तरायणे / दक्षिणायने [[ritu]]-ऋतौ [[masa]] मासे शुक्लपक्षे [[tithi]] शुभतिथौ [[vasara]]-वासरयुक्तायाम् [[nakshatra]] नक्षत्रयुक्तायां [[yoga]]-योग [[karana]]-करण-युक्तायां च एवं गुण-विशेषण-विशिष्टायाम् अस्याम् [[tithi]] शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्य-धैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्षचतुर्विधफलपुरुषार्थसिद्ध्यर्थं पुत्रपौत्राभिवृद्ध्यर्थम् इष्टकाम्यार्थसिद्ध्यर्थम् मम इहजन्मनि पूर्वजन्मनि जन्मान्तरे च सम्पादितानां ज्ञानाज्ञानकृतमहापातकचतुष्टय-व्यतिरिक्तानां रहस्यकृतानां प्रकाशकृतानां सर्वेषां पापानां सद्य अपनोदनद्वारा सकल-पापक्षयार्थं श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणप्रीत्यर्थं श्री-सूर्यनारायण-प्रसाद-सिद्ध्यर्थं श्री-सूर्यनारायण-पूजा-पुरस्सरं तृचकल्पेन अरुणप्रश्नेन च श्री-सूर्यनमस्कारान् करिष्ये। तदङ्गं कलशपूजां च करिष्ये।
Verse
श्रीविघ्नेश्वराय नमः यथास्थानं प्रतिष्ठापयामि। (गणपति-प्रसादं शिरसा गृहीत्वा)
Verse
Verse
Verse
Verse
Verse
Verse
Verse
ॐ। इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥ तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑। अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः॥
Verse
अस्मिन् कुम्भे सकल-तीर्थाधिपतिं वरुणं ध्यायामि। वरुणमावाहयामि।
Verse
वरुणाय नमः। आसनं समर्पयामि।
Verse
पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।
Verse
वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥
Verse
वरुणाय नमः समस्तोपचारान् समर्पयामि।
Verse
ॐ। आ स॒त्येन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च। हि॒र॒ण्यये॑न सवि॒ता रथे॒नाऽदे॒वो या॑ति॒ भुव॑ना वि॒पश्यन्॑।
Verse
सूर्यं सुन्दरलोकनाथममृतं वेदान्तसारं शिवं ज्ञानं ब्रह्ममयं सुरेशममलं लोकैकचित्तं प्रभुम् इन्द्रादित्यनराधिपं सुरगुरुं त्रैलोक्यचूडामणिं विष्णुब्रह्मशिवस्वरूपहृदयं वन्दे सदा भास्करम्
Verse
अस्मिन् कुम्भे श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणं ध्यायामि। श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायणम् आवाहयामि।
Verse
आसनं समर्पयामि। पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्पयामि। मधुपर्कं समर्पयामि। शुद्धोदकस्नानं समर्पयामि। स्नानानन्तरं आचमनीयं समर्पयामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। आभरणम् समर्पयामि। गन्धान् धारयामि। गन्धस्योपरि हरिद्राकुङ्कुमं समर्पयमि। अक्षतान् समर्पयामि। पुष्पाणि समर्पयामि।
Verse
ॐ मित्राय नमः
Verse
ॐ रवये नमः
Verse
ॐ सूर्याय नमः
Verse
ॐ भानवे नमः
Verse
ॐ खगाय नमः
Verse
ॐ पूष्णे नमः
Verse
ॐ हिरण्यगर्भाय नमः
Verse
ॐ मरीचये नमः
Verse
ॐ आदित्याय नमः
Verse
ॐ सवित्रे नमः
Verse
ॐ अर्काय नमः
Verse
ॐ भास्कराय नमः
Verse
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, नानाविधपरिमलपत्रपुष्पाणि समर्पयामि।
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, धूपमाघ्रापयामि। अलङ्कारदीपं सन्दर्शयामि। श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, नैवेद्यं निवेदयामि। निवेदनान्तरम् आचमनीयं समर्पयामि। श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, कर्पूरताम्बूलं समर्पयामि।
Verse
भा॒स्क॒राय॑ वि॒द्महे॑ महद्युतिक॒राय॑ धीमहि। तन्नो॑ आदित्यः प्रचो॒दया᳚त्।
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, समस्त-अपराध-क्षमापनार्थं कर्पूरनीराजनं दर्शयामि। कर्पूरनीरजनानन्तरम् आचमनीयं समर्पयामि। रक्षां धारयामि। श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, वेदोक्तमन्त्रपुष्पाञ्जलिं समर्पयामि। स्वर्णपुष्पं समर्पयामि। श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः, प्रदक्षिणनमस्काराः समर्पयामि।
Verse
ओं अस्य श्रीसूर्यनमस्कार-महामन्त्रस्य, कण्वपुत्रः प्रस्कन्न ऋषिः, अनुष्टुप् छन्दः, श्रीसूर्यनारायणो देवता।
Verse
ह्रां बीजम्, ह्रीं शक्तिः, ह्रूं कीलकम्। श्रीसूर्यनारायण-प्रसाद-सिद्ध्यर्थे नमस्कारे विनियोगः।
Verse
ह्रां अङ्गुष्ठाभ्यां नमः। ह्रीं तर्जनीभ्यां नमः। ह्रूं मध्यमाभ्यां नमः। ह्रैं अनामिकाभ्यां नमः। ह्रौं कनिष्ठिकाभ्यां नमः। ह्रः करतलकरपृष्ठाभ्यां नमः।
Verse
ह्रां हृदयाय नमः। ह्रीं शिरसे स्वाहा। ह्रूं शिखायै वषट्। ह्रैं कवचाय हुम्। ह्रौं नेत्रत्रयाय वौषट्। ह्रः अस्त्राय फट्।
Verse
भूर्भुवस्सुवरोमिति दिग्बन्धः॥
Verse
उदयगिरिमुपेतं भास्करं पद्महस्तं सकलभुवननेत्रं नूतनरत्नोपधेयम् तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरगुरुमभिवन्दे सुन्दरं विश्वरूपम्
Verse
लं-पृथिव्यात्मने गन्धं समर्पयामि। हं-आकाशात्मने पुष्पाणि समर्पयामि। यं-वाय्वात्मने धूपमाघ्रापयामि। रं-वह्न्यात्मने दीपं दर्शयामि। वं-अमृतात्मने अमृतोपहारं निवेदयामि। सं-सर्वात्मने सर्वोपचारान् समर्पयामि॥
Verse
ॐ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्। ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥ ॐ महागणपतये॒ नमः॑॥
Verse
उमाकोमल-हस्ताब्ज-सम्भावित-ललाटकम् हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॐ श्री-वल्ली-देवसेना-समेत-सुब्रह्मण्यस्वामिने नमः॥
Verse
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात्परं ब्रह्म तस्मै श्री-गुरवे नमः
Verse
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् निधये सर्वविद्यानां दक्षिणामूर्तये नमः
Verse
विनतातनयो देवः कर्मसाक्षी सुरेश्वरः सप्ताश्वः सप्तरज्जुश्च अरुणो मे प्रसीदतु
Verse
रज्जुवेत्रकशापाणिं प्रसन्नं कश्यपात्मजम् सर्वाभरणदीप्ताङ्गमरुणं प्रणमाम्यहम्
Verse
ॐ कर्मसाक्षिणे अरुणाय नमः॥
Verse
अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚। होता᳚रं रत्न॒-धात॑मम्॥ ऋग्वेदात्मने सूर्यनारायण-स्वामिने नमः॥
Verse
इ॒षेत्वो॒र्जे त्वा॑ वा॒यवः॑ स्थो पा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑णे॥ यजुर्वेदात्मने सूर्यनारायण-स्वामिने नमः॥
Verse
अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये। नि होता॑ सथ्सि ब॒र्हिषि॑॥ सामवेदात्मने सूर्यनारायण-स्वामिने नमः॥
Verse
शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚। शं योर॒भिस्र॑वन्तु नः॥ अथर्ववेदात्मने सूर्यनारायण-स्वामिने नमः॥
Verse
(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्))
Verse
घृणिः सूर्य॑ आदि॒त्यो न प्रभा॑ वा॒त्यक्ष॑रम्। मधु॑ क्षरन्ति॒ तद्र॑सम्। स॒त्यं वै तद्रस॒मापो॒ ज्योती॒रसो॒ऽमृतं॒ ब्रह्म॒ भूर्भुवः॒ सुव॒रोम्॥ श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
Verse
(तैत्तिरीयसंहितायां काण्डः १/प्रश्नः – ४)
Verse
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य। विश्व॒मा भा॑सि रोच॒नम्॥ उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा॒ भ्राज॑स्वते॥३२॥
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
Verse
ॐ ह्राम्। उ॒द्यन्न॒द्य मि॑त्रमहः। मित्राय नमः॥
Verse
ॐ ह्रीम्। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। रवये नमः॥
Verse
ॐ ह्रूम्। हृ॒द्रो॒गं मम॑ सूर्य। सूर्याय नमः॥
Verse
ॐ ह्रैम्। ह॒रि॒माणं॑ च नाशय। भानवे नमः॥
Verse
ॐ ह्रौम्। शुके॑षु मे हरि॒माणम्᳚। खगाय नमः॥
Verse
ॐ ह्रः। रो॒प॒णाका॑सु दध्मसि॥ पूष्णे नमः॥
Verse
ॐ ह्राम्। अथो॑ हारिद्र॒वेषु॑ मे। हिरण्यगर्भाय नमः॥
Verse
ॐ ह्रीम्। ह॒रि॒माणं॒ नि द॑ध्मसि। मरीचये नमः॥
Verse
ॐ ह्रूम्। उद॑गाद॒यमा॑दि॒त्यः। आदित्याय नमः॥
Verse
ॐ ह्रैम्। विश्वे॑न॒ सह॑सा स॒ह। सवित्रे नमः॥
Verse
ॐ ह्रौम्। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। अर्काय नमः॥
Verse
ॐ ह्रः। मो अ॒हं द्वि॑ष॒तो र॑धम्। भास्कराय नमः॥
Verse
ॐ ह्रां ह्रीम्। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। मित्र-रविभ्यां नमः॥
Verse
ॐ ह्रूं ह्रैम्। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। सूर्य-भानुभ्यां नमः॥
Verse
ॐ ह्रौं ह्रः। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥ खग-पूषभ्यां नमः॥
Verse
ॐ ह्रां ह्रीम्। अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। हिरण्यगर्भ-मरीचिभ्यां नमः॥
Verse
ॐ ह्रूं ह्रैम्। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। आदित्य-सवितृभ्यां नमः॥
Verse
ॐ ह्रौं ह्रः। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। अर्क-भास्कराभ्यां नमः॥
Verse
ॐ ह्रां ह्रीं ह्रूं ह्रैम्। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। मित्र-रवि-सूर्य-भानुभ्यो नमः॥
Verse
ॐ ह्रौं ह्रः ह्रां ह्रीम्। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥ अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। खग-पूष-हिरण्यगर्भ-मरीचिभ्यो नमः॥
Verse
ॐ ह्रूं ह्रैं ह्रौं ह्रः। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। आदित्य-सवित्रर्क-भास्करेभ्यो नमः॥
Verse
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥
Verse
मित्र-रवि-सूर्य-भानु-खग-पूषभ्यो नमः॥
Verse
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। हिरण्यगर्भ-मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः॥
Verse
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः। उ॒द्यन्न॒द्य मि॑त्रमहः। आ॒रोह॒न्नुत्त॑रां॒ दिवम्᳚। हृ॒द्रो॒गं मम॑ सूर्य। ह॒रि॒माणं॑ च नाशय। शुके॑षु मे हरि॒माणम्᳚। रो॒प॒णाका॑सु दध्मसि॥
Verse
अथो॑ हारिद्र॒वेषु॑ मे। ह॒रि॒माणं॒ नि द॑ध्मसि। उद॑गाद॒यमा॑दि॒त्यः। विश्वे॑न॒ सह॑सा स॒ह। द्वि॒षन्तं॒ मम॑ र॒न्धयन्॑। मो अ॒हं द्वि॑ष॒तो र॑धम्। मित्र-रवि-सूर्य-भानु-खग-पूष-हिरण्यगर्भ-मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः॥
Verse
(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्)) आ॒दि॒त्यो वा ए॒ष ए॒तन्म॒ण्डलं॒ तप॑ति॒ तत्र॒ ता ऋच॒स्तदृ॒चा म॑ण्डल॒ꣳ॒ स ऋ॒चां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिर्दी॒प्यते॒ तानि॒ सामा॑नि॒ स सा॒म्नां म॒ण्डल॒ꣳ॒ स सा॒म्नां लो॒कोऽथ॒ य ए॒ष ए॒तस्मि॑न्म॒ण्डले॒ऽर्चिषि॒ पुरु॑ष॒स्तानि॒ यजूꣳ॑षि॒ स यजु॑षा मण्डल॒ꣳ॒ स यजु॑षां लो॒कः सैषा त्र॒य्येव॑ वि॒द्या त॑पति॒ य ए॒षो᳚ऽन्तरा॑दि॒त्ये हि॑र॒ण्मयः॒ पुरु॑षः॥३१॥
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
Verse
(तैत्तिरीयारण्यके प्रश्नः – १० (महानारयणोपनिषत्)) आ॒दि॒त्यो वै तेज॒ ओजो॒ बलं॒ यश॒श्चक्षुः॒ श्रोत्र॑मा॒त्मा मनो॑ म॒न्युर्मनु॑र्मृ॒त्युः स॒त्यो मि॒त्रो वा॒युरा॑का॒शः प्रा॒णो लो॑कपा॒लः कः किं कं तथ्स॒त्यमन्न॑म॒मृतो॑ जी॒वो विश्वः॑ कत॒मः स्व॑य॒म्भु ब्रह्मै॒तदमृ॑त ए॒ष पुरु॑ष ए॒ष भू॒ताना॒मधि॑पति॒र्ब्रह्म॑णः॒ सायु॑ज्यꣳ सलो॒कता॑माप्नोत्ये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ॒ सायु॑ज्यꣳ सा॒र्ष्टिताꣳ॑ समानलो॒कता॑माप्नोति॒ य ए॒वं वेदे᳚त्युप॒निषत्॥३२॥
Verse
श्री-छाया-सुवर्चलाम्बा-समेत-श्री-सूर्यनारायण-स्वामिने नमः॥
Verse
Verse
Verse
भानो भास्कर मार्तण्ड चण्डरश्मे दिवाकर आयुरारोग्यमैश्वर्यं श्रियं पुत्रांश्च देहि मे
Verse
धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे
Verse
सौरमण्डलमध्यस्थं साम्बं संसारभेषजम् नीलग्रीवं विरूपाक्षं नमामि शिवमव्ययम्
Verse
ध्येयः सदा सवितृमण्डल-मध्यवर्ती नारायणः सरसि-जासन-सन्निविष्टः केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः
Verse
शङ्ख-चक्र-गदापाणे द्वारकानिलयाच्युत गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम्
Verse
आकाशात् पतितं तोयं यथा गच्छति सागरम् सर्वदेवनमस्कारः केशवं प्रतिगच्छति
Verse
श्री-केशवं प्रतिगच्छत्यों नम इति॥
Verse
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि
Verse
अनेन पूजनेन सपरिवार-भगवान्-सूर्यः प्रीयताम्।
Verse
ॐ तत्सद्ब्रह्मार्पणमस्तु।
