Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

maṅgalakavacam

मङ्गलकवचम्

Verse

श्रीगणेशाय नमः । अस्य श्री अङ्गारककवचस्तोत्रमन्त्रस्य कश्यप ऋषिः, अनुष्टुप् छन्दः, अङ्गारको देवता, भौमप्रीत्यर्थं जपे विनियोगः । रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदा मम स्याद्वरदः प्रशान्तः ॥१॥

Verse

अङ्गारकः शिरो रक्षेन्मुखं वै धरणीसुतः । श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ॥२॥

Verse

नासां शक्तिधरः पातु मुखं मे रक्तलोचनः । भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥३॥

Verse

वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः । कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥४॥

Verse

जानुजङ्घे कुजः पातु पादौ भक्तप्रियः सदा । सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ॥५॥

Verse

य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् । भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ॥६॥

Verse

सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् । भुक्तिमुक्तिप्रदं नॄणां सर्वसौभाग्यवर्धनम् । रोगबन्धविमोक्षं च सत्यमेतन्न संशयः ॥७॥

Verse

॥ इति श्रीमार्कण्डेयपुराणे मङ्गलकवचं सम्पूर्णम् ॥

śrībhairavīkavacam
śrīmallārikavacam

Read next

More on मङ्गलकवचम्

  • श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्Kavach
  • विष्णुकवचं अथवा त्रैलोक्यमङ्गलकवचम्Kavach
  • शान्तिकं सहितं श्रीहरिमङ्गलकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms