Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

śrīmallārikavacam

श्रीमल्लारिकवचम्

Verse

मल्हारिकवचम् श्रीगणेशाय नमः । अस्य श्रीमल्लारिकवचमन्त्रस्य स्कन्दऋषिः । अनुष्ठुप्छन्दः । श्रीमल्लारिदेवता । श्रीमल्लारिकवचजपे विनियोगः ॥

Verse

अथ ध्यानम् । ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं श्वेताश्वं खड्गहस्तं विबुधबुधगणैस्सेव्यमानं कृतार्थे । युक्ताङ्घ्रि दैत्यमूर्घ्नी डमरुविलसितं नैशचूर्णाभिरामं नित्यंभक्तेषु तुष्टं श्वगणपरिवृतं नित्यमोंकाररूपम् ॥

Verse

अथ कवचम् । सनत्कुमार उवाच । मुनीनां सप्तकोटीनां वरदं भक्तवत्सलम् । दुष्टमर्दनदेवेशं वन्देऽहं म्हालसापतिम् ॥१॥

Verse

अनुग्रहाय देवानां मणिरत्नगिरी स्थितम् । प्रसन्नवदनं नित्यं वन्देऽहं मल्लवैरिणम् ॥२॥

Verse

सर्वदेवमयं शान्तं कौमारं करुणाकरम् । आदिरुद्रं महारुद्रं वन्देऽहं सात्विकप्रियम् ॥३॥

Verse

भुक्तिमुक्तिप्रदं देवं सर्वाभरणभूषितम् । कोटिसूर्यप्रतीकाशं वन्देऽहमसुरान्तकम् ॥४॥

Verse

आदिदेवं महादेवं मल्लारिपरमेश्वरम् । वीरसत्त्वं विरूपाक्षं वन्देऽहं भक्तवत्सलम् ॥५॥

Verse

भोगरूपपरंज्योतिः शिरोमालाविभूषितम् । त्रिशूलादिधरं देवं वन्देऽहं लोकरक्षकम् ॥६॥

Verse

इदं पठति यो भक्त्या मल्लारिप्रीतिकारकम् । भक्तानां वरदं नित्यं प्रणतोऽस्मि महेश्वरम् ॥७॥

Verse

फलश्रुतिः - वने रणे महादुर्गे राजचोरभयोऽप्लुते । शाकिनीडाकिनीभूतपिशाचोरगराक्षसाः । ग्रहपीडासु रोगेषु विषसर्पभयेषु च ॥८॥

Verse

सदा मल्लारिमल्लारिमल्लारिरिति कीर्तनम् । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥९॥

Verse

त्रिकाले तु पठेन्नित्यं विष्णुलोकं स गच्छती । देहान्ते तु तं प्राप्नोती सर्वलोके महीयते ॥१०॥

Verse

इति श्रीब्रह्माण्डपुराणे क्षेत्रखण्डे मल्लारिमाहात्म्ये श्रीमल्हारिकवचं सम्पूर्णम् ॥

maṅgalakavacam
śrī mahākālakavacam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms