Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

gaṇeśakavacam

गणेशकवचम्

Verse

ध्यायेत् सिंहगतं विनायकममुं दिग्बाहुमाद्ये युगे त्रेतायां तु मयूरवाहनममुं षड्बाहुकं सिद्धिदम् । द्वापरे तु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥१॥

Verse

विनायकः शिखां पातु परमात्मा परात्परः । अतिसुन्दरकायस्तु मस्तकं महोत्कटः ॥२॥

Verse

ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः । नयने फालचन्द्रस्तु गजास्यस्त्वोष्ठपल्लवौ ॥३॥

Verse

जिह्वां पातु गणक्रीडश्चिबुकं गिरिजासुतः । वाचं विनायकः पातु दन्तान् रक्षतु दुर्मुखः ॥४॥

Verse

श्रवणौ पाशपाणिस्तु नासिकां चिन्तितार्थदः । गणेशस्तु मुखं कण्ठं पातु देवो गणञ्जयः ॥५॥

Verse

स्कन्धौ पातु गजस्कन्धः स्तनौ विघ्नविनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥६॥

Verse

धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरः शुभः । लिंगं गुह्यं सदा पातु वक्रतुण्डो महाबलः ॥७॥

Verse

गणक्रीडो जानुजंघे ऊरू मङ्गलमूर्तिमान् । एकदन्तो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥८॥

Verse

क्षिप्रप्रसादनो बाहू पाणी आशाप्रपूरकः । अंगुलींश्च नखान् पातु पद्महस्तोऽरिनाशनः ॥९॥

Verse

सर्वांगानि मयूरेशो विश्वव्यापी सदाऽवतु । अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥१०॥

Verse

आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीशः आग्नेयां सिद्धिदायकः ॥११॥

Verse

दक्षिणस्यामुमापुत्रो नैरृत्यांतु गणेश्वरः । प्रतीच्यां विघ्नहर्ताव्याद्वायव्यां गजकर्णकः ॥१२॥

Verse

कौबेर्यां निधिपः पायादीशान्यामीशनन्दनः । दिवाऽव्यादेकदन्तस्तु रात्रौ सन्ध्यासु विघ्नहृत् ॥१३॥

Verse

राक्षसासुरवेतालग्रहभूतपिशाचतः । पाशाङ्कुशधरः पातु रजस्सत्वतमःस्मृतिम् ॥१४॥

Verse

ज्ञानं धर्मं च लक्ष्मीं च लज्जां कीर्तिं तथा कुलम् । वपुर्धनं च धान्यं च गृहदारान् सुतान् सखीन् ॥१५॥

Verse

सर्वायुधधरः पौत्रान् मयूरेशोऽवतात्सदा । कपिलोऽजाविकं पातु गजाश्वान् विकटोऽवतु ॥१६॥

Verse

भूर्जपत्रे लिखित्वेदं यः कण्ठे धारयेत् सुधीः । न भयं जायते तस्ययक्षरक्षपिशाचतः ॥१७॥

Verse

त्रिसन्ध्यं जपते यस्तु वज्रसारतनुर्भवेत् । यात्राकाले पठेद्यस्तुनिर्विघ्नेन फलं लभेत् ॥१८॥

Verse

युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्द्रुतम् । मारणोच्चाटनाकर्षस्तंभमोहनकर्मणि ॥१९॥

Verse

सप्तवारं जपेदेतद्दिनानामेकविंशतिम् । तत्तत्फलमवाप्नोति साध्यको नात्रसंशयः ॥२०॥

Verse

एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्यो राज्ञावध्यश्च मोचयेत् ॥२१॥

Verse

राजदर्शनवेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥२२॥

śrīsūryakavacam
nāradapāñcarātrāntargatam

Read next

More on गणेशकवचम्

  • उच्छिष्टगणेशकवचम्Kavach
  • मुद्गलकृतं गणेशकवचम्Kavach
  • श्रीगणेशकवचम्Kavach
  • नारायणप्रोक्तं गणेशकवचम्Kavach
  • वक्रतुण्डगणेशकवचम् अथवा गणेशरक्षाकरं स्तोत्रम्Kavach
  • वरदगणेशकवचम्Kavach

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms